विंशतिश् च सहस्राणि संध्यांशश् च चतुर्युगः एवं चतुर्युगाख्यानां साधिका ह्येकसप्ततिः
कृतत्रेतादियुक्तानां मनोरन्तरमुच्यते मन्वन्तरस्य संख्या च वर्षाग्रेण प्रकीर्तिता
त्रिंशत्कोट्यस्तु वर्षाणां मानुषेण द्विजोत्तमाः सप्तषष्टिस्तथान्यानि नियुतान्यधिकानि तु
विंशतिश् च सहस्राणि कालो ऽयम् अधिकं विना मन्वन्तरस्य संख्यैषा लैङ्गे ऽस्मिन्कीर्तिता द्विजाः
चतुर्युगस्य च तथा वर्षसंख्या प्रकीर्तिता चतुर्युगसहस्रं वै कल्पश्चैको द्विजोत्तमाः
निशान्ते सृजते लोकान् नश्यन्ते निशि जन्तवः तत्र वैमानिकानां तु अष्टाविंशतिकोटयः
मन्वन्तरेषु वै संख्या सान्तरेषु यथातथा त्रीणि कोटिशतान्यासन् कोट्यो द्विनवतिस् तथा
कल्पे ऽतीते तु वै विप्राः सहस्राणां तु सप्ततिः पुनस्तथाष्टसाहस्रं सर्वत्रैव समासतः
कल्पावसानिकांस्त्यक्त्वा प्रलये समुपस्थिते महर्लोकात् प्रयान्त्येते जनलोकं जनास्ततः
कोटीनां द्वे सहस्रे तु अष्टौ कोटिशतानि तु द्विषष्टिश् च तथा कोट्यो नियुतानि च सप्ततिः
कल्पार्धसंख्या दिव्या वै कल्पमेवं तु कल्पयेत् कल्पानां वै सहस्रं तु वर्षमेकमजस्य तु
वर्षाणामष्टसाहस्रं ब्राह्मं वै ब्रह्मणो युगम् सवनं युगसाहस्रं सर्वदेवोद्भवस्य तु
सवनानां सहस्रं तु त्रिविधं त्रिगुणं तथा ब्रह्मणस्तु तथा प्रोक्तः कालः कालात्मनः प्रभो
भवोद्भवस्तपश्चैव भव्यो रम्भः क्रतुः पुनः ऋतुर्वह्निर्हव्यवाहः सावित्रः शुद्ध एव च
उशिकः कुशिकश्चैव गान्धारो मुनिसत्तमाः ऋषभश् च तथा षड्जो मज्जालीयश् च मध्यमः
वैराजो वै निषादश् च मुख्यो वै मेघवाहनः पञ्चमश्चित्रकश्चैव आकूतिर् ज्ञान एव च
मनः सुदर्शो बृंहश् च तथा वै श्वेतलोहितः रक्तश् च पीतवासाश् च असितः सर्वरूपकः
एवं कल्पास्तु संख्याता ब्रह्मणो ऽव्यक्तजन्मनः कोटिकोटिसहस्राणि कल्पानां मुनिसत्तमाः
गतानि तावच्छेषाणि अहर्निश्यानि वै पुनः परान्ते वै विकाराणि विकारं यान्ति विश्वतः
विकारस्य शिवस्याज्ञावशेनैव तु संहृतिः संहृते तु विकारे च प्रधाने चात्मनि स्थिते
साधर्म्येणावतिष्ठेते प्रधानपुरुषावुभौ गुणानां चैव वैषम्ये विप्राः सृष्टिरिति स्मृता
साम्ये लयो गुणानां तु तयोर्हेतुर्महेश्वरः लीलया देवदेवेन सर्गास्त्वीदृग्विधाः कृताः
असंख्याताश् च संक्षेपात् प्रधानाद् अन्वधिष्ठितात् असंख्याताश् च कल्पाख्या ह्य् असंख्याताः पितामहाः
हरयश्चाप्यसंख्यातास् त्व् एक एव महेश्वरः प्रधानादिप्रवृत्तानि लीलया प्राकृतानि तु
गुणात्मिका च तद्वृत्तिस् तस्य देवस्य वै त्रिधा अप्राकृतस्य तस्यादिर् मध्यान्तं नास्ति चात्मनः
पितामहस्याथ परः परार्धद्वयसंमितः दिवा सृष्टं तु यत्सर्वं निशि नश्यति चास्य तत्
भूर्भुवःस्वर्महस्तत्र नश्यते चोर्ध्वतो न च रात्रौ चैकार्णवे ब्रह्मा नष्टे स्थावरजङ्गमे
सुष्वापाम्भसि यस्तस्मान् नारायण इति स्मृतः शर्वर्यन्ते प्रबुद्धो वै दृष्ट्वा शून्यं चराचरम्
स्रष्टुं तदा मतिं चक्रे ब्रह्मा ब्रह्मविदां वरः उदकैराप्लुतां क्ष्मां तां समादाय सनातनः
पूर्ववत्स्थापयामास वाराहं रूपमास्थितः नदीनदसमुद्रांश् च पूर्ववच्चाकरोत्प्रभुः