श्रुत्वा वाक्यं दधीचस्य तदास्थाय जनार्दनः स्वरूपं सस्मितं प्राह संत्यज्य द्विजतां क्षणात्
भयं दधीच सर्वत्र नास्त्येव तव सुव्रत भवार्चनरतो यस्माद् भवान् सर्वज्ञ एव च
बिभेमीति सकृद्वक्तुं त्वमर्हसि नमस्तव नियोगान्मम विप्रेन्द्र क्षुपं प्रति सदस्यथ
एवं श्रुत्वापि तद्वाक्यं सान्त्वं विष्णोर्महामुनिः न बिभेमीति तं प्राह दधीचो देवसत्तमम्
प्रभावाद्देवदेवस्य शंभोः साक्षात्पिनाकिनः शर्वस्य शङ्करस्यास्य सर्वज्ञस्य महामुनिः
ततस्तस्य मुनेः श्रुत्वा वचनं कुपितो हरिः चक्रमुद्यम्य भगवान् दिधक्षुर्मुनिसत्तमम्
अभवत्कुण्ठिताग्रं हि विष्णोश्चक्रं सुदर्शनम् प्रभावाद्धि दधीचस्य क्षुपस्यैव हि संनिधौ
दृष्ट्वा तत्कुण्ठिताग्रं हि चक्रं चक्रिणमाह सः दधीचः सस्मितं साक्षात् सदसद्व्यक्तिकारणम्
भगवन् भवता लब्धं पुरातीव सुदारुणम् सुदर्शनमिति ख्यातं चक्रं विष्णो प्रयत्नतः
भवस्यैतच्छुभं चक्रं न जिघांसति मामिह ब्रह्मास्त्राद्यैस्तथान्यैर्हि प्रयत्नं कर्तुमर्हसि
तस्य तद्वचनं श्रुत्वा दृष्ट्वा निर्वीर्यमायुधम् ससर्ज च पुनस्तस्मै सर्वास्त्राणि समन्ततः
चक्रुर्देवास्ततस्तस्य विष्णोः साहाय्यमव्ययाः द्विजेनैकेन योद्धुं हि प्रवृत्तस्य महाबलाः
कुशमुष्टिं तदादाय दधीचः संस्मरन्भवम् ससर्ज सर्वदेवेभ्यो वज्रास्थिः सर्वतो वशी
दिव्यं त्रिशूलम् अभवत् कालाग्निसदृशप्रभम् दग्धुं देवान्मतिं चक्रे युगान्ताग्निरिवापरः
इन्द्रनारायणाद्यैश् च देवैस्त्यक्तानि यानि तु आयुधानि समस्तानि प्रणेमुस् त्रिशिखं मुने
देवाश् च दुद्रुवुः सर्वे ध्वस्तवीर्या द्विजोत्तम ससर्ज भगवान् विष्णुः स्वदेहात्पुरुषोत्तमः
आत्मनः सदृशान् दिव्यांल् लक्षलक्षायुतान् गणान् तानि सर्वाणि सहसा ददाह मुनिसत्तमः
ततो विस्मयनार्थाय विश्वमूर्तिरभूद्धरिः तस्य देहे हरेः साक्षाद् अपश्यद्द्विजसत्तमः
दधीचो भगवान्विप्रः देवतानां गणान् पृथक् रुद्राणां कोटयश्चैव गणानां कोटयस्तदा
अण्डानां कोटयश्चैव विश्वमूर्तेस्तनौ तदा दृष्ट्वैतदखिलं तत्र च्यावनिर् विस्मितं तदा
विष्णुमाह जगन्नाथं जगन्मयमजं विभुम् अंभसाभ्युक्ष्य तं विष्णुं विश्वरूपं महामुनिः
मायां त्यज महाबाहो प्रतिभासा विचारतः विज्ञानानां सहस्राणि दुर्विज्ञेयानि माधव
मयि पश्य जगत् सर्वं त्वया सार्धम् अनिन्दित ब्रह्माणं च तथा रुद्रं दिव्यां दृष्टिं ददामि ते
इत्युक्त्वा दर्शयामास स्वतनौ निखिलं मुनिः तं प्राह च हरिं देवं सर्वदेवभवोद्भवम्
मायया ह्यनया किं वा मन्त्रशक्त्याथ वा प्रभो वस्तुशक्त्याथ वा विष्णो ध्यानशक्त्याथ वा पुनः
त्यक्त्वा मायामिमां तस्माद् योद्धुमर्हसि यत्नतः एवं तस्य वचः श्रुत्वा दृष्ट्वा माहात्म्यमद्भुतम्
देवाश् च दुद्रुवुर्भूयो देवं नारायणं च तम् वारयामास निश्चेष्टं पद्मयोनिर्जगद्गुरुः
निशम्य वचनं तस्य ब्रह्मणस्तेन निर्जितः जगाम भगवान् विष्णुः प्रणिपत्य महामुनिम्
क्षुपो दुःखातुरो भूत्वा सम्पूज्य च मुनीश्वरम् दधीचमभिवन्द्याशु प्रार्थयामास विक्लवः
दधीच क्षम्यतां देव मयाज्ञानात्कृतं सखे विष्णुना हि सुरैर्वापि रुद्रभक्तस्य किं तव