साधर्म्येणावतिष्ठेते प्रधानपुरुषावुभौ गुणानां चैव वैषम्ये विप्राः सृष्टिरिति स्मृता
साम्ये लयो गुणानां तु तयोर्हेतुर्महेश्वरः लीलया देवदेवेन सर्गास्त्वीदृग्विधाः कृताः
असंख्याताश् च संक्षेपात् प्रधानाद् अन्वधिष्ठितात् असंख्याताश् च कल्पाख्या ह्य् असंख्याताः पितामहाः
हरयश्चाप्यसंख्यातास् त्व् एक एव महेश्वरः प्रधानादिप्रवृत्तानि लीलया प्राकृतानि तु
गुणात्मिका च तद्वृत्तिस् तस्य देवस्य वै त्रिधा अप्राकृतस्य तस्यादिर् मध्यान्तं नास्ति चात्मनः
पितामहस्याथ परः परार्धद्वयसंमितः दिवा सृष्टं तु यत्सर्वं निशि नश्यति चास्य तत्
भूर्भुवःस्वर्महस्तत्र नश्यते चोर्ध्वतो न च रात्रौ चैकार्णवे ब्रह्मा नष्टे स्थावरजङ्गमे
सुष्वापाम्भसि यस्तस्मान् नारायण इति स्मृतः शर्वर्यन्ते प्रबुद्धो वै दृष्ट्वा शून्यं चराचरम्
स्रष्टुं तदा मतिं चक्रे ब्रह्मा ब्रह्मविदां वरः उदकैराप्लुतां क्ष्मां तां समादाय सनातनः
पूर्ववत्स्थापयामास वाराहं रूपमास्थितः नदीनदसमुद्रांश् च पूर्ववच्चाकरोत्प्रभुः
कृत्वा धरां प्रयत्नेन निम्नोन्नतिविवर्जिताम् धरायां सो ऽचिनोत्सर्वान् गिरीन् दग्धान् पुराग्निना
भूराद्यांश् चतुरो लोकान् कल्पयामास पूर्ववत् स्रष्टुं च भगवांश्चक्रे तदा स्रष्टा पुनर्मतिम्
यदा स्रष्टुं मतिं चक्रे मोहश्चासीन्महात्मनः द्विजाश् च बुद्धिपूर्वं तु ब्रह्मणो ऽव्यक्तजन्मनः
तमो मोहो महामोहस् तामिस्रश्चान्धसंज्ञितः अविद्या पञ्चधा ह्येषा प्रादुर्भूता स्वयम्भुवः
अविद्यया मुनेर्ग्रस्तः सर्गो मुख्य इति स्मृतः असाधक इति स्मृत्वा सर्गो मुख्यः प्रजापतिः
अभ्यमन्यत सो ऽन्यं वै नगा मुख्योद्भवाः स्मृताः त्रिधा कण्ठो मुनेस्तस्य ध्यायतो वै ह्यवर्तत
प्रथमं तस्य वै जज्ञे तिर्यक्स्रोतो महात्मनः ऊर्ध्वस्रोतः परस्तस्य सात्त्विकः स इति स्मृतः
अर्वाक्स्रोतो ऽनुग्रहश् च तथा भूतादिकः पुनः ब्रह्मणो महतस्त्वाद्यो द्वितीयो भौतिकस् तथा
सर्गस्तृतीयश्चैन्द्रियस् तुरीयो मुख्य उच्यते तिर्यग्योन्यः पञ्चमस्तु षष्ठो दैविक उच्यते
सप्तमो मानुषो विप्रा अष्टमो ऽनुग्रहः स्मृतः नवमश्चैव कौमारः प्राकृता वैकृतास्त्विमे
पुरस्तादसृजद्देवः सनन्दं सनकं तथा सनातनं मुनिश्रेष्ठा नैष्कर्म्येण गताः परम्
मरीचिभृग्वङ्गिरसः पुलस्त्यं पुलहं क्रतुम् दक्षमत्रिं वसिष्ठं च सो ऽसृजद्योगविद्यया
नवैते ब्रह्मणः पुत्रा ब्रह्मज्ञा ब्राह्मणोत्तमाः ब्रह्मवादिन एवैते ब्रह्मणः सदृशाः स्मृताः
संकल्पश्चैव धर्मश् च ह्य् अधर्मो धर्मसंनिधिः द्वादशैव प्रजास्त्वेता ब्रह्मणो ऽव्यक्तजन्मनः
ऋभुं सनत्कुमारं च ससर्जादौ सनातनः तावूर्ध्वरेतसौ दिव्यौ चाग्रजौ ब्रह्मवादिनौ
कुमारौ ब्रह्मणस् तुल्यौ सर्वज्ञौ सर्वभाविनौ वक्ष्ये भार्याकुलं तेषां मुनीनामग्रजन्मनाम्
समासतो मुनिश्रेष्ठाः प्रजासम्भूतिमेव च शतरूपां तु वै राज्ञीं विराजमसृजत्प्रभुः
स्वायम्भुवात्तु वै राज्ञी शतरूपा त्वयोनिजा लेभे पुत्रद्वयं पुण्या तथा कन्याद्वयं च सा
उत्तानपादो ह्यवरो धीमाञ्ज्येष्ठः प्रियव्रतः ज्येष्ठा वरिष्ठा त्वाकूतिः प्रसूतिश्चानुजा स्मृता
उपयेमे तदाकूतिं रुचिर्नाम प्रजापतिः प्रसूतिं भगवान्दक्षो लोकधात्रीं च योगिनीम्