महादेवपरा नित्यं चरन्तो ह्यूर्ध्वरेतसः अर्चयन्ति महादेवं वाङ्मनःकायसंयताः
रुद्रलोकमनुप्राप्य न निवर्तन्ति ते पुनः तस्मादेतद्व्रतं दिव्यम् अव्यक्तं व्यक्तलिङ्गिनः
भस्मव्रताश् च मुण्डाश् च व्रतिनो विश्वरूपिणः न तान्परिवदेद्विद्वान् न चैतान्नाभिलङ्घयेत्
न हसेन्नाप्रियं ब्रूयाद् अमुत्रेह हितार्थवान् यस्तान्निन्दति मूढात्मा महादेवं स निन्दति
यस् त्वेतान् पूजयेन् नित्यं स पूजयति शङ्करम् एवमेष महादेवो लोकानां हितकाम्यया
युगे युगे महायोगी क्रीडते भस्मगुण्ठितः एवं चरत भद्रं वस् ततः सिद्धिमवाप्स्यथ
अतुलमिह महाभयप्रणाशहेतुं शिवकथितं परमं पदं विदित्वा व्यपगतभवलोभमोहचित्ताः प्रणिपतिताः सहसा शिरोभिर् उग्रम्
ततः प्रमुदिता विप्राः श्रुत्वैवं कथितं तदा गन्धोदकैः सुशुद्धैश् च कुशपुष्पविमिश्रितैः
स्नापयन्ति महाकुम्भैर् अद्भिर् एव महेश्वरम् गायन्ति विविधैर्गुह्यैर् हुंकारैश्चापि सुस्वरैः
नमो देवाधिदेवाय महादेवाय वै नमः अर्धनारीशरीराय सांख्ययोगप्रवर्तिने
मेघवाहनकृष्णाय गजचर्मनिवासिने कृष्णाजिनोत्तरीयाय व्यालयज्ञोपवीतिने
सुरचितसुविचित्रकुण्डलाय सुरचितमाल्यविभूषणाय तुभ्यम् मृगपतिवरचर्मवाससे च प्रथितयशसे नमो ऽस्तु शङ्कराय
ततस् तान् स मुनीन् प्रीतः प्रत्युवाच महेश्वरः प्रीतो ऽस्मि तपसा युष्मान् वरं वृणुत सुव्रताः
ततस्ते मुनयः सर्वे प्रणिपत्य महेश्वरम् भृग्वङ्गिरा वसिष्ठश् च विश्वामित्रस्तथैव च
गौतमो ऽत्रिः सुकेशश् च पुलस्त्यः पुलहः क्रतुः मरीचिः कश्यपः कण्वः संवर्तश् च महातपाः
ते प्रणम्य महादेवम् इदं वचनमब्रुवन् भस्मस्नानं च नग्नत्वं वामत्वं प्रतिलोमता
सेव्यासेव्यत्वमेवं च ह्य् एतदिच्छाम वेदितुम् ततस्तेषां वचः श्रुत्वा भगवान्परमेश्वरः
सस्मितं प्राह सम्प्रेक्ष्य सर्वान्मुनिवरांस्तदा
एतद्वः सम्प्रवक्ष्यामि कथा सर्वस्वमद्य वै अग्निर्ह्यहं सोमकर्ता सोमश्चाग्निमुपाश्रितः
कृतमेतद्वहत्यग्निर् भूयो लोकसमाश्रयात् असकृत्त्वग्निना दग्धं जगत् स्थावरजङ्गमम्
भस्मसाद्विहितं सर्वं पवित्रमिदमुत्तमम् भस्मना वीर्यमास्थाय भूतानि परिषिञ्चति
अग्निकार्यं च यः कृत्वा करिष्यति त्रियायुषम् भस्मना मम वीर्येण मुच्यते सर्वकिल्बिषैः
भासत इत्येव यद्भस्म शुभं भावयते च यत् भक्षणात् सर्वपापानां भस्मेति परिकीर्तितम्
ऊष्मपाः पितरो ज्ञेया देवा वै सोमसंभवाः अग्नीषोमात्मकं सर्वं जगत्स्थावरजङ्गमम्
अहमग्निर्महातेजाः सोमश्चैषा महांबिका अहमग्निश् च सोमश् च प्रकृत्या पुरुषः स्वयम्
तस्माद्भस्म महाभागा मद्वीर्यमिति चोच्यते स्ववीर्यं वपुषा चैव धारयामीति वै स्थितिः
तदाप्रभृति लोकेषु रक्षार्थमशुभेषु च भस्मना क्रियते रक्षा सूतिकानां गृहेषु च
भस्मस्नानविशुद्धात्मा जितक्रोधो जितेन्द्रियः मत्समीपं समागम्य न भूयो विनिवर्तते
व्रतं पाशुपतं योगं कापिलं चैव निर्मितम् पूर्वं पाशुपतं ह्येतन् निर्मितं तदनुत्तमम्
शेषाश्चाश्रमिणः सर्वे पश्चात्सृष्टाः स्वयंभुवा सृष्टिरेषा मया सृष्टा लज्जामोहभयात्मिका