भवान्कथमनुप्राप्तो महादेवमुमापतिम् श्रोतुमिच्छामि तत्सर्वं वक्तुमर्हसि मे प्रभो
प्रजाकामः शिलादो ऽभूत् पिता मम महामुने सो ऽप्यन्धः सुचिरं कलं तपस्तेपे सुदुश्चरम्
तपतस्तस्य तपसा संतुष्टो वज्रधृक् प्रभुः शिलादमाह तुष्टो ऽस्मि वरयस्व वरानिति
ततः प्रणम्य देवेशं सहस्राक्षं सहामरैः प्रोवाच मुनिशार्दूल कृताञ्जलिपुटो हरिम्
भगवन्देवतारिघ्न सहस्राक्ष वरप्रद अयोनिजं मृत्युहीनं पुत्रमिच्छामि सुव्रत
पुत्रं दास्यामि विप्रर्षे योनिजं मृत्युसंयुतम् अन्यथा ते न दास्यामि मृत्युहीना न सन्ति वै
न दास्यति सुतं ते ऽत्र मृत्युहीनमयोनिजम् पितामहो ऽपि भगवान् किमुतान्ये महामुने
सो ऽपि देवः स्वयं ब्रह्मा मृत्युहीनो न चेश्वरः योनिजश् च महातेजाश् चाण्डजः पद्मसंभवः
महेश्वराङ्गजश्चैव भवान्यास्तनयः प्रभुः तस्याप्यायुः समाख्यातं परार्धद्वयसंमितम्
कोटिकोटिसहस्राणि अहर्भूतानि यानि वै समतीतानि कल्पानां तावच्छेषापरत्रये
तस्मादयोनिजे पुत्रे मृत्युहीने प्रयत्नतः परित्यजाशां विप्रेन्द्र गृहाणात्मसमं सुतम्
तस्य तद्वचनं श्रुत्वा पिता मे लोकविश्रुतः शिलाद इति पुण्यात्मा पुनः प्राह शचीपतिम्
भगवन्नण्डयोनित्वं पद्मयोनित्वमेव च महेश्वराङ्गयोनित्वं श्रुतं वै ब्रह्मणो मया
पुरा महेन्द्रदायादाद् गदतश्चास्य पूर्वजात् नारदाद्वै महाबाहो कथमत्राशु नो वद
दाक्षायणी सा दक्षो ऽपि देवः पद्मोद्भवात्मजः पौत्रीकनकगर्भस्य कथं तस्याः सुतो विभुः
स्थाने संशयितुं विप्र तव वक्ष्यामि कारणम् कल्पे तत्पुरुषे वृत्तं ब्रह्मणः परमेष्ठिनः
ससर्ज सकलं ध्यात्वा ब्रह्माणं परमेश्वरः जनार्दनो जगन्नाथः कल्पे वै मेघवाहने
दिव्यं वर्षसहस्रं तु मेघो भूत्वावहद्धरम् नारायणो महादेवं बहुमानेन सादरम्
दृष्ट्वा भावं महादेवो हरेः स्वात्मनि शङ्करः प्रददौ तस्य सकलं स्रष्टुं वै ब्रह्मणा सह
तदा तं कल्पमाहुर्वै मेघवाहनसंज्ञया हिरण्यगर्भस्तं दृष्ट्वा तस्य देहोद्भवस्तदा
जनार्दनसुतः प्राह तपसा प्राप्य शङ्करम् तव वामाङ्गजो विष्णुर् दक्षिणाङ्गभवो ह्यहम्
मया सह जगत्सर्वं तथाप्यसृजदच्युतः जगन्मयो ऽवहद्यस्मान् मेघो भूत्वा दिवानिशम्
भवन्तमवहद्विष्णुर् देवदेवं जगद्गुरुम् नारायणादपि विभो भक्तो ऽहं तव शङ्कर
प्रसीद देहि मे सर्वं सर्वात्मत्वं तव प्रभो तदाथ लब्ध्वा भगवान् भवात्सर्वात्मतां क्षणात्
त्वरमाणो ऽथ संगम्य ददर्श पुरुषोत्तमम् एकार्णवालये शुभ्रे त्व् अन्धकारे सुदारुणे
हेमरत्नचिते दिव्ये मनसा च विनिर्मिते दुष्प्राप्ये दुर्जनैः पुण्यैः सनकाद्यैरगोचरे
जगदावासहृदयं ददर्श पुरुषं त्वजः अनन्तभोगशय्यायां शायिनं पङ्कजेक्षणम्
शङ्खचक्रगदापद्मं धारयन्तं चतुर्भुजम् सर्वाभरणसंयुक्तं शशिमण्डलसन्निभम्
श्रीवत्सलक्षणं देवं प्रसन्नास्यं जनार्दनम् रमामृदुकराम्भोजस्पर्शरक्तपदाम्बुजम्
परमात्मानमीशानं तमसा कालरूपिणम् रजसा सर्वलोकानां सर्गलीलाप्रवर्तकम्