प्रणश्यन्ति ततः सर्वे वृक्षास्ते गृहसंज्ञिताः ततस्तेषु प्रनष्टेषु विभ्रान्ता मैथुनोद्भवाः
अपि ध्यायन्ति तां सिद्धिं सत्याभिध्यायिनस्तदा प्रादुर्बभूवुस्तासां तु वृक्षास्ते गृहसंज्ञिताः
वस्त्राणि ते प्रसूयन्ते फलान्याभरणानि च तेष्वेव जायते तासां गन्धवर्णरसान्वितम्
अमाक्षिकं महीवीर्यं पुटके पुटके मधु तेन ता वर्तयन्ति स्म सुखमायुः सदैव हि
हृष्टपुष्टास्तया सिद्ध्या प्रजा वै विगतज्वराः ततः कालान्तरेणैव पुनर्लोभावृतास्तु ताः
वृक्षांस्तान्पर्यगृह्णन्ति मधु वा माक्षिकं बलात् तासां तेनोपचारेण पुनर्लोभकृतेन वै
प्रनष्टा मधुना सार्धं कल्पवृक्षाः क्वचित्क्वचित् तस्यामेवाल्पशिष्टायां सिद्ध्यां कालवशात्तदा
आवर्तनात्तु त्रेतायां द्वन्द्वान्यभ्युत्थितानि वै शीतवर्षातपैस्तीव्रैस् ततस्ता दुःखिता भृशम्
द्वन्द्वैः सम्पीड्यमानाश् च चक्रुर् आवरणानि तु कृतद्वन्द्वप्रतीघाताः केतनानि गिरौ ततः
पूर्वं निकामचारास्ता ह्य् अनिकेता अथावसन् यथायोगं यथाप्रीति निकेतेष्ववसन्पुनः
कृत्वा द्वन्द्वोपघातांस्तान् वृत्त्युपायमचिन्तयन् नष्टेषु मधुना सार्धं कल्पवृक्षेषु वै तदा
विवादव्याकुलास्ता वै प्रजास्तृष्णाक्षुधार्दिताः ततः प्रादुर्बभौ तासां सिद्धिस्त्रेतायुगे पुनः
वार्तायाः साधिकाप्यन्या वृष्टिस्तासां निकामतः तासां वृष्ट्युदकादीनि ह्य् अभवन्निम्नगानि तु
अभवन्वृष्टिसंतत्या स्रोतस्थानानि निम्नगाः एवं नद्यः प्रवृत्तास्तु द्वितीये वृष्टिसर्जने
ये पुनस्तदपां स्तोकाः पतिताः पृथिवीतले अपां भूमेश् च संयोगाद् ओषध्यस्तास्तदाभवन्
अथाल्पकृष्टाश्चानुप्ता ग्राम्यारण्याश्चतुर्दश ऋतुपुष्पफलाश्चैव वृक्षगुल्माश् च जज्ञिरे
प्रादुर्भूतानि चैतानि वृक्षजात्यौषधानि च तेनौषधेन वर्तन्ते प्रजास्त्रेतायुगे तदा
ततः पुनरभूत्तासां रागो लोभश् च सर्वशः अवश्यं भाविनार्थेन त्रेतायुगवशेन च
ततस्ताः पर्यगृह्णन्त नदीक्षेत्राणि पर्वतान् वृक्षगुल्मौषधीश्चैव प्रसह्य तु यथाबलम्
विपर्ययेण चौषध्यः प्रनष्टास्ताश्चतुर्दश मत्वा धरां प्रविष्टास्ता इत्यौषध्यः पितामहः
दुदोह गां प्रयत्नेन सर्वभूतहिताय वै तदाप्रभृति चौषध्यः फालकृष्टास्त्वितस्ततः
वार्तां कृषिं समायाता वर्तुकामाः प्रयत्नतः वार्ता वृत्तिः समाख्याता कृषिकामप्रयत्नतः
अन्यथा जीवितं तासां नास्ति त्रेतायुगात्यये हस्तोद्भवा ह्यपश्चैव भवन्ति बहुशस्तदा
तत्रापि जगृहुः सर्वे चान्योन्यं क्रोधमूर्छिताः सुतदारधनाद्यांस्तु बलाद्युगबलेन तु
मर्यादायाः प्रतिष्ठार्थं ज्ञात्वा तदखिलं विभुः ससर्ज क्षत्रियांस्त्रातुं क्षतात्कमलसंभवः
वर्णाश्रमप्रतिष्ठां च चकार स्वेन तेजसा वृत्तेन वृत्तिना वृत्तं विश्वात्मा निर्ममे स्वयम्
यज्ञप्रवर्तनं चैव त्रेतायामभवत्क्रमात् पशुयज्ञं न सेवन्ते केचित्तत्रापि सुव्रताः
बलाद्विष्णुस्तदा यज्ञम् अकरोत्सर्वदृक् क्रमात् द्विजास्तदा प्रशंसन्ति ततस्त्वाहिंसकं मुने
द्वापरेष्वपि वर्तन्ते मतिभेदास्तदा नृणाम् मनसा कर्मणा वाचा कृच्छ्राद्वार्ता प्रसिध्यति
तदा तु सर्वभूतानां कायक्लेशवशात्क्रमात् लोभो भृतिर्वणिग्युद्धं तत्त्वानामविनिश्चयः