यथा वज्रधरः श्रीमान् बलवांस्तमसान्वितः पपात भूमौ निहतो वज्रेण द्विजपुङ्गवः
सस्मार च तदा तत्र दुःखाद्वै भार्गवं मुनिम् शुक्रो ऽपि संधयामास ताडितं कुलिशेन तम्
योगादेत्य दधीचस्य देहं देहभृतांवरः संधाय पूर्ववद्देहं दधीचस्याह भार्गवः
भो दधीच महाभाग देवदेवमुमापतिम् सम्पूज्य पूज्यं ब्रह्माद्यैर् देवदेवं निरञ्जनम्
अवध्यो भव विप्रर्षे प्रसादात्त्र्यम्बकस्य तु मृतसंजीवनं तस्माल् लब्धमेतन्मया द्विज
नास्ति मृत्युभयं शंभोर् भक्तानामिह सर्वतः मृतसंजीवनं चापि शैवमद्य वदामि ते
त्रियंबकं यजामहे त्रैलोक्यपितरं प्रभुम् त्रिमण्डलस्य पितरं त्रिगुणस्य महेश्वरम्
त्रितत्त्वस्य त्रिवह्नेश् च त्रिधाभूतस्य सर्वतः त्रिवेदस्य महादेवं सुगन्धिं पुष्टिवर्धनम्
सर्वभूतेषु सर्वत्र त्रिगुणे प्रकृतौ तथा इन्द्रियेषु तथान्येषु देवेषु च गणेषु च
पुष्पेषु गन्धवत्सूक्ष्मः सुगन्धिः परमेश्वरः पुष्टिश् च प्रकृतिर्यस्मात् पुरुषस्य द्विजोत्तम
महदादिविशेषान्तविकल्पस्यापि सुव्रत विष्णोः पितामहस्यापि मुनीनां च महामुने
इन्द्रस्यापि च देवानां तस्माद्वै पुष्टिवर्धनः तं देवममृतं रुद्रं कर्मणा तपसा तथा
स्वाध्यायेन च योगेन ध्यानेन च यजामहे सत्येनानेन मुक्षीयान् मृत्युपाशाद् भवः स्वयम्
बन्धमोक्षकरो यस्माद् उर्वारुकमिव प्रभुः मृतसंजीवनो मन्त्रो मया लब्धस्तु शङ्करात्
जप्त्वा हुत्वाभिमन्त्र्यैवं जलं पीत्वा दिवानिशम् लिङ्गस्य संनिधौ ध्यात्वा नास्ति मृत्युभयं द्विज
तस्य तद्वचनं श्रुत्वा तपसाराध्य शङ्करम् वज्रास्थित्वम् अवध्यत्वम् अदीनत्वं च लब्धवान्
एवमाराध्य देवेशं दधीचो मुनिसत्तमः प्राप्यावध्यत्वमन्यैश् च वज्रास्थित्वं प्रयत्नतः
अताडयच्च राजेन्द्रं पादमूलेन मूर्धनि क्षुपो दधीचं वज्रेण जघानोरसि च प्रभुः
नाभून्नाशाय तद्वज्रं दधीचस्य महात्मनः प्रभावात्परमेशस्य वज्रबद्धशरीरिणः
दृष्ट्वाप्यवध्यत्वमदीनतां च क्षुपो दधीचस्य तदा प्रभावम् आराधयामास हरिं मुकुन्दम् इन्द्रानुजं प्रेक्ष्य तदांबुजाक्षम्
पूजया तस्य संतुष्टो भगवान्पुरुषोत्तमः श्रीभूमिसहितः श्रीमाञ् शङ्खचक्रगदाधरः
किरीटी पद्महस्तश् च सर्वाभरणभूषितः पीतांबरश् च भगवान् देवैर्दैत्यैश् च संवृतः
प्रददौ दर्शनं तस्मै दिव्यं वै गरुडध्वजः दिव्येन दर्शनेनैव दृष्ट्वा देवं जनार्दनम्
तुष्टाव वाग्भिर् इष्टाभिः प्रणम्य गरुडध्वजम् त्वमादिस्त्वमनादिश् च प्रकृतिस्त्वं जनार्दनः
पुरुषस्त्वं जगन्नाथो विष्णुर्विश्वेश्वरो भवान् यो ऽयं ब्रह्मासि पुरुषो विश्वमूर्तिः पितामहः
तत्त्वमाद्यं भवानेव परं ज्योतिर्जनार्दन परमात्मा परं धाम श्रीपते भूपते प्रभो
त्वत्क्रोधसंभवो रुद्रस् तमसा च समावृतः त्वत्प्रसादाज्जगद्धाता रजसा च पितामहः
त्वत्प्रसादात्स्वयं विष्णुः सत्त्वेन पुरुषोत्तमः कालमूर्ते हरे विष्णो नारायण जगन्मय
महांस् तथा च भूतादिस् तन्मात्राणीन्द्रियाणि च त्वयैवाधिष्ठितान्येव विश्वमूर्ते महेश्वर
महादेव जगन्नाथ पितामह जगद्गुरो प्रसीद देवदेवेश प्रसीद परमेश्वर