कुशपुष्पयवव्रीहिबहुमूलतमालकम् दापयेत्प्रोक्षणीपात्रे भसितं प्रणवेन च
न्यसेत्पञ्चाक्षरं चैव गायत्रीं रुद्रदेवताम् केवलं प्रणवं वापि वेदसारमनुत्तमम्
अथ संप्रोक्षयेत्पश्चाद् द्रव्याणि प्रणवेन तु प्रोक्षणीपात्रसंस्थेन ईशानाद्यैश् च पञ्चभिः
पार्श्वतो देवदेवस्य नन्दिनं मांसमर्चयेत् दीप्तानलायुतप्रख्यं त्रिनेत्रं त्रिदशेश्वरम्
बालेन्दुमुकुटं चैव हरिवक्त्रं चतुर्भुजम् पुष्पमालाधरं सौम्यं सर्वाभरणभूषितम्
उत्तरे चात्मनः पुण्यां भार्यां च मरुतां शुभाम् सुयशां सुव्रतां चाम्बां पादमण्डनतत्पराम्
एवं पूज्य प्रविश्यान्तर् भवनं परमेष्ठिनः दत्त्वा पुष्पाञ्जलिं भक्त्या पञ्चमूर्धसु पञ्चभिः
गन्धपुष्पैस् तथा धूपैर् विविधैः पूज्य शङ्करम् स्कन्दं विनायकं देवीं लिङ्गशुद्धिं च कारयेत्
जप्त्वा सर्वाणि मन्त्राणि प्रणवादिनमो ऽन्तकम् कल्पयेदासनं पश्चात् पद्माख्यं प्रणवेन तत्
तस्य पूर्वदलं साक्षाद् अणिमामयम् अक्षरम् लघिमा दक्षिणं चैव महिमा पश्चिमं तथा
प्राप्तिस्तथोत्तरं पत्रं प्राकाम्यं पावकस्य तु ईशित्वं नैरृतं पत्रं वशित्वं वायुगोचरे
सर्वज्ञत्वं तथैशान्यं कर्णिका सोम उच्यते सोमस्याधस् तथा सूर्यस् तस्याधः पावकः स्वयम्
धर्मादयो विदिक्ष्वेते त्व् अनन्तं कल्पयेत्क्रमात् अव्यक्तादिचतुर्दिक्षु सोमस्यान्ते गुणत्रयम्
आत्मत्रयं ततश्चोर्ध्वं तस्यान्ते शिवपीठिका सद्योजातं प्रपद्यामीत्य् आवाह्य परमेश्वरम्
वामदेवेन मन्त्रेण स्थापयेदासनोपरि सान्निध्यं रुद्रगायत्र्या अघोरेण निरुध्य च
ईशानः सर्वविद्यानाम् इति मन्त्रेण पूजयेत् पाद्यमाचमनीयं च विभोश्चार्घ्यं प्रदापयेत्
स्नापयेद्विधिना रुद्रं गन्धचन्दनवारिणा पञ्चगव्यविधानेन गृह्य पात्रे ऽभिमन्त्र्य च
प्रणवेनैव गव्यैस्तु स्नापयेच्च यथाविधि आज्येन मधुना चैव तथा चेक्षुरसेन च
पुण्यैर्द्रव्यैर्महादेवं प्रणवेनाभिषेचयेत् जलभाण्डैः पवित्रैस्तु मन्त्रैस्तोयं क्षिपेत्ततः
शुद्धिं कृत्वा यथान्यायं सितवस्त्रेण साधकः कुशापामार्गकर्पूरजातिपुष्पकचम्पकैः
करवीरैः सितैश्चैव मल्लिकाकमलोत्पलैः आपूर्य पुष्पैः सुशुभैः चन्दनाद्यैश् च तज्जलम्
न्यसेन्मन्त्राणि तत्तोये सद्योजातादिकानि तु सुवर्णकलशेनाथ तथा वै राजतेन वा
ताम्रेण पद्मपत्रेण पालाशेन दलेन वा शंखेन मृन्मयेनाथ शोधितेन शुभेन वा
सकूर्चेन सपुष्पेण स्नापयेन्मन्त्रपूर्वकम् मन्त्राणि ते प्रवक्ष्यामि शृणु सर्वार्थसिद्धये
यैर्लिङ्गं सकृदप्येवं स्नाप्य मुच्येत मानवः पवमानेन मन्त्रज्ञाः तथा वामीयकेन च
रुद्रेण नीलरुद्रेण श्रीसूक्तेन शुभेन च रजनीसूक्तकेनैव चमकेन शुभेन च
होतारेणाथ शिरसा अथर्वेण शुभेन च शान्त्या चाथ पुनः शान्त्या भारुण्डेनारुणेन च
वारुणेन च ज्येष्ठेन तथा वेदव्रतेन च तथान्तरेण पुण्येन सूक्तेन पुरुषेण च
त्वरितेनैव रुद्रेण कपिना च कपर्दिना आवोसजेति साम्ना तु बृहच्चन्द्रेण विष्णुना
विरूपाक्षेण स्कन्देन शतऋग्भिः शिवैस् तथा पञ्चब्रह्मैश् च सूत्रेण केवलप्रणवेन च