कर्ता यदि महादेवः परमात्मा महेश्वरः तथा कारयिता चैव कुर्वतो ऽल्पात्मनस् तथा
नित्यो विशुद्धो बुद्धश् च निष्कलः परमेश्वरः त्वयोक्तो मुक्तिदः किं वा निष्कलश्चेत्करोति किम्
कालः करोति सकलं कालं कलयते सदा निष्कलं च मनः सर्वं मन्यते सो ऽपि निष्कलः
कर्मणा तस्य चैवेह जगत्सर्वं प्रतिष्ठितम् किमत्र देवदेवस्य मूर्त्यष्टकमिदं जगत्
विनाकाशं जगन्नैव विना क्ष्मां वायुना विना तेजसा वारिणा चैव यजमानं तथा विना
भानुना शशिना लोकस् तस्यैतास्तनवः प्रभोः विचारतस्तु रुद्रस्य स्थूलमेतच्चराचरम्
सूक्ष्मं वदन्ति ऋषयो यन्न वाच्यं द्विजोत्तमाः यतो वाचो निवर्तन्ते अप्राप्य मनसा सह
आनन्दं ब्रह्मणो विद्वान् न बिभेति कुतश्चन न भेतव्यं तथा तस्माज् ज्ञात्वानन्दं पिनाकिनः
विभूतयश् च रुद्रस्य मत्वा सर्वत्र भावतः सर्वं रुद्र इति प्राहुर् मुनयस्तत्त्वदर्शिनः
नमस्कारेण सततं गौरवात्परमेष्ठिनः सर्वं तु खल्विदं ब्रह्म सर्वो वै रुद्र ईश्वरः
पुरुषो वै महादेवो महेशानः परः शिवः एवं विभुर्विनिर्दिष्टो ध्यानं तत्रैव चिन्तनम्
चतुर्व्यूहेण मार्गेण विचार्यालोक्य सुव्रत संसारहेतुः संसारो मोक्षहेतुश् च निर्वृतिः
चतुर्व्यूहः समाख्यातश् चिन्तकस्येह योगिनः चिन्ता बहुविधा ख्याता सैकत्र परमेष्ठिना
सुनिष्ठेत्यत्र कथिता रुद्रं रौद्री न संशयः ऐन्द्री चेन्द्रे तथा सौम्या सोमे नारायणे तथा
सूर्ये वह्नौ च सर्वेषां सर्वत्रैवं विचारतः सैवाहं सो ऽहमित्येवं द्विधा संस्थाप्य भावतः
भक्तो ऽसौ नास्ति यस्तस्माच् चिन्ता ब्राह्मी न संशयः एवं ब्रह्ममयं ध्यायेत् पूर्वं विप्र चराचरम्
चराचरविभागं च त्यजेदभिमतं स्मरन् त्याज्यं ग्राह्यम् अलभ्यं च कृत्यं चाकृत्यमेव च
यस्य नास्ति सुतृप्तस्य तस्य ब्राह्मी न चान्यथा आभ्यन्तरं समाख्यातम् एवमभ्यर्चनं क्रमात्
आभ्यन्तरार्चकाः पूज्या नमस्कारादिभिस् तथा विरूपा विकृताश्चापि न निन्द्या ब्रह्मवादिनः
आभ्यन्तरार्चकाः सर्वे न परीक्ष्या विजानता निन्दका एव दुःखार्ता भविष्यन्त्यल्पचेतसः
यथा दारुवने रुद्रं विनिन्द्य मुनयः पुरा तस्मात्सेव्या नमस्कार्याः सदा ब्रह्मविदस् तथा
वर्णाश्रमविनिर्मुक्ता वर्णाश्रमपरायणैः
इदानीं श्रोतुमिच्छामि पुरा दारुवने विभो प्रवृत्तं तद्वनस्थानां तपसा भावितात्मनाम्
कथं दारुवनं प्राप्तो भगवान्नीललोहितः विकृतं रूपमास्थाय चोर्ध्वरेता दिगम्बरः
किं प्रवृत्तं वने तस्मिन् रुद्रस्य परमात्मनः वक्तुमर्हसि तत्त्वेन देवदेवस्य चेष्टितम्
तस्य तद्वचनं श्रुत्वा श्रुतिसारविदां वरः शिलादसूनुर्भगवान् प्राह किंचिद्भवं हसन्
मुनयो दारुगहने तपस्तेपुः सुदारुणम् तुष्ट्यर्थं देवदेवस्य सदारतनयाग्नयः
तुष्टो रुद्रो जगन्नाथश् चेकितानो वृषध्वजः धूर्जटिः परमेशानो भगवान्नीललोहितः
प्रवृत्तिलक्षणं ज्ञानं ज्ञातुं दारुवनौकसाम् परीक्षार्थं जगन्नाथः श्रद्धया क्रीडया च सः
निवृत्तिलक्षणज्ञानप्रतिष्ठार्थं च शङ्करः देवदारुवनस्थानां प्रवृत्तिज्ञानचेतसाम्