उवाच बालधीर्मृतः प्रसीद चेति वै मुनेः महेश्वरं महेश्वर-स्य चानुगो गणेश्वरः
ततो विवेश भगवान् अनुगृह्य द्विजोत्तमम् क्षणाद्गूढशरीरं हि ध्वस्तं दृष्ट्वान्तकं क्षणात्
तस्मान्मृत्युञ्जयं चैव भक्त्या सम्पूजये द्विजाः मुक्तिदं भुक्तिदं चैव सर्वेषामपि शङ्करम्
बहुना किं प्रलापेन संन्यस्याभ्यर्च्य वै भवम् भक्त्या चापरया तस्मिन् विशोका वै भविष्यथ
एवमुक्तास्तदा तेन ब्रह्मणा ब्रह्मवादिनः प्रसीद भक्तिर्देवेशे भवेद्रुद्रे पिनाकिनि
केन वा तपसा देव यज्ञेनाप्यथ केन वा व्रतैर्वा भगवद्भक्ता भविष्यन्ति द्विजातयः
न दानेन मुनिश्रेष्ठास् तपसा च न विद्यया यज्ञैर् होमैर् व्रतैर् वेदैर् योगशास्त्रैर् निरोधनैः
प्रसादे नैव सा भक्तिः शिवे परमकारणे अथ तस्य वचः श्रुत्वा सर्वे ते परमर्षयः
सदारतनयाः श्रान्ताः प्रणेमुश् च पितामहम् तस्मात्पाशुपती भक्तिर् धर्मकामार्थसिद्धिदा
मुनेर् विजयदा चैव सर्वमृत्युजयप्रदा दधीचस्तु पुरा भक्त्या हरिं जित्वामरैर्विभुम्
क्षयं जघान पादेन वज्रास्थित्वं च लब्धवान् मयापि निर्जितो मृत्युर् महादेवस्य कीर्तनात्
श्वेतेनापि गतेनास्यं मृत्योर्मुनिवरेण तु महादेवप्रसादेन जितो मृत्युर्यथा मया
कथं भवप्रसादेन देवदारुवनौकसः प्रपन्नाः शरणं देवं वक्तुमर्हसि मे प्रभो
तानुवाच महाभागान् भगवान् आत्मभूः स्वयम् देवदारुवनस्थांस्तु तपसा पावकप्रभान्
एष देवो महादेवो विज्ञेयस्तु महेश्वरः न तस्मात्परमं किंचित् पदं समधिगम्यते
देवानां च ऋषीनां च पितॄणां चैव स प्रभुः सहस्रयुगपर्यन्ते प्रलये सर्वदेहिनः
संहरत्येष भगवान् कालो भूत्वा महेश्वरः एष चैव प्रजाः सर्वाः सृजत्येकः स्वतेजसा
एष चक्री च वज्री च श्रीवत्सकृतलक्षणः योगी कृतयुगे चैव त्रेतायां क्रतुर् उच्यते
द्वापरे चैव कालाग्निर् धर्मकेतुः कलौ स्मृतः रुद्रस्य मूर्तयस्त्वेता ये ऽभिध्यायन्ति पण्डिताः
चतुरस्रं बहिश्चान्तर् अष्टास्रं पिण्डिकाश्रये वृत्तं सुदर्शनं योग्यम् एवं लिङ्गं प्रपूजयेत्
तमो ह्यग्नी रजो ब्रह्मा सत्त्वं विष्णुः प्रकाशकम् मूर्तिरेका स्थिता चास्य मूर्तयः परिकीर्तिताः
यत्र तिष्ठति तद्ब्रह्म योगेन तु समन्वितम् तस्माद्धि देवदेवेशम् ईशानं प्रभुमव्ययम्
आराधयन्ति विप्रेन्द्रा जितक्रोधा जितेन्द्रियाः लिङ्गं कृत्वा यथान्यायं सर्वलक्षणसंयुतम्
अङ्गुष्ठमात्रं सुशुभं सुवृत्तं सर्वसंमतम् समनाभं तथाष्टास्रं षोडशास्रम् अथापि वा
सुवृत्तं मण्डलं दिव्यं सर्वकामफलप्रदम् वेदिका द्विगुणा तस्य समा वा सर्वसंमता
गोमुखी च त्रिभागैका वेद्या लक्षणसंयुता पट्टिका च समन्ताद्वै यवमात्रा द्विजोत्तमाः
सौवर्णं राजतं शैलं कृत्वा ताम्रमयं तथा वेदिकायाश् च विस्तारं त्रिगुणं वै समन्ततः
वर्तुलं चतुरस्रं वा षडस्रं वा त्रिरस्रकम् समन्तान्निर्व्रणं शुभ्रं लक्षणैस्तत् सुलक्षितम्
प्रतिष्ठाप्य यथान्यायं पूजालक्षणसंयुतम् कलशं स्थापयेत्तस्य वेदिमध्ये तथा द्विजाः
सहिरण्यं सबीजं च ब्रह्मभिश् चाभिमन्त्रितम् सेचयेच्च ततो लिङ्गं पवित्रैः पञ्चभिः शुभैः