पर्णवृत्त्या पयोवृत्त्या फलवृत्त्यापि वा यतिः एवं जीवन्मृतो नो चेत् षण्मासाद्वत्सरात्तु वा
प्रस्थानादिकमायासं स्वदेहस्य चरेद्यतिः शिवसायुज्यमाप्नोति कर्मणाप्येवमाचरन्
सद्यो ऽपि लभते मुक्तिं भक्तियुक्तो दृढव्रताः
त्यागेन वा किं विधिनाप्य् अनेन भक्तस्य रुद्रस्य शुभैर्व्रतैश्च यज्ञैश् च दानैर्विविधैश् च होमैर् लब्धैश्चशास्त्रैर्विविधैश् च वेदैः
श्वेतेनैवं जितो मृत्युर् भवभक्त्या महात्मना वो ऽस्तु भक्तिर्महादेवे शङ्करे परमात्मनि
एवमुक्तास्तदा तेन ब्रह्मणा ब्राह्मणर्षभाः श्वेतस्य च कथां पुण्याम् अपृच्छन् परमर्षयः
श्वेतो नाम मुनिः श्रीमान् गतायुर्गिरिगह्वरे सक्तो ह्यभ्यर्च्य यद्भक्त्या तुष्टाव च महेश्वरम्
रुद्राध्यायेन पुण्येन नमस्तेत्यादिना द्विजाः ततः कालो महातेजाः कालप्राप्तं द्विजोत्तमम्
नेतुं संचिन्त्य विप्रेन्द्राः सान्निध्यमकरोन्मुनेः श्वेतो ऽपि दृष्ट्वा तं कालं कालप्राप्तो ऽपि शङ्करम्
पूजयामास पुण्यात्मा त्रियंबकमनुस्मरन् त्रियंबकं यजेदेवं सुगन्धिं पुष्टिवर्धनम्
किं करिष्यति मे मृत्युर् मृत्योर्मृत्युरहं यतः तं दृष्ट्वा सस्मितं प्राह श्वेतं लोकभयंकरः
एह्येहि श्वेत चानेन विधिना किं फलं तव रुद्रो वा भगवान् विष्णुर् ब्रह्मा वा जगदीश्वरः
कः समर्थः परित्रातुं मया ग्रस्तं द्विजोत्तम अनेन मम किं विप्र रौद्रेण विधिना प्रभोः
नेतुं यस्योत्थितश्चाहं यमलोकं क्षणेन वै यस्माद्गतायुस्त्वं तस्मान् मुने नेतुमिहोद्यतः
तस्य तद्वचनं श्रुत्वा भैरवं धर्ममिश्रितम् हा रुद्र रुद्र रुद्रेति ललाप मुनिपुङ्गवः
तं प्राह च महादेवं कालं सम्प्रेक्ष्य वै दृशा नेत्रेण बाष्पमिश्रेण संभ्रान्तेन समाकुलः
त्वया किं काल नो नाथश् चास्ति चेद्धि वृषध्वजः लिङ्गे ऽस्मिन् शङ्करो रुद्रः सर्वदेवभवोद्भवः
अतीव भवभक्तानां मद्विधानां महात्मनाम् विधिना किं महाबाहो गच्छ गच्छ यथागतम्
ततो निशम्य कुपितस् तीक्ष्णदंष्ट्रो भयङ्करः श्रुत्वा श्वेतस्य तद्वाक्यं पाशहस्तो भयावहः
सिंहनादं महत्कृत्वा चास्फाट्य च मुहुर्मुहुः बबन्ध च मुनिं कालः कालप्राप्तं तमाह च
मया बद्धो ऽसि विप्रर्षे श्वेतं नेतुं यमालयम् अद्य वै देवदेवेन तव रुद्रेण किं कृतम्
क्व शर्वस्तव भक्तिश् च क्व पूजा पूजया फलम् क्व चाहं क्व च मे भीतिः श्वेत बद्धो ऽसि वै मया
लिङ्गे ऽस्मिन् संस्थितः श्वेत तव रुद्रो महेश्वरः निश्चेष्टो ऽसौ महादेवः कथं पूज्यो महेश्वरः
ततः सदाशिवः स्वयं द्विजं निहन्तुमागतम् निहन्तुमन्तकं स्मयन् स्मरारियज्ञहा हरः
त्वरन् विनिर्गतः परः शिवः स्वयं त्रिलोचनः त्रियंबको ऽम्बया समं सनन्दिना गणेश्वरैः
ससर्ज जीवितं क्षणाद् भवं निरीक्ष्य वै भयात् पपात चाशु वै बली मुनेस्तु संनिधौ द्विजाः
ननाद चोर्ध्वमुच्चधीर् निरीक्ष्य चान्तकान्तकम् निरीक्षणेन वै मृतं भवस्य विप्रपुङ्गवाः
विनेदुरुच्चमीश्वराः सुरेश्वरा महेश्वरम् प्रणेमुरंबिकामुमां मुनीश्वरास्तु हर्षिताः
ससर्जुर् अस्य मूर्ध्नि वै मुनेर्भवस्य खेचराः सुशोभनं सुशीतलं सुपुष्पवर्षमंबरात्
अहो निरीक्ष्य चान्तकं मृतं तदा सुविस्मितः शिलाशनात्मजो ऽव्ययं शिवं प्रणम्य शङ्करम्