विकृतं रूपमास्थाय दिग्वासा विषमेक्षणः मुग्धो द्विहस्तः कृष्णाङ्गो दिव्यं दारुवनं ययौ
मन्दस्मितं च भगवान् स्त्रीणां मनसिजोद्भवम् भ्रूविलासं च गानं च चकारातीव सुंदरः
संप्रोक्ष्य नारीवृन्दं वै मुहुर्मुहुरनङ्गहा अनङ्गवृद्धिम् अकरोद् अतीव मधुराकृतिः
वने तं पुरुषं दृष्ट्वा विकृतं नीललोहितम् स्त्रियः पतिव्रताश्चापि तमेवान्वयुरादरात्
वनोटजद्वारगताश् च नार्यो विस्रस्तवस्त्राभरणा विचेष्टाः लब्ध्वा स्मितं तस्य मुखारविन्दाद् द्रुमालयस्थास् तम् अथान्वयुस्ताः
दृष्ट्वा काश्चिद्भवं नार्यो मदघूर्णितलोचनाः विलासबाह्यास्ताश्चापि भ्रूविलासं प्रचक्रिरे
अथ दृष्ट्वापरा नार्यः किंचित् प्रहसिताननाः किंचिद् विस्रस्तवसनाः स्रस्तकाञ्चीगुणा जगुः
काश्चित्तदा तं विपिने तु दृष्ट्वा विप्राङ्गनाः स्रस्तनवांशुकं वा स्वान्स्वान्विचित्रान् वलयान्प्रविध्य मदान्विता बन्धुजनांश् च जग्मुः
काचित्तदा तं न विवेद दृष्ट्वा विवासना स्रस्तमहांशुका च शाखाविचित्रान् विटपान्प्रसिद्धान् मदान्विता बन्धुजनांस्तथान्याः
काश्चिज्जगुस्तं ननृतुर् निपेतुश् च धरातले निषेदुर्गजवच्चान्या प्रोवाच द्विजपुङ्गवाः
अन्योन्यं सस्मितं प्रेक्ष्य चालिलिङ्गुः समन्ततः निरुध्य मार्गं रुद्रस्य नैपुणानि प्रचक्रिरे
को भवानिति चाहुस्तं आस्यतामिति चापराः कुत्रेत्यथ प्रसीदेति जजल्पुः प्रीतमानसाः
विपरीता निपेतुर्वै विस्रस्तांशुकमूर्धजाः पतिव्रताः पतीनां तु संनिधौ भवमायया
दृष्ट्वा श्रुत्वा भवस्तासां चेष्टावाक्यानि चाव्ययः शुभं वाप्यशुभं वापि नोक्तवान्परमेश्वरः
दृष्ट्वा नारीकुलं विप्रास् तथाभूतं च शङ्करम् अतीव परुषं वाक्यं जजल्पुस्ते मुनीश्वराः
तपांसि तेषां सर्वेषां प्रत्याहन्यन्त शङ्करे यथादित्यप्रकाशेन तारका नभसि स्थिताः
श्रूयते ऋषिशापेन ब्रह्मणस्तु महात्मनः समृद्धश्रेयसां योनिर् यज्ञा वै नाशमाप्तवान्
भृगोर् अपि च शापेन विष्णुः परमवीर्यवान् प्रादुर्भावान्दश प्राप्तो दुःखितश् च सदा कृतः
इन्द्रस्यापि च धर्मज्ञ छिन्नं सवृषणं पुरा ऋषिणा गौतमेनोर्व्यां क्रुद्धेन विनिपातितम्
गर्भवासो वसूनां च शापेन विहितस् तथा ऋषीणां चैव शापेन नहुषः सर्पतां गतः
क्षीरोदश् च समुद्रो ऽसौ निवासः सर्वदा हरेः द्वितीयश्चामृताधारो ह्य् अपेयो ब्राह्मणैः कृतः
अविमुक्तेश्वरं प्राप्य वाराणस्यां जनार्दनः क्षीरेण चाभिषिच्येशं देवदेवं त्रियंबकम्
श्रद्धया परया युक्तो देहाश्लेषामृतेन वै निषिक्तेन स्वयं देवः क्षीरेण मधुसूदनः
सेचयित्वाथ भगवान् ब्रह्मणा मुनिभिः समम् क्षीरोदं पूर्ववच्चक्रे निवासं चात्मनः प्रभुः
धर्मश्चैव तथा शप्तो माण्डव्येन महात्मना वृष्णयश्चैव कृष्णेन दुर्वासाद्यैर्महात्मभिः
राघवः सानुजश् चापि दुर्वासेन महात्मना श्रीवत्सश् च मुनेः पाद पतनात्तस्य धीमतः
एते चान्ये च बहवो विप्राणां वशमागताः वर्जयित्वा विरूपाक्षं देवदेवमुमापतिम्
एवं हि मोहितास्तेन नावबुध्यन्त शङ्करम् अत्युग्रवचनं प्रोचुश् चोग्रो ऽप्यन्तरधीयत
ते ऽपि दारुवनात्तस्मात् प्रातः संविग्नमानसाः पितामहं महात्मानम् आसीनं परमासने
गत्वा विज्ञापयामासुः प्रवृत्तमखिलं विभोः शुभे दारुवने तस्मिन् मुनयः क्षीणचेतसः