भार्यया त्वनया सार्धं मैथुनस्थो ऽहमद्य वै सुदर्शन महाभाग किं कर्तव्यमिहोच्यताम्
सुरतान्तस्तु विप्रेन्द्र संतुष्टो ऽहं द्विजोत्तम सुदर्शनस्ततः प्राह सुप्रहृष्टो द्विजोत्तमः
भुङ्क्ष्व चैनां यथाकामं गमिष्ये ऽहं द्विजोत्तम हृष्टो ऽथ दर्शयामास स्वात्मानं धर्मराट् स्वयम्
प्रददौ चेप्सितं सर्वं तमाह च महाद्युतिः एषा न भुक्ता विप्रेन्द्र मनसापि सुशोभना
मया चैषा न संदेहः श्रद्धां ज्ञातुमिहागतः जितो वै यस्त्वया मृत्युर् धर्मेणैकेन सुव्रत
अहो ऽस्य तपसो वीर्यम् इत्युक्त्वा प्रययौ च सः तस्मात्तथा पूजनीयाः सर्वे ह्यतिथयः सदा
बहुनात्र किमुक्तेन भाग्यहीना द्विजोत्तमाः तमेव शरणं तूर्णं गन्तुमर्हथ शङ्करम्
तस्य तद्वचनं श्रुत्वा ब्रह्मणो ब्राह्मणर्षभाः ब्रह्माणमभिवन्द्यार्ताः प्रोचुराकुलितेक्षणाः
नापेक्षितं महाभाग जीवितं विकृताः स्त्रियः दृष्टो ऽस्माभिर् महादेवो निन्दितो यस्त्वनिन्दितः
शप्तश् च सर्वगः शूली पिनाकी नीललोहितः अज्ञानाच्छापजा शक्तिः कुण्ठितास्यनिरीक्षणात्
वक्तुमर्हसि देवेश संन्यासं वै क्रमेण तु द्रष्टुं वै देवदेवेशम् उग्रं भीमं कपर्दिनम्
आदौ वेदानधीत्यैव श्रद्धया च गुरोः सदा विचार्यार्थं मुनेर्धर्मान् प्रतिज्ञाय द्विजोत्तमाः
ग्रहणान्तं हि वा विद्वान् अथ द्वादशवार्षिकम् स्नात्वाहृत्य च दारान्वै पुत्रानुत्पाद्य सुव्रतान्
वृत्तिभिश्चानुरूपाभिस् तान् विभज्य सुतान्मुनिः अग्निष्टोमादिभिश्चेष्ट्वा यज्ञैर्यज्ञेश्वरं विभुम्
पूजयेत् परमात्मानं प्राप्यारण्यं विभावसौ मुनिर्द्वादशवर्षं वा वर्षमात्रम् अथापि वा
पक्षद्वादशकं वापि दिनद्वादशकं तु वा क्षीरभुक् संयुतः शान्तः सर्वान् सम्पूजयेत्सुरान्
इष्ट्वैवं जुहुयादग्नौ यज्ञपात्राणि मन्त्रतः अप्सु वै पार्थिवं न्यस्य गुरवे तैजसानि तु
स्वधनं सकलं चैव ब्राह्मणेभ्यो विशङ्कया प्रणिपत्य गुरुं भूमौ विरक्तः संन्यसेद्यतिः
निकृत्य केशान् सशिखान् उपवीतं विसृज्य च पञ्चभिर् जुहुयाद् अप्सु भूः स्वाहेति विचक्षणः
ततश्चोर्ध्वं चरेदेवं यतिः शिवविमुक्तये व्रतेनानशनेनापि तोयवृत्त्यापि वा पुनः
पर्णवृत्त्या पयोवृत्त्या फलवृत्त्यापि वा यतिः एवं जीवन्मृतो नो चेत् षण्मासाद्वत्सरात्तु वा
प्रस्थानादिकमायासं स्वदेहस्य चरेद्यतिः शिवसायुज्यमाप्नोति कर्मणाप्येवमाचरन्
सद्यो ऽपि लभते मुक्तिं भक्तियुक्तो दृढव्रताः
त्यागेन वा किं विधिनाप्य् अनेन भक्तस्य रुद्रस्य शुभैर्व्रतैश्च यज्ञैश् च दानैर्विविधैश् च होमैर् लब्धैश्चशास्त्रैर्विविधैश् च वेदैः
श्वेतेनैवं जितो मृत्युर् भवभक्त्या महात्मना वो ऽस्तु भक्तिर्महादेवे शङ्करे परमात्मनि
एवमुक्तास्तदा तेन ब्रह्मणा ब्राह्मणर्षभाः श्वेतस्य च कथां पुण्याम् अपृच्छन् परमर्षयः
श्वेतो नाम मुनिः श्रीमान् गतायुर्गिरिगह्वरे सक्तो ह्यभ्यर्च्य यद्भक्त्या तुष्टाव च महेश्वरम्
रुद्राध्यायेन पुण्येन नमस्तेत्यादिना द्विजाः ततः कालो महातेजाः कालप्राप्तं द्विजोत्तमम्
नेतुं संचिन्त्य विप्रेन्द्राः सान्निध्यमकरोन्मुनेः श्वेतो ऽपि दृष्ट्वा तं कालं कालप्राप्तो ऽपि शङ्करम्
पूजयामास पुण्यात्मा त्रियंबकमनुस्मरन् त्रियंबकं यजेदेवं सुगन्धिं पुष्टिवर्धनम्