गन्धद्वारां दुराधर्षाम् इति मन्त्रेण मन्त्रवित् कपिलागोमयेनैव खस्थेनैव तु लेपयेत्
पुनः स्नात्वा परित्यज्य तद्वस्त्रं मलिनं ततः शुक्लवस्त्रपरीधानो भूत्वा स्नानं समाचरेत्
सर्वपापविशुद्ध्यर्थम् आवाह्य वरुणं तथा सम्पूज्य मनसा देवं ध्यानयज्ञेन वै भवम्
आचम्य त्रिस्तदा तीर्थे ह्य् अवगाह्य भवं स्मरन् पुनराचम्य विधिवद् अभिमन्त्र्य महाजलम्
अवगाह्य पुनस्तस्मिन् जपेद्वै चाघमर्षणम् तत्तोये भानुसोमाग्निमण्डलं च स्मरेद्वशी
आचम्य च पुनस्तस्माज् जलादुत्तीर्य मन्त्रवित् प्रविश्य तीर्थमध्ये तु पुनः पुण्यविवृद्धये
शृङ्गेण पर्णपुटकैः पालाशैः क्षालितैस् तथा सकुशेन सपुष्पेण जलेनैवाभिषेचयेत्
रुद्रेण पवमानेन त्वरिताख्येन मन्त्रवित् तरत्समन्दीवर्गाद्यैस् तथा शान्तिद्वयेन च
शान्तिधर्मेण चैकेन पञ्चब्रह्मपवित्रकैः तत्तन्मन्त्राधिदेवानां स्वरूपं च ऋषीन् स्मरन्
एवं हि चाभिषिच्याथ स्वमूर्ध्नि पयसा द्विजाः ध्यायेच्च त्र्यम्बकं देवं हृदि पञ्चास्यम् ईश्वरम्
आचम्याचमनं कुर्यात् स्वसूत्रोक्तं समीक्ष्य च पवित्रहस्तः स्वासीनः शुचौ देशे यथाविधि
अभ्युक्ष्य सकुशं चापि दक्षिणेन करेण तु पिबेत्प्रक्षिप्य त्रिस्तोयं चक्री भूत्वा ह्यतन्द्रितः
प्रदक्षिणं ततः कुर्याद् धिंसापापप्रशान्तये एवं संक्षेपतः प्रोक्तं स्नानाचमनमुत्तमम्
सर्वेषां ब्राह्मणानां तु हितार्थे द्विजसत्तमाः
आवाहयेत्ततो देवीं गायत्रीं वेदमातरम् आयातु वरदा देवीत्य् अनेनैव महेश्वरीम्
पाद्यमाचमनीयं च तस्याश्चार्घ्यं प्रदापयेत् प्राणायामत्रयं कृत्वा समासीनः स्थितो ऽपि वा
सहस्रं वा तदर्धं वा शतमष्टोत्तरं तु वा गायत्रीं प्रणवेनैव त्रिविधेष्वेकमाचरेत्
अर्घ्यं दत्त्वा समभ्यर्च्य प्रणम्य शिरसा स्वयम् उत्तमे शिखरे देवीत्य् उक्त्वोद्वास्य च मातरम्
प्राच्यालोक्याभिवन्द्येशां गायत्रीं वेदमातरम् कृताञ्जलिपुटो भूत्वा प्रार्थयेद्भास्करं तथा
उदुत्यं च तथा चित्रं जातवेदसमेव च अभिवन्द्य पुनः सूर्यं ब्रह्माणं च विधानतः
तथा सौराणि सूक्तानि ऋग्यजुःसामजानि च जप्त्वा प्रदक्षिणं पश्चात् त्रिः कृत्वा च विभावसोः
आत्मानं चान्तरात्मानं परमात्मानमेव च अभिवन्द्य पुनः सूर्यं ब्रह्माणं च विभावसुम्
मुनीन् पितॄन् यथान्यायं स्वनाम्नावाहयेत्ततः सर्वानावाहयामीति देवानावाह्य सर्वतः
तर्पयेद्विधिना पश्चात् प्राङ्मुखो वा ह्युदङ्मुखः ध्यात्वा स्वरूपं तत्तत्त्वम् अभिवन्द्य यथाक्रमम्
देवानां पुष्पतोयेन ऋषीणां तु कुशांभसा पितॄणां तिलतोयेन गन्धयुक्तेन सर्वतः
यज्ञोपवीती देवानां निवीती ऋषितर्पणम् प्राचीनावीती विप्रेन्द्र पितॄणां तर्पयेत् क्रमात्
अङ्गुल्यग्रेण वै धीमांस् तर्पयेद्देवतर्पणम् ऋषीन् कनिष्ठाङ्गुलिना श्रोत्रियः सर्वसिद्धये
पितॄंस्तु तर्पयेद् विद्वान् दक्षिणाङ्गुष्ठकेन तु तथैवं मुनिशार्दूल ब्रह्मयज्ञं यजेद् द्विजः
देवयज्ञं च मानुष्यं भूतयज्ञं तथैव च पितृयज्ञं च पूतात्मा यज्ञकर्मपरायणः
स्वशाखाध्ययनं विप्र ब्रह्मयज्ञ इति स्मृतः अग्नौ जुहोति यच्चान्नं देवयज्ञ इति स्मृतः