आचम्याचमनं कुर्यात् स्वसूत्रोक्तं समीक्ष्य च पवित्रहस्तः स्वासीनः शुचौ देशे यथाविधि
अभ्युक्ष्य सकुशं चापि दक्षिणेन करेण तु पिबेत्प्रक्षिप्य त्रिस्तोयं चक्री भूत्वा ह्यतन्द्रितः
प्रदक्षिणं ततः कुर्याद् धिंसापापप्रशान्तये एवं संक्षेपतः प्रोक्तं स्नानाचमनमुत्तमम्
सर्वेषां ब्राह्मणानां तु हितार्थे द्विजसत्तमाः
आवाहयेत्ततो देवीं गायत्रीं वेदमातरम् आयातु वरदा देवीत्य् अनेनैव महेश्वरीम्
पाद्यमाचमनीयं च तस्याश्चार्घ्यं प्रदापयेत् प्राणायामत्रयं कृत्वा समासीनः स्थितो ऽपि वा
सहस्रं वा तदर्धं वा शतमष्टोत्तरं तु वा गायत्रीं प्रणवेनैव त्रिविधेष्वेकमाचरेत्
अर्घ्यं दत्त्वा समभ्यर्च्य प्रणम्य शिरसा स्वयम् उत्तमे शिखरे देवीत्य् उक्त्वोद्वास्य च मातरम्
प्राच्यालोक्याभिवन्द्येशां गायत्रीं वेदमातरम् कृताञ्जलिपुटो भूत्वा प्रार्थयेद्भास्करं तथा
उदुत्यं च तथा चित्रं जातवेदसमेव च अभिवन्द्य पुनः सूर्यं ब्रह्माणं च विधानतः
तथा सौराणि सूक्तानि ऋग्यजुःसामजानि च जप्त्वा प्रदक्षिणं पश्चात् त्रिः कृत्वा च विभावसोः
आत्मानं चान्तरात्मानं परमात्मानमेव च अभिवन्द्य पुनः सूर्यं ब्रह्माणं च विभावसुम्
मुनीन् पितॄन् यथान्यायं स्वनाम्नावाहयेत्ततः सर्वानावाहयामीति देवानावाह्य सर्वतः
तर्पयेद्विधिना पश्चात् प्राङ्मुखो वा ह्युदङ्मुखः ध्यात्वा स्वरूपं तत्तत्त्वम् अभिवन्द्य यथाक्रमम्
देवानां पुष्पतोयेन ऋषीणां तु कुशांभसा पितॄणां तिलतोयेन गन्धयुक्तेन सर्वतः
यज्ञोपवीती देवानां निवीती ऋषितर्पणम् प्राचीनावीती विप्रेन्द्र पितॄणां तर्पयेत् क्रमात्
अङ्गुल्यग्रेण वै धीमांस् तर्पयेद्देवतर्पणम् ऋषीन् कनिष्ठाङ्गुलिना श्रोत्रियः सर्वसिद्धये
पितॄंस्तु तर्पयेद् विद्वान् दक्षिणाङ्गुष्ठकेन तु तथैवं मुनिशार्दूल ब्रह्मयज्ञं यजेद् द्विजः
देवयज्ञं च मानुष्यं भूतयज्ञं तथैव च पितृयज्ञं च पूतात्मा यज्ञकर्मपरायणः
स्वशाखाध्ययनं विप्र ब्रह्मयज्ञ इति स्मृतः अग्नौ जुहोति यच्चान्नं देवयज्ञ इति स्मृतः
सर्वेषामेव भूतानां बलिदानं विधानतः भूतयज्ञ इति प्रोक्तो भूतिदः सर्वदेहिनाम्
सदारान् सर्वतत्त्वज्ञान् ब्राह्मणान् वेदपारगान् प्रणम्य तेभ्यो यद्दत्तम् अन्नं मानुष उच्यते
पितॄन् उद्दिश्य यद्दत्तं पितृयज्ञः स उच्यते एवं पञ्च महायज्ञान् कुर्यात् सर्वार्थसिद्धये
सर्वेषां शृणु यज्ञानां ब्रह्मयज्ञः परः स्मृतः ब्रह्मयज्ञरतो मर्त्यो ब्रह्मलोके महीयते
ब्रह्मयज्ञेन तुष्यन्ति सर्वे देवाः सवासवाः ब्रह्मा च भगवान्विष्णुः शङ्करो नीललोहितः
वेदाश् च पितरः सर्वे नात्र कार्या विचारणा ग्रामाद्बहिर्गतो भूत्वा ब्राह्मणो ब्रह्मयज्ञवित्
यावत् त्वदृष्टम् अभवद् उटजानां छदं नरः प्राच्यामुदीच्यां च तथा प्रागुदीच्यामथापि वा
पुण्यमाचमनं कुर्याद् ब्रह्मयज्ञार्थमेव तत् प्रीत्यर्थं च ऋचां विप्राः त्रिः पीत्वा प्लाव्य प्लाव्य च
यजुषां परिमृज्यैवं द्विः प्रक्षाल्य च वारिणा प्रीत्यर्थं सामवेदानाम् उपस्पृश्य च मूर्धनि
स्पृशेदथर्ववेदानां नेत्रे चाङ्गिरसां तथा नासिके ब्राह्मणो ऽङ्गानां क्षाल्य क्षाल्य च वारिणा