नग्ना एव हि जायन्ते देवता मुनयस् तथा ये चान्ये मानवा लोके सर्वे जायन्त्यवाससः
इन्द्रियैरजितैर्नग्नो दुकूलेनापि संवृतः तैरेव संवृतैर्गुप्तो न वस्त्रं कारणं स्मृतम्
क्षमा धृतिरहिंसा च वैराग्यं चैव सर्वशः तुल्यौ मानावमानौ च तदावरणमुत्तमम्
भस्मस्नानेन दिग्धाङ्गो ध्यायते मनसा भवम् यद्यकार्यसहस्राणि कृत्वा यः स्नाति भस्मना
तत्सर्वं दहते भस्म यथाग्निस्तेजसा वनम् तस्माद् यत्नपरो भूत्वा त्रिकालमपि यः सदा
भस्मना कुरुते स्नानं गाणपत्यं स गच्छति समाहृत्य क्रतून् सर्वान् गृहीत्वा व्रतमुत्तमम्
ध्यायन्ति ये महादेवं लीलासद्भावभाविताः उत्तरेणार्यपन्थानं ते ऽमृतत्वमवाप्नुयुः
दक्षिणेन च पन्थानं ये श्मशानानि भेजिरे अणिमा गरिमा चैव लघिमा प्राप्तिरेव च
इच्छा कामावसायित्वं तथा प्राकाम्यमेव च ईक्षणेन च पन्थानं ये श्मशानानि भेजिरे अणिमा गरिमा चैव लघिमा प्राप्तिरेव च
इन्द्रादयस् तथा देवाः कामिकव्रतमास्थिताः ऐश्वर्यं परमं प्राप्य सर्वे प्रथिततेजसः
व्यपगतमदमोहमुक्तरागस् तमोरजोदोषविवर्जितस्वभावः परिभवमिदमुत्तमं विदित्वा पशुपतियोगपरो भवेत्सदैव
इमं पाशुपतं ध्यायन् सर्वपापप्रणाशनम् यः पठेच्च शुचिर्भूत्वा श्रद्दधानो जितेन्द्रियः
सर्वपापविशुद्धात्मा रुद्रलोकं स गच्छति ते सर्वे मुनयः श्रुत्वा वसिष्ठाद्या द्विजोत्तमाः
भस्मपाण्डुरदिग्धाङ्गा बभूवुर्विगतस्पृहाः रुद्रलोकाय कल्पान्ते संस्थिताः शिवतेजसा
तस्मान्न निन्द्याः पूज्याश्च विकृता मलिना अपि रूपान्विताश् च विप्रेन्द्राः सदा योगीन्द्रशङ्कया
बहुना किं प्रलापेन भवभक्ता द्विजोत्तमाः संपूज्याः सर्वयत्नेन शिववन्नात्र संशयः
मलिनाश्चैव विप्रेन्द्रा भवभक्ता दृढव्रताः दधीचस्तु यथा देवदेवं जित्वा व्यवस्थितः
नारायणं तथा लोके रुद्रभक्त्या न संशयः तस्मात्सर्वप्रयत्नेन भस्मदिग्धतनूरुहाः
जटिनो मुण्डिनश्चैव नग्ना नानाप्रकारिणः संपूज्याः शिववन्नित्यं मनसा कर्मणा गिरा
कथं जघान राजानं क्षुपं पादेन सुव्रत दधीचः समरे जित्वा देवदेवं जनार्दनम्
वज्रास्थित्वं कथं लेभे महादेवान्महातपाः वक्तुमर्हसि शैलादे जितो मृत्युस्त्वया यथा
ब्रह्मपुत्रो महातेजा राजा क्षुप इति स्मृतः अभून्मित्रो दधीचस्य मुनीन्द्रस्य जनेश्वरः
चिरात्तयोः प्रसंगाद्वै वादः क्षुपदधीचयोः अभवत् क्षत्रियश्रेष्ठो विप्र एवेति विश्रुतः
अष्टानां लोकपालानां वपुर्धारयते नृपः तस्मादिन्द्रो ह्ययं वह्निर् यमश् च निरृतिस् तथा
वरुणश्चैव वायुश् च सोमो धनद एव च ईश्वरो ऽहं न संदेहो नावमन्तव्य एव च
महती देवता या सा महतश्चापि सुव्रत तस्मात्त्वया महाभाग च्यावनेय सदा ह्यहम्
नावमन्तव्य एवेह पूजनीयश् च सर्वथा श्रुत्वा तथा मतं तस्य क्षुपस्य मुनिसत्तमः
दधीचश् च्यावनिश् चोग्रो गौरवादात्मनो द्विजः अताडयत्क्षुपं मूर्ध्नि दधीचो वाममुष्टिना चिछेद वज्रेण च तं दधीचं बलवान् क्षुपः
ब्रह्मलोके पुरासौ हि ब्रह्मणः क्षुतसंभवः लब्धं वज्रं च कार्यार्थं वज्रिणा चोदितः प्रभुः
स्वेच्छयैव नरो भूत्वा नरपालो बभूव सः तस्माद्राजा स विप्रेन्द्रम् अजयद्वै महाबलः