व्यपगतमदमोहमुक्तरागस् तमोरजोदोषविवर्जितस्वभावः परिभवमिदमुत्तमं विदित्वा पशुपतियोगपरो भवेत्सदैव
इमं पाशुपतं ध्यायन् सर्वपापप्रणाशनम् यः पठेच्च शुचिर्भूत्वा श्रद्दधानो जितेन्द्रियः
सर्वपापविशुद्धात्मा रुद्रलोकं स गच्छति ते सर्वे मुनयः श्रुत्वा वसिष्ठाद्या द्विजोत्तमाः
भस्मपाण्डुरदिग्धाङ्गा बभूवुर्विगतस्पृहाः रुद्रलोकाय कल्पान्ते संस्थिताः शिवतेजसा
तस्मान्न निन्द्याः पूज्याश्च विकृता मलिना अपि रूपान्विताश् च विप्रेन्द्राः सदा योगीन्द्रशङ्कया
बहुना किं प्रलापेन भवभक्ता द्विजोत्तमाः संपूज्याः सर्वयत्नेन शिववन्नात्र संशयः
मलिनाश्चैव विप्रेन्द्रा भवभक्ता दृढव्रताः दधीचस्तु यथा देवदेवं जित्वा व्यवस्थितः
नारायणं तथा लोके रुद्रभक्त्या न संशयः तस्मात्सर्वप्रयत्नेन भस्मदिग्धतनूरुहाः
जटिनो मुण्डिनश्चैव नग्ना नानाप्रकारिणः संपूज्याः शिववन्नित्यं मनसा कर्मणा गिरा
कथं जघान राजानं क्षुपं पादेन सुव्रत दधीचः समरे जित्वा देवदेवं जनार्दनम्
वज्रास्थित्वं कथं लेभे महादेवान्महातपाः वक्तुमर्हसि शैलादे जितो मृत्युस्त्वया यथा
ब्रह्मपुत्रो महातेजा राजा क्षुप इति स्मृतः अभून्मित्रो दधीचस्य मुनीन्द्रस्य जनेश्वरः
चिरात्तयोः प्रसंगाद्वै वादः क्षुपदधीचयोः अभवत् क्षत्रियश्रेष्ठो विप्र एवेति विश्रुतः
अष्टानां लोकपालानां वपुर्धारयते नृपः तस्मादिन्द्रो ह्ययं वह्निर् यमश् च निरृतिस् तथा
वरुणश्चैव वायुश् च सोमो धनद एव च ईश्वरो ऽहं न संदेहो नावमन्तव्य एव च
महती देवता या सा महतश्चापि सुव्रत तस्मात्त्वया महाभाग च्यावनेय सदा ह्यहम्
नावमन्तव्य एवेह पूजनीयश् च सर्वथा श्रुत्वा तथा मतं तस्य क्षुपस्य मुनिसत्तमः
दधीचश् च्यावनिश् चोग्रो गौरवादात्मनो द्विजः अताडयत्क्षुपं मूर्ध्नि दधीचो वाममुष्टिना चिछेद वज्रेण च तं दधीचं बलवान् क्षुपः
ब्रह्मलोके पुरासौ हि ब्रह्मणः क्षुतसंभवः लब्धं वज्रं च कार्यार्थं वज्रिणा चोदितः प्रभुः
स्वेच्छयैव नरो भूत्वा नरपालो बभूव सः तस्माद्राजा स विप्रेन्द्रम् अजयद्वै महाबलः
यथा वज्रधरः श्रीमान् बलवांस्तमसान्वितः पपात भूमौ निहतो वज्रेण द्विजपुङ्गवः
सस्मार च तदा तत्र दुःखाद्वै भार्गवं मुनिम् शुक्रो ऽपि संधयामास ताडितं कुलिशेन तम्
योगादेत्य दधीचस्य देहं देहभृतांवरः संधाय पूर्ववद्देहं दधीचस्याह भार्गवः
भो दधीच महाभाग देवदेवमुमापतिम् सम्पूज्य पूज्यं ब्रह्माद्यैर् देवदेवं निरञ्जनम्
अवध्यो भव विप्रर्षे प्रसादात्त्र्यम्बकस्य तु मृतसंजीवनं तस्माल् लब्धमेतन्मया द्विज
नास्ति मृत्युभयं शंभोर् भक्तानामिह सर्वतः मृतसंजीवनं चापि शैवमद्य वदामि ते
त्रियंबकं यजामहे त्रैलोक्यपितरं प्रभुम् त्रिमण्डलस्य पितरं त्रिगुणस्य महेश्वरम्
त्रितत्त्वस्य त्रिवह्नेश् च त्रिधाभूतस्य सर्वतः त्रिवेदस्य महादेवं सुगन्धिं पुष्टिवर्धनम्
सर्वभूतेषु सर्वत्र त्रिगुणे प्रकृतौ तथा इन्द्रियेषु तथान्येषु देवेषु च गणेषु च
पुष्पेषु गन्धवत्सूक्ष्मः सुगन्धिः परमेश्वरः पुष्टिश् च प्रकृतिर्यस्मात् पुरुषस्य द्विजोत्तम