स्नापयेद्देवदेवेशं सर्वपापप्रशान्तये वस्त्रं शिवोपवीतं च तथा ह्याचमनीयकम्
गन्धं पुष्पं तथा धूपं दीपमन्नं क्रमेण तु तोयं सुगन्धितं चैव पुनराचमनीयकम्
मुकुटं च शुभं छन्नं तथा वै भूषणानि च दापयेत्प्रणवेनैव मुखवासादिकानि च
ततः स्फटिकसंकाशं देवं निष्कलमक्षरम् कारणं सर्वदेवानां सर्वलोकमयं परम्
ब्रह्मेन्द्रविष्णुरुद्राद्यैर् ऋषिदेवैर् अगोचरम् वेदविद्भिर् हि वेदान्तैस् त्व् अगोचरमिति श्रुतिः
आदिमध्यान्तरहितं भेषजं भवरोगिणाम् शिवतत्त्वमिति ख्यातं शिवलिङ्गे व्यवस्थितम्
प्रणवेनैव मन्त्रेण पूजयेल्लिङ्गमूर्धनि स्तोत्रं जपेच्च विधिना नमस्कारं प्रदक्षिणम्
अर्घ्यं दत्त्वाथ पुष्पाणि पादयोस्तु विकीर्य च प्रणिपत्य च देवेशम् आत्मन्यारोपयेच्छिवम्
एवं संक्षिप्य कथितं लिङ्गार्चनमनुत्तमम् आभ्यन्तरं प्रवक्ष्यामि लिङ्गार्चनमिहाद्य ते
आग्नेयं सौरममृतं बिम्बं भाव्यं ततोपरि गुणत्रयं च हृदये तथा चात्मत्रयं क्रमात्
तस्योपरि महादेवं निष्कलं सकलाकृतिम् कान्तार्धरूढदेहं च पूजयेद्ध्यानविद्यया
ततो बहुविधं प्रोक्तं चिन्त्यं तत्रास्ति चेद्यतः चिन्तकस्य ततश्चिन्ता अन्यथा नोपपद्यते
तस्माद्ध्येयं तथा ध्यानं यजमानः प्रयोजनम् स्मरेत्तन्नान्यथा जातु बुध्यते पुरुषस्य ह
पुरे शेते पुरं देहं तस्मात्पुरुष उच्यते याज्यं यज्ञेन यजते यजमानस्तु स स्मृतः
ध्येयो महेश्वरो ध्यानं चिन्तनं निर्वृतिः फलम् प्रधानपुरुषेशानं याथातथ्यं प्रपद्यते
इह षड्विंशको ध्येयो ध्याता वै पञ्चविंशकः चतुर्विंशकम् अव्यक्तं महदाद्यास्तु सप्त च
महांस् तथा त्वहङ्कारं तन्मात्रं पञ्चकं पुनः कर्मेन्द्रियाणि पञ्चैव तथा बुद्धीन्द्रियाणि च
मनश् च पञ्च भूतानि शिवः षड्विंशकस्ततः स एव भर्ता कर्ता च विधेरपि महेश्वरः
हिरण्यगर्भं रुद्रो ऽसौ जनयामास शङ्करः विश्वाधिकश् च विश्वात्मा विश्वरूप इति स्मृतः
विना यथा हि पितरं मातरं तनयास्त्विह न जायन्ते तथा सोमं विना नास्ति जगत्त्रयम्
कर्ता यदि महादेवः परमात्मा महेश्वरः तथा कारयिता चैव कुर्वतो ऽल्पात्मनस् तथा
नित्यो विशुद्धो बुद्धश् च निष्कलः परमेश्वरः त्वयोक्तो मुक्तिदः किं वा निष्कलश्चेत्करोति किम्
कालः करोति सकलं कालं कलयते सदा निष्कलं च मनः सर्वं मन्यते सो ऽपि निष्कलः
कर्मणा तस्य चैवेह जगत्सर्वं प्रतिष्ठितम् किमत्र देवदेवस्य मूर्त्यष्टकमिदं जगत्
विनाकाशं जगन्नैव विना क्ष्मां वायुना विना तेजसा वारिणा चैव यजमानं तथा विना
भानुना शशिना लोकस् तस्यैतास्तनवः प्रभोः विचारतस्तु रुद्रस्य स्थूलमेतच्चराचरम्
सूक्ष्मं वदन्ति ऋषयो यन्न वाच्यं द्विजोत्तमाः यतो वाचो निवर्तन्ते अप्राप्य मनसा सह
आनन्दं ब्रह्मणो विद्वान् न बिभेति कुतश्चन न भेतव्यं तथा तस्माज् ज्ञात्वानन्दं पिनाकिनः
विभूतयश् च रुद्रस्य मत्वा सर्वत्र भावतः सर्वं रुद्र इति प्राहुर् मुनयस्तत्त्वदर्शिनः
नमस्कारेण सततं गौरवात्परमेष्ठिनः सर्वं तु खल्विदं ब्रह्म सर्वो वै रुद्र ईश्वरः