अष्टादशपुराणानां ब्रह्माद्यानां तथैव च तथा चोपपुराणानां सौरादीनां यथाक्रमम्
पुण्यानामितिहासानां शैवादीनां तथैव च श्रोत्रे स्पृशेद्धि तुष्ट्यर्थं हृद्देशं तु ततः स्पृशेत्
कल्पादीनां तु सर्वेषां कल्पवित्कल्पवित्तमाः एवमाचम्य चास्तीर्य दर्भपिञ्जूलम् आत्मनः
कृत्वा पाणितले धीमान् आत्मनो दक्षिणोत्तरम् हेमाङ्गुलीयसंयुक्तो ब्रह्मबन्धयुतो ऽपि वा
विधिवद्ब्रह्मयज्ञं च कुर्यात्सूत्री समाहितः अकृत्वा च मुनिः पञ्च महायज्ञान्द्विजोत्तमः
भुक्त्वा च सूकराणां तु योनौ वै जायते नरः तस्मात्सर्वप्रयत्नेन कर्तव्याः शुभमिच्छता
ब्रह्मयज्ञादथ स्नानं कृत्वादौ सर्वथात्मनः तीर्थं संगृह्य विधिवत् प्रविशेच्छिबिरं वशी
बहिरेव गृहात्पादौ हस्तौ प्रक्षाल्य वारिणा भस्मस्नानं ततः कुर्याद् विधिवद् देहशुद्धये
शोध्य भस्म यथान्यायं प्रणवेनाग्निहोत्रजम् ज्योतिः सूर्य इति प्रातर् जुहुयादुदिते यतः
ज्योतिरग्निस् तथा सायं सम्यक् चानुदिते मृषा तस्मादुदितहोमस्थं भसितं पावनं शुभम्
नास्ति सत्यसमं यस्माद् असत्यं पातकं च यत् ईशानेन शिरोदेशं मुखं तत्पुरुषेण च
उरोदेशमघोरेण गुह्यं वामेन सुव्रताः सद्येन पादौ सर्वाङ्गं प्रणवेनाभिषेचयेत्
ततः प्रक्षालयेत्पादं हस्तं ब्रह्मविदां वरः व्यपोह्य भस्म चादाय देवदेवमनुस्मरन्
मन्त्रस्नानं ततः कुर्याद् आपोहिष्ठादिभिः क्रमात् पुण्यैश्चैव तथा मन्त्रैर् ऋग्यजुःसामसंभवैः
द्विजानां तु हितायैवं कथितं स्नानमद्य ते संक्षिप्य यः सकृत्कुर्यात् स याति परमं पदम्
वक्ष्यामि शृणु संक्षेपाल् लिङ्गार्चनाविधिक्रमम् वक्तुं वर्षशतेनापि न शक्यं विस्तरेण यत्
एवं स्नात्वा यथान्यायं पूजास्थानं प्रविश्य च प्राणायामत्रयं कृत्वा ध्यायेद्देवं त्रियंबकम्
पञ्चवक्त्रं दशभुजं शुद्धस्फटिकसन्निभम् सर्वाभरणसंयुक्तं चित्रांबरविभूषितम्
तस्य रूपं समाश्रित्य दाहनप्लावनादिभिः शैवीं तनुं समास्थाय पूजयेत्परमेश्वरम्
देहशुद्धिं च कृत्वैव मूलमन्त्रं न्यसेत् क्रमात् सर्वत्र प्रणवेनैव ब्रह्माणि च यथाक्रमम्
सूत्रे नमः शिवायेति छन्दांसि परमे शुभे मन्त्राणि सूक्ष्मरूपेण संस्थितानि यतस्ततः
न्यग्रोधबीजे न्यग्रोधस् तथा सूत्रे तु शोभने महत्यपि महद्ब्रह्म संस्थितं सूक्ष्मवत्स्वयम्
सेचयेदर्चनस्थानं गन्धचन्दनवारिणा द्रव्याणि शोधयेत्पश्चात् क्षालनप्रोक्षणादिभिः
क्षालनं प्रोक्षणं चैव प्रणवेन विधीयते प्रोक्षणी चार्घ्यपात्रं च पाद्यपात्रम् अनुक्रमात्
तथा ह्याचमनीयार्थं कल्पितं पात्रमेव च स्थापयेद् विधिना धीमान् अवगुण्ठ्य यथाविधि
दर्भैर् आच्छादयेच्चैव प्रोक्षयेच्छुद्धवारिणा तेषु तेष्वथ सर्वेषु क्षिपेत्तोयं सुशीतलम्
प्रणवेन क्षिपेत्तेषु द्रव्याण्यालोक्य बुद्धिमान् उशीरं चन्दनं चैव पाद्ये तु परिकल्पयेत्
जातिकङ्कोलकर्पूरबहुमूलतमालकम् चूर्णयित्वा यथान्यायं क्षिपेदाचमनीयके
एवं सर्वेषु पात्रेषु दापयेच्चन्दनं तथा कर्पूरं च यथान्यायं पुष्पाणि विविधानि च
कुशाग्रमक्षतांश्चैव यवव्रीहितिलानि च आज्यसिद्धार्थपुष्पाणि भसितं चार्घ्यपात्रके