प्रजास्तृप्ताः सदा सर्वाः सर्वानन्दाश् च भोगिनः अधमोत्तमता तासां न विशेषाः प्रजाः शुभाः
तुल्यमायुः सुखं रूपं तासां तस्मिन्कृते युगे तासां प्रीतिर्न च द्वन्द्वं न द्वेषो नास्ति च क्लमः
पर्वतोदधिवासिन्यो ह्य् अनिकेताश्रयास्तु ताः विशोकाः सत्त्वबहुला एकान्तबहुलास् तथा
ता वै निष्कामचारिण्यो नित्यं मुदितमानसाः अप्रवृत्तिः कृतयुगे कर्मणोः शुभपापयोः
वर्णाश्रमव्यवस्था च तदासीन्न च संकरः रसोल्लासः कालयोगात् त्रेताख्ये नश्यते द्विज
तस्यां सिद्धौ प्रनष्टायाम् अन्या सिद्धिः प्रजायते अपां सौक्ष्म्ये प्रतिगते तदा मेघात्मना तु वै
मेघेभ्यस्तनयित्नुभ्यः प्रवृत्तं वृष्टिसर्जनम् सकृद् एव तथा वृष्ट्या संयुक्ते पृथिवीतले
प्रादुरासंस्तदा तासां वृक्षास्ते गृहसंज्ञिताः सर्ववृत्त्युपभोगस्तु तासां तेभ्यः प्रजायते
वर्तयन्ति स्म तेभ्यस्तास् त्रेतायुगमुखे प्रजाः ततः कालेन महता तासामेव विपर्ययात्
रागलोभात्मको भावस् तदा ह्याकस्मिको ऽभवत् विपर्ययेण तासां तु तेन तत्कालभाविना
प्रणश्यन्ति ततः सर्वे वृक्षास्ते गृहसंज्ञिताः ततस्तेषु प्रनष्टेषु विभ्रान्ता मैथुनोद्भवाः
अपि ध्यायन्ति तां सिद्धिं सत्याभिध्यायिनस्तदा प्रादुर्बभूवुस्तासां तु वृक्षास्ते गृहसंज्ञिताः
वस्त्राणि ते प्रसूयन्ते फलान्याभरणानि च तेष्वेव जायते तासां गन्धवर्णरसान्वितम्
अमाक्षिकं महीवीर्यं पुटके पुटके मधु तेन ता वर्तयन्ति स्म सुखमायुः सदैव हि
हृष्टपुष्टास्तया सिद्ध्या प्रजा वै विगतज्वराः ततः कालान्तरेणैव पुनर्लोभावृतास्तु ताः
वृक्षांस्तान्पर्यगृह्णन्ति मधु वा माक्षिकं बलात् तासां तेनोपचारेण पुनर्लोभकृतेन वै
प्रनष्टा मधुना सार्धं कल्पवृक्षाः क्वचित्क्वचित् तस्यामेवाल्पशिष्टायां सिद्ध्यां कालवशात्तदा
आवर्तनात्तु त्रेतायां द्वन्द्वान्यभ्युत्थितानि वै शीतवर्षातपैस्तीव्रैस् ततस्ता दुःखिता भृशम्
द्वन्द्वैः सम्पीड्यमानाश् च चक्रुर् आवरणानि तु कृतद्वन्द्वप्रतीघाताः केतनानि गिरौ ततः
पूर्वं निकामचारास्ता ह्य् अनिकेता अथावसन् यथायोगं यथाप्रीति निकेतेष्ववसन्पुनः
कृत्वा द्वन्द्वोपघातांस्तान् वृत्त्युपायमचिन्तयन् नष्टेषु मधुना सार्धं कल्पवृक्षेषु वै तदा
विवादव्याकुलास्ता वै प्रजास्तृष्णाक्षुधार्दिताः ततः प्रादुर्बभौ तासां सिद्धिस्त्रेतायुगे पुनः
वार्तायाः साधिकाप्यन्या वृष्टिस्तासां निकामतः तासां वृष्ट्युदकादीनि ह्य् अभवन्निम्नगानि तु
अभवन्वृष्टिसंतत्या स्रोतस्थानानि निम्नगाः एवं नद्यः प्रवृत्तास्तु द्वितीये वृष्टिसर्जने
ये पुनस्तदपां स्तोकाः पतिताः पृथिवीतले अपां भूमेश् च संयोगाद् ओषध्यस्तास्तदाभवन्
अथाल्पकृष्टाश्चानुप्ता ग्राम्यारण्याश्चतुर्दश ऋतुपुष्पफलाश्चैव वृक्षगुल्माश् च जज्ञिरे
प्रादुर्भूतानि चैतानि वृक्षजात्यौषधानि च तेनौषधेन वर्तन्ते प्रजास्त्रेतायुगे तदा
ततः पुनरभूत्तासां रागो लोभश् च सर्वशः अवश्यं भाविनार्थेन त्रेतायुगवशेन च
ततस्ताः पर्यगृह्णन्त नदीक्षेत्राणि पर्वतान् वृक्षगुल्मौषधीश्चैव प्रसह्य तु यथाबलम्
विपर्ययेण चौषध्यः प्रनष्टास्ताश्चतुर्दश मत्वा धरां प्रविष्टास्ता इत्यौषध्यः पितामहः