सो ऽपि संचिन्त्य मनसा क्षणादेव पितामहः तेषां प्रवृत्तमखिलं पुण्ये दारुवने पुरा
उत्थाय प्राञ्जलिर्भूत्वा प्रणिपत्य भवाय च उवाच सत्वरं ब्रह्मा मुनीन्दारुवनालयान्
धिग् युष्मान् प्राप्तनिधनान् महानिधिम् अनुत्तमम् वृथाकृतं यतो विप्रा युष्माभिर् भाग्यवर्जितैः
यस्तु दारुवने तस्मिंल् लिङ्गी दृष्टो ऽप्यलिङ्गिभिः युष्माभिर् विकृताकारः स एव परमेश्वरः
गृहस्थैश् च न निन्द्यास्तु सदा ह्यतिथयो द्विजाः विरूपाश् च सुरूपाश् च मलिनाश्चाप्यपण्डिताः
सुदर्शनेन मुनिना कालमृत्युरपि स्वयम् पुरा भूमौ द्विजाग्र्येण जितो ह्यतिथिपूजया
अन्यथा नास्ति संतर्तुं गृहस्थैश् च द्विजोत्तमैः त्यक्त्वा चातिथिपूजां ताम् आत्मनो भुवि शोधनम्
गृहस्थो ऽपि पुरा जेतुं सुदर्शन इति श्रुतः प्रतिज्ञामकरोज्जायां भार्यामाह पतिव्रताम्
सुव्रते सुभ्रु सुभगे शृणु सर्वं प्रयत्नतः त्वया वै नावमन्तव्या गृहे ह्यतिथयः सदा
सर्व एव स्वयं साक्षाद् अतिथिर्यत्पिनाकधृक् तस्मादतिथये दत्त्वा आत्मानमपि पूजय
एवमुक्त्वाथ संतप्ता विवशा सा पतिव्रता पतिमाह रुदन्ती च किमुक्तं भवता प्रभो
तस्यास्तद्वचनं श्रुत्वा पुनः प्राह सुदर्शनः देयं सर्वं शिवायार्ये शिव एवातिथिः स्वयम्
तस्मात्सर्वे पूजनीयाः सर्वे ऽप्यतिथयः सदा एवमुक्ता तदा भर्त्रा भार्या तस्य पतिव्रता
शेषामिवाज्ञामादाय मूर्ध्ना सा प्राचरत्तदा परीक्षितुं तथा श्रद्धां तयोः साक्षाद् द्विजोत्तमाः
धर्मो द्विजोत्तमो भूत्वा जगामाथ मुनेर्गृहम् तं दृष्ट्वा चार्चयामास सार्घ्याद्यैरनघा द्विजम्
सम्पूजितस्तया तां तु प्राह धर्मो द्विजः स्वयम् भद्रे कुतः पतिर्धीमांस् तव भर्ता सुदर्शनः
अन्नाद्यैरलमद्यार्ये स्वं दातुमिह चार्हसि सा च लज्जावृता नारी स्मरन्ती कथितं पुरा
भर्त्रा न्यमीलयन्नेत्रे चचाल च पतिव्रता किंचेत्याह पुनस्तं वै धर्मे चक्रे च सा मतिम्
निवेदितुं किलात्मानं तस्मै पत्युरिहाज्ञया एतस्मिन्नन्तरे भर्ता तस्या नार्याः सुदर्शनः
गृहद्वारं गतो धीमांस् तामुवाच महामुनिः एह्येहि क्व गता भद्रे तमुवाचातिथिः स्वयम्
भार्यया त्वनया सार्धं मैथुनस्थो ऽहमद्य वै सुदर्शन महाभाग किं कर्तव्यमिहोच्यताम्
सुरतान्तस्तु विप्रेन्द्र संतुष्टो ऽहं द्विजोत्तम सुदर्शनस्ततः प्राह सुप्रहृष्टो द्विजोत्तमः
भुङ्क्ष्व चैनां यथाकामं गमिष्ये ऽहं द्विजोत्तम हृष्टो ऽथ दर्शयामास स्वात्मानं धर्मराट् स्वयम्
प्रददौ चेप्सितं सर्वं तमाह च महाद्युतिः एषा न भुक्ता विप्रेन्द्र मनसापि सुशोभना
मया चैषा न संदेहः श्रद्धां ज्ञातुमिहागतः जितो वै यस्त्वया मृत्युर् धर्मेणैकेन सुव्रत
अहो ऽस्य तपसो वीर्यम् इत्युक्त्वा प्रययौ च सः तस्मात्तथा पूजनीयाः सर्वे ह्यतिथयः सदा
बहुनात्र किमुक्तेन भाग्यहीना द्विजोत्तमाः तमेव शरणं तूर्णं गन्तुमर्हथ शङ्करम्
तस्य तद्वचनं श्रुत्वा ब्रह्मणो ब्राह्मणर्षभाः ब्रह्माणमभिवन्द्यार्ताः प्रोचुराकुलितेक्षणाः
नापेक्षितं महाभाग जीवितं विकृताः स्त्रियः दृष्टो ऽस्माभिर् महादेवो निन्दितो यस्त्वनिन्दितः
शप्तश् च सर्वगः शूली पिनाकी नीललोहितः अज्ञानाच्छापजा शक्तिः कुण्ठितास्यनिरीक्षणात्