दह्यन्ते प्राणिनस्ते तु त्वत्समुत्थेन वह्निना अस्माकं दह्यमानानां त्राता भव सुरेश्वर
त्वं च लोकहितार्थाय भूतानि परिषिञ्चसि महेश्वर महाभाग प्रभो शुभनिरीक्षक
आज्ञापय वयं नाथ कर्तारो वचनं तव भूतकोटिसहस्रेषु रूपकोटिशतेषु च
अन्तं गन्तुं न शक्ताः स्म देवदेव नमो ऽस्तु ते
ततस्तुतोष भगवान् अनुगृह्य महेश्वरः स्तुतिं श्रुत्वा स्तुतस्तेषाम् इदं वचनमब्रवीत्
यः पठेच्छृणुयाद्वापि युष्माभिः कीर्तितं स्तवम् श्रावयेद्वा द्विजान्विप्रो गाणपत्यमवाप्नुयात्
वक्ष्यामि वो हितं पुण्यं भक्तानां मुनिपुङ्गवाः स्त्रीलिङ्गमखिलं देवी प्रकृतिर्मम देहजा
पुंल्लिङ्गं पुरुषो विप्रा मम देहसमुद्भवः उभाभ्यामेव वै सृष्टिर् मम विप्रा न संशयः
न निन्देद्यतिनं तस्माद् दिग्वाससमनुत्तमम् बालोन्मत्तविचेष्टं तु मत्परं ब्रह्मवादिनम्
ये हि मां भस्मनिरता भस्मना दग्धकिल्बिषाः यथोक्तकारिणो दान्ता विप्रा ध्यानपरायणाः
महादेवपरा नित्यं चरन्तो ह्यूर्ध्वरेतसः अर्चयन्ति महादेवं वाङ्मनःकायसंयताः
रुद्रलोकमनुप्राप्य न निवर्तन्ति ते पुनः तस्मादेतद्व्रतं दिव्यम् अव्यक्तं व्यक्तलिङ्गिनः
भस्मव्रताश् च मुण्डाश् च व्रतिनो विश्वरूपिणः न तान्परिवदेद्विद्वान् न चैतान्नाभिलङ्घयेत्
न हसेन्नाप्रियं ब्रूयाद् अमुत्रेह हितार्थवान् यस्तान्निन्दति मूढात्मा महादेवं स निन्दति
यस् त्वेतान् पूजयेन् नित्यं स पूजयति शङ्करम् एवमेष महादेवो लोकानां हितकाम्यया
युगे युगे महायोगी क्रीडते भस्मगुण्ठितः एवं चरत भद्रं वस् ततः सिद्धिमवाप्स्यथ
अतुलमिह महाभयप्रणाशहेतुं शिवकथितं परमं पदं विदित्वा व्यपगतभवलोभमोहचित्ताः प्रणिपतिताः सहसा शिरोभिर् उग्रम्
ततः प्रमुदिता विप्राः श्रुत्वैवं कथितं तदा गन्धोदकैः सुशुद्धैश् च कुशपुष्पविमिश्रितैः
स्नापयन्ति महाकुम्भैर् अद्भिर् एव महेश्वरम् गायन्ति विविधैर्गुह्यैर् हुंकारैश्चापि सुस्वरैः
नमो देवाधिदेवाय महादेवाय वै नमः अर्धनारीशरीराय सांख्ययोगप्रवर्तिने
मेघवाहनकृष्णाय गजचर्मनिवासिने कृष्णाजिनोत्तरीयाय व्यालयज्ञोपवीतिने
सुरचितसुविचित्रकुण्डलाय सुरचितमाल्यविभूषणाय तुभ्यम् मृगपतिवरचर्मवाससे च प्रथितयशसे नमो ऽस्तु शङ्कराय
ततस् तान् स मुनीन् प्रीतः प्रत्युवाच महेश्वरः प्रीतो ऽस्मि तपसा युष्मान् वरं वृणुत सुव्रताः
ततस्ते मुनयः सर्वे प्रणिपत्य महेश्वरम् भृग्वङ्गिरा वसिष्ठश् च विश्वामित्रस्तथैव च
गौतमो ऽत्रिः सुकेशश् च पुलस्त्यः पुलहः क्रतुः मरीचिः कश्यपः कण्वः संवर्तश् च महातपाः
ते प्रणम्य महादेवम् इदं वचनमब्रुवन् भस्मस्नानं च नग्नत्वं वामत्वं प्रतिलोमता
सेव्यासेव्यत्वमेवं च ह्य् एतदिच्छाम वेदितुम् ततस्तेषां वचः श्रुत्वा भगवान्परमेश्वरः
सस्मितं प्राह सम्प्रेक्ष्य सर्वान्मुनिवरांस्तदा
एतद्वः सम्प्रवक्ष्यामि कथा सर्वस्वमद्य वै अग्निर्ह्यहं सोमकर्ता सोमश्चाग्निमुपाश्रितः
कृतमेतद्वहत्यग्निर् भूयो लोकसमाश्रयात् असकृत्त्वग्निना दग्धं जगत् स्थावरजङ्गमम्