शतानि त्रीणि मासानां षष्ट्या चाप्यधिकानि वै पित्र्यः संवत्सरो ह्येष मानुषेण विभाव्यते
मानुषेणैव मानेन वर्षाणां यच्छतं भवेत् पितॄणां त्रीणि वर्षाणि संख्यातानीह तानि वै
दश वै द्व्यधिका मासाः पितृसंख्येह संस्मृता लौकिकेनैव मानेन अब्दो यो मानुषः स्मृतः
एतद्दिव्यमहोरात्रम् इति लैङ्गे ऽत्र पठ्यते दिव्ये रात्र्यहनी वर्षं प्रविभागस्तयोः पुनः
अहस्तत्रोदगयनं रात्रिः स्याद्दक्षिणायनम् एते रात्र्यहनी दिव्ये प्रसंख्याते विशेषतः
त्रिंशद्यानि तु वर्षाणि दिव्यो मासस्तु स स्मृतः मानुषं तु शतं विप्रा दिव्यमासास्त्रयस्तु ते
दश चैव तथाहानि दिव्यो ह्येष विधिः स्मृतः त्रीणि वर्षशतान्येव षष्टिवर्षाणि यानि तु
दिव्यः संवत्सरो ह्येष मानुषेण प्रकीर्तितः त्रीणि वर्षसहस्राणि मानुषाणि प्रमाणतः
त्रिंशदन्यानि वर्षाणि मतः सप्तर्षिवत्सरः नव यानि सहस्राणि वर्षाणां मानुषाणि तु
अन्यानि नवतीश्चैव ध्रौवः संवत्सरस्तु सः षट्त्रिंशत्तु सहस्राणि वर्षाणां मानुषाणि तु
वर्षाणां तच्छतं ज्ञेयं दिव्यो ह्येष विधिः स्मृतः त्रीण्येव नियुतान्याहुर् वर्षाणां मानुषाणि तु
षष्टिश्चैव सहस्राणि संख्यातानि तु संख्यया दिव्यं वर्षसहस्रं तु प्राहुः संख्याविदो जनाः
दिव्येनैव प्रमाणेन युगसंख्याप्रकल्पनम् पूर्वं कृतयुगं नाम ततस्त्रेता विधीयते
द्वापरश्च कलिश्चैव युगान्येतानि सुव्रताः अथ संवत्सरा दृष्टा मानुषेण प्रमाणतः
कृतस्याद्यस्य विप्रेन्द्रा दिव्यमानेन कीर्तितम् सहस्राणां शतान्यासंश् चतुर्दश च संख्यया
चत्वारिंशत्सहस्राणि तथान्यानि कृतं युगम् तथा दशसहस्राणां वर्षाणां शतसंख्यया
अशीतिश् च सहस्राणि कालस्त्रेतायुगस्य च सप्तैव नियुतान्याहुर् वर्षाणां मानुषाणि तु
विंशतिश् च सहस्राणि कालस्तु द्वापरस्य च तथा शतसहस्राणि वर्षाणां त्रीणि संख्यया
षष्टिश्चैव सहस्राणि कालः कलियुगस्य तु एवं चतुर्युगः काल ऋते संध्यांशकात्स्मृतः
नियुतान्येव षट्त्रिंशन् निरंशानि तु तानि वै चत्वारिंशत्तथा त्रीणि नियुतानीह संख्यया
विंशतिश् च सहस्राणि संध्यांशश् च चतुर्युगः एवं चतुर्युगाख्यानां साधिका ह्येकसप्ततिः
कृतत्रेतादियुक्तानां मनोरन्तरमुच्यते मन्वन्तरस्य संख्या च वर्षाग्रेण प्रकीर्तिता
त्रिंशत्कोट्यस्तु वर्षाणां मानुषेण द्विजोत्तमाः सप्तषष्टिस्तथान्यानि नियुतान्यधिकानि तु
विंशतिश् च सहस्राणि कालो ऽयम् अधिकं विना मन्वन्तरस्य संख्यैषा लैङ्गे ऽस्मिन्कीर्तिता द्विजाः
चतुर्युगस्य च तथा वर्षसंख्या प्रकीर्तिता चतुर्युगसहस्रं वै कल्पश्चैको द्विजोत्तमाः
निशान्ते सृजते लोकान् नश्यन्ते निशि जन्तवः तत्र वैमानिकानां तु अष्टाविंशतिकोटयः
मन्वन्तरेषु वै संख्या सान्तरेषु यथातथा त्रीणि कोटिशतान्यासन् कोट्यो द्विनवतिस् तथा
कल्पे ऽतीते तु वै विप्राः सहस्राणां तु सप्ततिः पुनस्तथाष्टसाहस्रं सर्वत्रैव समासतः
कल्पावसानिकांस्त्यक्त्वा प्रलये समुपस्थिते महर्लोकात् प्रयान्त्येते जनलोकं जनास्ततः
कोटीनां द्वे सहस्रे तु अष्टौ कोटिशतानि तु द्विषष्टिश् च तथा कोट्यो नियुतानि च सप्ततिः