अथ स्नानविधिं वक्ष्ये ब्राह्मणानां हिताय च सर्वपापहरं साक्षाच् छिवेन कथितं पुरा
अनेन विधिना स्नात्वा सकृत्पूज्य च शङ्करम् ब्रह्मकूर्चं च पीत्वा तु सर्वपापैः प्रमुच्यते
त्रिविधं स्नानमाख्यातं देवदेवेन शंभुना हिताय ब्राह्मणाद्यानां चतुर्मुखसुतोत्तम
वारुणं पुरतः कृत्वा ततश्चाग्नेयमुत्तमम् मन्त्रस्नानं ततः कृत्वा पूजयेत्परमेश्वरम्
भावदुष्टो ऽम्भसि स्नात्वा भस्मना च न शुध्यति भावशुद्धश्चरेच्छौचम् अन्यथा न समाचरेत्
सरित्सरस्तडागेषु सर्वेष्व् आ प्रलयं नरः स्नात्वापि भावदुष्टश्चेन् न शुध्यति न संशयः
नृणां हि चित्तकमलं प्रबुद्धमभवद्यदा प्रसुप्तं तमसा ज्ञानभानोर्भासा तदा शुचिः
मृच्छकृत्तिलपुष्पं च स्नानार्थं भसितं तथा आदाय तीरे निःक्षिप्य स्नानतीर्थे कुशानि च
प्रक्षाल्याचम्य पादौ च मलं देहाद्विशोध्य च द्रव्यैस्तु तीरदेशस्थैस् ततः स्नानं समाचरेत्
उद्धृतासीतिमन्त्रेण पुनर्देहं विशोधयेत् मृदादाय ततश्चान्यद् वस्त्रं स्नात्वा ह्यनुल्बणम्
गन्धद्वारां दुराधर्षाम् इति मन्त्रेण मन्त्रवित् कपिलागोमयेनैव खस्थेनैव तु लेपयेत्
पुनः स्नात्वा परित्यज्य तद्वस्त्रं मलिनं ततः शुक्लवस्त्रपरीधानो भूत्वा स्नानं समाचरेत्
सर्वपापविशुद्ध्यर्थम् आवाह्य वरुणं तथा सम्पूज्य मनसा देवं ध्यानयज्ञेन वै भवम्
आचम्य त्रिस्तदा तीर्थे ह्य् अवगाह्य भवं स्मरन् पुनराचम्य विधिवद् अभिमन्त्र्य महाजलम्
अवगाह्य पुनस्तस्मिन् जपेद्वै चाघमर्षणम् तत्तोये भानुसोमाग्निमण्डलं च स्मरेद्वशी
आचम्य च पुनस्तस्माज् जलादुत्तीर्य मन्त्रवित् प्रविश्य तीर्थमध्ये तु पुनः पुण्यविवृद्धये
शृङ्गेण पर्णपुटकैः पालाशैः क्षालितैस् तथा सकुशेन सपुष्पेण जलेनैवाभिषेचयेत्
रुद्रेण पवमानेन त्वरिताख्येन मन्त्रवित् तरत्समन्दीवर्गाद्यैस् तथा शान्तिद्वयेन च
शान्तिधर्मेण चैकेन पञ्चब्रह्मपवित्रकैः तत्तन्मन्त्राधिदेवानां स्वरूपं च ऋषीन् स्मरन्
एवं हि चाभिषिच्याथ स्वमूर्ध्नि पयसा द्विजाः ध्यायेच्च त्र्यम्बकं देवं हृदि पञ्चास्यम् ईश्वरम्
आचम्याचमनं कुर्यात् स्वसूत्रोक्तं समीक्ष्य च पवित्रहस्तः स्वासीनः शुचौ देशे यथाविधि
अभ्युक्ष्य सकुशं चापि दक्षिणेन करेण तु पिबेत्प्रक्षिप्य त्रिस्तोयं चक्री भूत्वा ह्यतन्द्रितः
प्रदक्षिणं ततः कुर्याद् धिंसापापप्रशान्तये एवं संक्षेपतः प्रोक्तं स्नानाचमनमुत्तमम्
सर्वेषां ब्राह्मणानां तु हितार्थे द्विजसत्तमाः
आवाहयेत्ततो देवीं गायत्रीं वेदमातरम् आयातु वरदा देवीत्य् अनेनैव महेश्वरीम्
पाद्यमाचमनीयं च तस्याश्चार्घ्यं प्रदापयेत् प्राणायामत्रयं कृत्वा समासीनः स्थितो ऽपि वा
सहस्रं वा तदर्धं वा शतमष्टोत्तरं तु वा गायत्रीं प्रणवेनैव त्रिविधेष्वेकमाचरेत्
अर्घ्यं दत्त्वा समभ्यर्च्य प्रणम्य शिरसा स्वयम् उत्तमे शिखरे देवीत्य् उक्त्वोद्वास्य च मातरम्
प्राच्यालोक्याभिवन्द्येशां गायत्रीं वेदमातरम् कृताञ्जलिपुटो भूत्वा प्रार्थयेद्भास्करं तथा
उदुत्यं च तथा चित्रं जातवेदसमेव च अभिवन्द्य पुनः सूर्यं ब्रह्माणं च विधानतः