प्रसीद त्वं जगन्नाथ शरण्यं शरणं गतः वैकुण्ठ शौरे सर्वज्ञ वासुदेव महाभुज
संकर्षण महाभाग प्रद्युम्न पुरुषोत्तम अनिरुद्ध महाविष्णो सदा विष्णो नमो ऽस्तु ते
विष्णो तवासनं दिव्यम् अव्यक्तं मध्यतो विभुः सहस्रफणसंयुक्तस् तमोमूर्तिर्धराधरः
अधश् च धर्मो देवेश ज्ञानं वैराग्यमेव च ऐश्वर्यमासनस्यास्य पादरूपेण सुव्रत
सप्तपातालपादस्त्वं धराजघनमेव च वासांसि सागराः सप्त दिशश्चैव महाभुजाः
द्यौर्मूर्धा ते विभो नाभिः खं वायुर्नासिकां गतः नेत्रे सोमश् च सूर्यश् च केशा वै पुष्करादयः
नक्षत्रतारका द्यौश् च ग्रैवेयकविभूषणम् कथं स्तोष्यामि देवेशं पूज्यश् च पुरुषोत्तमः
श्रद्धया च कृतं दिव्यं यच् छ्रुतं यच्च कीर्तितम् यदिष्टं तत्क्षमस्वेश नारायण नमो ऽस्तु ते
इदं तु वैष्णवं स्तोत्रं सर्वपापप्रणाशनम् यः पठेच्छृणुयाद्वापि क्षुपेण परिकीर्तितम्
श्रावयेद्वा द्विजान् भक्त्या विष्णुलोकं स गच्छति
सम्पूज्य चैवं त्रिदशेश्वराद्यैः स्तुत्वा स्तुतं देवमजेयमीशम् विज्ञापयामास निरीक्ष्य भक्त्या जनार्दनाय प्रणिपत्य मूर्ध्ना
भगवन्ब्राह्मणः कश्चिद् दधीच इति विश्रुतः धर्मवेत्ता विनीतात्मा सखा मम पुराभवत्
अवध्यः सर्वदा सर्वैः शङ्करार्चनतत्परः सावज्ञं वामपादेन स मां मूर्ध्नि सदस्यथ
ताडयामास देवेश विष्णो विश्वजगत्पते उवाच च मदाविष्टो न बिभेमीति सर्वतः
जेतुमिच्छामि तं विप्रं दधीचं जगदीश्वर यथा हितं तथा कर्तुं त्वमर्हसि जनार्दन
ज्ञात्वा सो ऽपि दधीचस्य ह्य् अवध्यत्वं महात्मनः सस्मार च महेशस्य प्रभावमतुलं हरिः
एवं स्मृत्वा हरिः प्राह ब्रह्मणः क्षुतसंभवम् विप्राणां नास्ति राजेन्द्र भयमेत्य महेश्वरम्
विशेषाद्रुद्रभक्तानाम् अभयं सर्वदा नृप नीचानामपि सर्वत्र दधीचस्यास्य किं पुनः
तस्मात्तव महाभाग विजयो नास्ति भूपते दुःखं करोमि विप्रस्य शापार्थं ससुरस्य मे
भविता तस्य शापेन दक्षयज्ञे सुरैः समम् विनाशो मम राजेन्द्र पुनरुत्थानमेव च
तस्मात्समेत्य विप्रेन्द्रं सर्वयत्नेन भूपते करोमि यत्नं राजेन्द्र दधीचविजयाय ते
श्रुत्वा वाक्यं क्षुपः प्राह तथास्त्विति जनार्दनम् भगवानपि विप्रस्य दधीचस्याश्रमं ययौ
आस्थाय रूपं विप्रस्य भगवान् भक्तवत्सलः दधीचमाह ब्रह्मर्षिम् अभिवन्द्य जगद्गुरुः
भोभो दधीच ब्रह्मर्षे भवार्चनरताव्यय वरमेकं वृणे त्वत्तस् तं भवान्दातुमर्हति
याचितो देवदेवेन दधीचः प्राह विष्णुना ज्ञातं तवेप्सितं सर्वं न बिभेमि तवाप्यहम्
भवान् विप्रस्य रूपेण आगतो ऽसि जनार्दन भूतं भविष्यं देवेश वर्तमानं जनार्दन
ज्ञातं प्रसादाद्रुद्रस्य द्विजत्वं त्यज सुव्रत आराधितो ऽसि देवेश क्षुपेण मधुसूदन
जाने तवैनां भगवन् भक्तवत्सलतां हरे स्थाने तवैषा भगवन् भक्तवात्सल्यता हरे
अस्ति चेद्भगवन् भीतिर् भवार्चनरतस्य मे वक्तुमर्हसि यत्नेन वरदांबुजलोचन
वदामि न मृषा तस्मान् न बिभेमि जनार्दन न बिभेमि जगत्यस्मिन् देवदैत्यद्विजादपि