यथा दारुवने रुद्रं विनिन्द्य मुनयः पुरा तस्मात्सेव्या नमस्कार्याः सदा ब्रह्मविदस् तथा
वर्णाश्रमविनिर्मुक्ता वर्णाश्रमपरायणैः
इदानीं श्रोतुमिच्छामि पुरा दारुवने विभो प्रवृत्तं तद्वनस्थानां तपसा भावितात्मनाम्
कथं दारुवनं प्राप्तो भगवान्नीललोहितः विकृतं रूपमास्थाय चोर्ध्वरेता दिगम्बरः
किं प्रवृत्तं वने तस्मिन् रुद्रस्य परमात्मनः वक्तुमर्हसि तत्त्वेन देवदेवस्य चेष्टितम्
तस्य तद्वचनं श्रुत्वा श्रुतिसारविदां वरः शिलादसूनुर्भगवान् प्राह किंचिद्भवं हसन्
मुनयो दारुगहने तपस्तेपुः सुदारुणम् तुष्ट्यर्थं देवदेवस्य सदारतनयाग्नयः
तुष्टो रुद्रो जगन्नाथश् चेकितानो वृषध्वजः धूर्जटिः परमेशानो भगवान्नीललोहितः
प्रवृत्तिलक्षणं ज्ञानं ज्ञातुं दारुवनौकसाम् परीक्षार्थं जगन्नाथः श्रद्धया क्रीडया च सः
निवृत्तिलक्षणज्ञानप्रतिष्ठार्थं च शङ्करः देवदारुवनस्थानां प्रवृत्तिज्ञानचेतसाम्
विकृतं रूपमास्थाय दिग्वासा विषमेक्षणः मुग्धो द्विहस्तः कृष्णाङ्गो दिव्यं दारुवनं ययौ
मन्दस्मितं च भगवान् स्त्रीणां मनसिजोद्भवम् भ्रूविलासं च गानं च चकारातीव सुंदरः
संप्रोक्ष्य नारीवृन्दं वै मुहुर्मुहुरनङ्गहा अनङ्गवृद्धिम् अकरोद् अतीव मधुराकृतिः
वने तं पुरुषं दृष्ट्वा विकृतं नीललोहितम् स्त्रियः पतिव्रताश्चापि तमेवान्वयुरादरात्
वनोटजद्वारगताश् च नार्यो विस्रस्तवस्त्राभरणा विचेष्टाः लब्ध्वा स्मितं तस्य मुखारविन्दाद् द्रुमालयस्थास् तम् अथान्वयुस्ताः
दृष्ट्वा काश्चिद्भवं नार्यो मदघूर्णितलोचनाः विलासबाह्यास्ताश्चापि भ्रूविलासं प्रचक्रिरे
अथ दृष्ट्वापरा नार्यः किंचित् प्रहसिताननाः किंचिद् विस्रस्तवसनाः स्रस्तकाञ्चीगुणा जगुः
काश्चित्तदा तं विपिने तु दृष्ट्वा विप्राङ्गनाः स्रस्तनवांशुकं वा स्वान्स्वान्विचित्रान् वलयान्प्रविध्य मदान्विता बन्धुजनांश् च जग्मुः
काचित्तदा तं न विवेद दृष्ट्वा विवासना स्रस्तमहांशुका च शाखाविचित्रान् विटपान्प्रसिद्धान् मदान्विता बन्धुजनांस्तथान्याः
काश्चिज्जगुस्तं ननृतुर् निपेतुश् च धरातले निषेदुर्गजवच्चान्या प्रोवाच द्विजपुङ्गवाः
अन्योन्यं सस्मितं प्रेक्ष्य चालिलिङ्गुः समन्ततः निरुध्य मार्गं रुद्रस्य नैपुणानि प्रचक्रिरे
को भवानिति चाहुस्तं आस्यतामिति चापराः कुत्रेत्यथ प्रसीदेति जजल्पुः प्रीतमानसाः
विपरीता निपेतुर्वै विस्रस्तांशुकमूर्धजाः पतिव्रताः पतीनां तु संनिधौ भवमायया
दृष्ट्वा श्रुत्वा भवस्तासां चेष्टावाक्यानि चाव्ययः शुभं वाप्यशुभं वापि नोक्तवान्परमेश्वरः
दृष्ट्वा नारीकुलं विप्रास् तथाभूतं च शङ्करम् अतीव परुषं वाक्यं जजल्पुस्ते मुनीश्वराः
तपांसि तेषां सर्वेषां प्रत्याहन्यन्त शङ्करे यथादित्यप्रकाशेन तारका नभसि स्थिताः
श्रूयते ऋषिशापेन ब्रह्मणस्तु महात्मनः समृद्धश्रेयसां योनिर् यज्ञा वै नाशमाप्तवान्
भृगोर् अपि च शापेन विष्णुः परमवीर्यवान् प्रादुर्भावान्दश प्राप्तो दुःखितश् च सदा कृतः
इन्द्रस्यापि च धर्मज्ञ छिन्नं सवृषणं पुरा ऋषिणा गौतमेनोर्व्यां क्रुद्धेन विनिपातितम्
गर्भवासो वसूनां च शापेन विहितस् तथा ऋषीणां चैव शापेन नहुषः सर्पतां गतः