विभुश्चानुग्रहं तत्र कौमारकम् अदीनधीः पुरस्तादसृजद्देवः सनन्दं सनकं तथा
सनातनं सतां श्रेष्ठं नैष्कर्म्येण गताः परम् मरीचिभृग्वङ्गिरसं पुलस्त्यं पुलहं क्रतुम्
दक्षमत्रिं वसिष्ठं च सो ऽसृजद् योगविद्यया संकल्पं चैव धर्मं च ह्य् अधर्मं भगवान्प्रभुः
द्वादशैव प्रजास्त्वेता ब्रह्मणो ऽव्यक्तजन्मनः ऋभुं सनत्कुमारं च ससर्जादौ सनातनः
तौ चोर्ध्वरेतसौ दिव्यौ चाग्रजौ ब्रह्मवादिनौ कुमारौ ब्रह्मणस्तुल्यौ सर्वज्ञौ सर्वभाविनौ
एवं मुख्यादिकान् सृष्ट्वा पद्मयोनिः शिलाशन युगधर्मानशेषांश् च कल्पयामास विश्वसृक्
श्रुत्वा शक्रेण कथितं पिता मम महामुनिः पुनः पप्रच्छ देवेशं प्रणम्य रचिताञ्जलिः
भगवन् शक्र सर्वज्ञ देवदेवनमस्कृत शचीपते जगन्नाथ सहस्राक्ष महेश्वर
युगधर्मान्कथं चक्रे भगवान्पद्मसंभवः वक्तुमर्हसि मे सर्वं सांप्रतं प्रणताय मे
तस्य तद्वचनं श्रुत्वा शिलादस्य महात्मनः व्याजहार यथादृष्टं युगधर्मं सुविस्तरम्
आद्यं कृतयुगं विद्धि ततस्त्रेतायुगं मुने द्वापरं तिष्यमित्येते चत्वारस्तु समासतः
सत्त्वं कृतं रजस्त्रेता द्वापरं च रजस्तमः कलिस्तमश् च विज्ञेयं युगवृत्तिर्युगेषु च
ध्यानं परं कृतयुगे त्रेतायां यज्ञ उच्यते भजनं द्वापरे शुद्धं दानमेव कलौ युगे
चत्वारि च सहस्राणि वर्षाणां तत्कृतं युगम् तस्य तावच्छती संध्या संध्यांशश् च तथाविधः
चत्वारि च सहस्राणि मानुषाणि शिलाशन आयुः कृतयुगे विद्धि प्रजानामिह सुव्रत
ततः कृतयुगे तस्मिन् संध्यांशे च गते तु वै पादावशिष्टो भवति युगधर्मस्तु सर्वतः
चतुर्भागैकहीनं तु त्रेतायुगमनुत्तमम् कृतार्धं द्वापरं विद्धि तदर्धं तिष्यमुच्यते
त्रिशती द्विशती संध्या तथा चैकशती मुने संध्यांशकं तथाप्येवं कल्पेष्वेवं युगे युगे
आद्ये कृतयुगे धर्मश् चतुष्पादः सनातनः त्रेतायुगे त्रिपादस्तु द्विपादो द्वापरे स्थितः
त्रिपादहीनस्तिष्ये तु सत्तामात्रेण धिष्ठितः कृते तु मिथुनोत्पत्तिर् वृत्तिः साक्षाद्रसोल्लसा
प्रजास्तृप्ताः सदा सर्वाः सर्वानन्दाश् च भोगिनः अधमोत्तमता तासां न विशेषाः प्रजाः शुभाः
तुल्यमायुः सुखं रूपं तासां तस्मिन्कृते युगे तासां प्रीतिर्न च द्वन्द्वं न द्वेषो नास्ति च क्लमः
पर्वतोदधिवासिन्यो ह्य् अनिकेताश्रयास्तु ताः विशोकाः सत्त्वबहुला एकान्तबहुलास् तथा
ता वै निष्कामचारिण्यो नित्यं मुदितमानसाः अप्रवृत्तिः कृतयुगे कर्मणोः शुभपापयोः
वर्णाश्रमव्यवस्था च तदासीन्न च संकरः रसोल्लासः कालयोगात् त्रेताख्ये नश्यते द्विज
तस्यां सिद्धौ प्रनष्टायाम् अन्या सिद्धिः प्रजायते अपां सौक्ष्म्ये प्रतिगते तदा मेघात्मना तु वै
मेघेभ्यस्तनयित्नुभ्यः प्रवृत्तं वृष्टिसर्जनम् सकृद् एव तथा वृष्ट्या संयुक्ते पृथिवीतले
प्रादुरासंस्तदा तासां वृक्षास्ते गृहसंज्ञिताः सर्ववृत्त्युपभोगस्तु तासां तेभ्यः प्रजायते
वर्तयन्ति स्म तेभ्यस्तास् त्रेतायुगमुखे प्रजाः ततः कालेन महता तासामेव विपर्ययात्
रागलोभात्मको भावस् तदा ह्याकस्मिको ऽभवत् विपर्ययेण तासां तु तेन तत्कालभाविना