पूजयेच्च यथालाभं ततः सिद्धिमवाप्स्यथ समाहिताः पूजयध्वं सपुत्राः सह बन्धुभिः
सर्वे प्राञ्जलयो भूत्वा शूलपाणिं प्रपद्यत ततो द्रक्ष्यथ देवेशं दुर्दर्शमकृतात्मभिः
यं दृष्ट्वा सर्वमज्ञानम् अधर्मश् च प्रणश्यति ततः प्रदक्षिणं कृत्वा ब्रह्माणममितौजसम्
सम्प्रस्थिता वनौकास्ते देवदारुवनं ततः आराधयितुमारब्धा ब्रह्मणा कथितं यथा
स्थण्डिलेषु विचित्रेषु पर्वतानां गुहासु च नदीनां च विविक्तेषु पुलिनेषु शुभेषु च
शैवालशोभनाः केचित् केचिदन्तर्जलेशयाः केचिद्दर्भावकाशास्तु पादाङ्गुष्ठाग्रधिष्ठिताः
दन्तोलूखलिनस्त्वन्ये अश्मकुट्टास् तथा परे स्थानवीरासनास्त्वन्ये मृगचर्यारताः परे
कालं नयन्ति तपसा पूजया च महाधियः एवं संवत्सरे पूर्णे वसन्ते समुपस्थिते
ततस्तेषां प्रसादार्थं भक्तानाम् अनुकम्पया देवः कृतयुगे तस्मिन् गिरौ हिमवतः शुभे
देवदारुवनं प्राप्तः प्रसन्नः परमेश्वरः भस्मपांसूपदिग्धाङ्गो नग्नो विकृतलक्षणः
उल्मुकव्यग्रहस्तश् च रक्तपिङ्गललोचनः क्वचिच्च हसते रौद्रं क्वचिद्गायति विस्मितः
क्वचिन्नृत्यति शृङ्गारं क्वचिद्रौति मुहुर्मुहुः आश्रमे ह्यटते भैक्ष्यं याचते च पुनः पुनः
मायां कृत्वा तथारूपां देवस्तद्वनम् आगतः ततस्ते मुनयः सर्वे तुष्टुवुश् च समाहिताः
अद्भिर् विविधमाल्यैश् च धूपैर्गन्धैस्तथैव च सपत्नीका महाभागाः सपुत्राः सपरिच्छदाः
मुनयस्ते तथा वाग्भिर् ईश्वरं चेदम् अब्रुवन् अज्ञानाद्देवदेवेश यदस्माभिर् अनुष्ठितम्
कर्मणा मनसा वाचा तत्सर्वं क्षन्तुमर्हसि चरितानि विचित्राणि गुह्यानि गहनानि च
ब्रह्मादीनां च देवानां दुर्विज्ञेयानि ते हर अगतिं ते न जानीमो गतिं नैव च नैव च
विश्वेश्वर महादेव यो ऽसि सो ऽसि नमो ऽस्तु ते स्तुवन्ति त्वां महात्मानो देवदेवं महेश्वरम्
नमो भवाय भव्याय भावनायोद्भवाय च अनन्तबलवीर्याय भूतानां पतये नमः
संहर्त्रे च पिशङ्गाय अव्ययाय व्ययाय च गङ्गासलिलधाराय आधाराय गुणात्मने
त्र्यंबकाय त्रिनेत्राय त्रिशूलवरधारिणे कन्दर्पाय हुताशाय नमो ऽस्तु परमात्मने
शङ्कराय वृषाङ्काय गणानां पतये नमः दण्डहस्ताय कालाय पाशहस्ताय वै नमः
वेदमन्त्रप्रधानाय शतजिह्वाय वै नमः भूतं भव्यं भविष्यं च स्थावरं जङ्गमं च यत्
तव देहात्समुत्पन्नं देव सर्वमिदं जगत् पासि हंसि च भद्रं ते प्रसीद भगवंस्ततः
अज्ञानाद्यदि विज्ञानाद् यत् किंचित् कुरुते नरः तत्सर्वं भगवानेव कुरुते योगमायया
एवं स्तुत्वा तु मुनयः प्रहृष्टैरन्तरात्मभिः याचन्त तपसा युक्ताः पश्यामस्त्वां यथापुरा
ततो देवः प्रसन्नात्मा स्वमेवास्थाय शङ्करः रूपं त्र्यक्षं च संद्रष्टुं दिव्यं चक्षुरदात्प्रभुः
लब्धदृष्ट्या तया दृष्ट्वा देवदेवं त्रियंबकम् पुनस्तुष्टुवुरीशानं देवदारुवनौकसः
नमो दिग्वाससे नित्यं कृतान्ताय त्रिशूलिने विकटाय करालाय करालवदनाय च
अरूपाय सुरूपाय विश्वरूपाय ते नमः कटङ्कटाय रुद्राय स्वाहाकाराय वै नमः