सूत्रे नमः शिवायेति छन्दांसि परमे शुभे मन्त्राणि सूक्ष्मरूपेण संस्थितानि यतस्ततः
न्यग्रोधबीजे न्यग्रोधस् तथा सूत्रे तु शोभने महत्यपि महद्ब्रह्म संस्थितं सूक्ष्मवत्स्वयम्
सेचयेदर्चनस्थानं गन्धचन्दनवारिणा द्रव्याणि शोधयेत्पश्चात् क्षालनप्रोक्षणादिभिः
क्षालनं प्रोक्षणं चैव प्रणवेन विधीयते प्रोक्षणी चार्घ्यपात्रं च पाद्यपात्रम् अनुक्रमात्
तथा ह्याचमनीयार्थं कल्पितं पात्रमेव च स्थापयेद् विधिना धीमान् अवगुण्ठ्य यथाविधि
दर्भैर् आच्छादयेच्चैव प्रोक्षयेच्छुद्धवारिणा तेषु तेष्वथ सर्वेषु क्षिपेत्तोयं सुशीतलम्
प्रणवेन क्षिपेत्तेषु द्रव्याण्यालोक्य बुद्धिमान् उशीरं चन्दनं चैव पाद्ये तु परिकल्पयेत्
जातिकङ्कोलकर्पूरबहुमूलतमालकम् चूर्णयित्वा यथान्यायं क्षिपेदाचमनीयके
एवं सर्वेषु पात्रेषु दापयेच्चन्दनं तथा कर्पूरं च यथान्यायं पुष्पाणि विविधानि च
कुशाग्रमक्षतांश्चैव यवव्रीहितिलानि च आज्यसिद्धार्थपुष्पाणि भसितं चार्घ्यपात्रके
कुशपुष्पयवव्रीहिबहुमूलतमालकम् दापयेत्प्रोक्षणीपात्रे भसितं प्रणवेन च
न्यसेत्पञ्चाक्षरं चैव गायत्रीं रुद्रदेवताम् केवलं प्रणवं वापि वेदसारमनुत्तमम्
अथ संप्रोक्षयेत्पश्चाद् द्रव्याणि प्रणवेन तु प्रोक्षणीपात्रसंस्थेन ईशानाद्यैश् च पञ्चभिः
पार्श्वतो देवदेवस्य नन्दिनं मांसमर्चयेत् दीप्तानलायुतप्रख्यं त्रिनेत्रं त्रिदशेश्वरम्
बालेन्दुमुकुटं चैव हरिवक्त्रं चतुर्भुजम् पुष्पमालाधरं सौम्यं सर्वाभरणभूषितम्
उत्तरे चात्मनः पुण्यां भार्यां च मरुतां शुभाम् सुयशां सुव्रतां चाम्बां पादमण्डनतत्पराम्
एवं पूज्य प्रविश्यान्तर् भवनं परमेष्ठिनः दत्त्वा पुष्पाञ्जलिं भक्त्या पञ्चमूर्धसु पञ्चभिः
गन्धपुष्पैस् तथा धूपैर् विविधैः पूज्य शङ्करम् स्कन्दं विनायकं देवीं लिङ्गशुद्धिं च कारयेत्
जप्त्वा सर्वाणि मन्त्राणि प्रणवादिनमो ऽन्तकम् कल्पयेदासनं पश्चात् पद्माख्यं प्रणवेन तत्
तस्य पूर्वदलं साक्षाद् अणिमामयम् अक्षरम् लघिमा दक्षिणं चैव महिमा पश्चिमं तथा
प्राप्तिस्तथोत्तरं पत्रं प्राकाम्यं पावकस्य तु ईशित्वं नैरृतं पत्रं वशित्वं वायुगोचरे
सर्वज्ञत्वं तथैशान्यं कर्णिका सोम उच्यते सोमस्याधस् तथा सूर्यस् तस्याधः पावकः स्वयम्
धर्मादयो विदिक्ष्वेते त्व् अनन्तं कल्पयेत्क्रमात् अव्यक्तादिचतुर्दिक्षु सोमस्यान्ते गुणत्रयम्
आत्मत्रयं ततश्चोर्ध्वं तस्यान्ते शिवपीठिका सद्योजातं प्रपद्यामीत्य् आवाह्य परमेश्वरम्
वामदेवेन मन्त्रेण स्थापयेदासनोपरि सान्निध्यं रुद्रगायत्र्या अघोरेण निरुध्य च
ईशानः सर्वविद्यानाम् इति मन्त्रेण पूजयेत् पाद्यमाचमनीयं च विभोश्चार्घ्यं प्रदापयेत्
स्नापयेद्विधिना रुद्रं गन्धचन्दनवारिणा पञ्चगव्यविधानेन गृह्य पात्रे ऽभिमन्त्र्य च
प्रणवेनैव गव्यैस्तु स्नापयेच्च यथाविधि आज्येन मधुना चैव तथा चेक्षुरसेन च
पुण्यैर्द्रव्यैर्महादेवं प्रणवेनाभिषेचयेत् जलभाण्डैः पवित्रैस्तु मन्त्रैस्तोयं क्षिपेत्ततः
शुद्धिं कृत्वा यथान्यायं सितवस्त्रेण साधकः कुशापामार्गकर्पूरजातिपुष्पकचम्पकैः