पूजाप्रकरणं तस्मै तमालोक्याह शङ्करः भवान्नारायणश्चैव शक्रः साक्षात्सुरोत्तमः
मुनयश् च सदा लिङ्गं सम्पूज्य विधिपूर्वकम् स्वंस्वं पदं विभो प्राप्तास् तस्मात् सम्पूजयन्ति ते
लिङ्गार्चनं विना निष्ठा नास्ति तस्माज्जनार्दनः आत्मनो यजते नित्यं श्रद्धया भगवान्प्रभुः
इत्येवमुक्त्वा ब्रह्माणम् अनुगृह्य महेश्वरः पुनः सम्प्रेक्ष्य देवेशं तत्रैवान्तरधीयत
तमुद्दिश्य तदा ब्रह्मा नमस्कृत्य कृताञ्जलिः स्रष्टुं त्वशेषं भगवांल् लब्धसंज्ञस्तु शङ्करात्
कथं पूज्यो महादेवो लिङ्गमूर्तिर्महेश्वरः वक्तुमर्हसि चास्माकं रोमहर्षण सांप्रतम्
देव्या पृष्टो महादेवः कैलासे तां नगात्मजाम् अङ्कस्थामाह देवेशो लिङ्गार्चनविधिं क्रमात्
तदा पार्श्वे स्थितो नन्दी शालङ्कायनकात्मजः श्रुत्वाखिलं पुरा प्राह ब्रह्मपुत्राय सुव्रताः
सनत्कुमाराय शुभं लिङ्गार्चनविधिं परम् तस्माद्व्यासो महातेजाः श्रुतवाञ्छ्रुतिसंमितम्
स्नानयोगोपचारं च यथा शैलादिनो मुखात् श्रुतवान् तत्प्रवक्ष्यामि स्नानाद्यं चार्चनाविधिम्
अथ स्नानविधिं वक्ष्ये ब्राह्मणानां हिताय च सर्वपापहरं साक्षाच् छिवेन कथितं पुरा
अनेन विधिना स्नात्वा सकृत्पूज्य च शङ्करम् ब्रह्मकूर्चं च पीत्वा तु सर्वपापैः प्रमुच्यते
त्रिविधं स्नानमाख्यातं देवदेवेन शंभुना हिताय ब्राह्मणाद्यानां चतुर्मुखसुतोत्तम
वारुणं पुरतः कृत्वा ततश्चाग्नेयमुत्तमम् मन्त्रस्नानं ततः कृत्वा पूजयेत्परमेश्वरम्
भावदुष्टो ऽम्भसि स्नात्वा भस्मना च न शुध्यति भावशुद्धश्चरेच्छौचम् अन्यथा न समाचरेत्
सरित्सरस्तडागेषु सर्वेष्व् आ प्रलयं नरः स्नात्वापि भावदुष्टश्चेन् न शुध्यति न संशयः
नृणां हि चित्तकमलं प्रबुद्धमभवद्यदा प्रसुप्तं तमसा ज्ञानभानोर्भासा तदा शुचिः
मृच्छकृत्तिलपुष्पं च स्नानार्थं भसितं तथा आदाय तीरे निःक्षिप्य स्नानतीर्थे कुशानि च
प्रक्षाल्याचम्य पादौ च मलं देहाद्विशोध्य च द्रव्यैस्तु तीरदेशस्थैस् ततः स्नानं समाचरेत्
उद्धृतासीतिमन्त्रेण पुनर्देहं विशोधयेत् मृदादाय ततश्चान्यद् वस्त्रं स्नात्वा ह्यनुल्बणम्
गन्धद्वारां दुराधर्षाम् इति मन्त्रेण मन्त्रवित् कपिलागोमयेनैव खस्थेनैव तु लेपयेत्
पुनः स्नात्वा परित्यज्य तद्वस्त्रं मलिनं ततः शुक्लवस्त्रपरीधानो भूत्वा स्नानं समाचरेत्
सर्वपापविशुद्ध्यर्थम् आवाह्य वरुणं तथा सम्पूज्य मनसा देवं ध्यानयज्ञेन वै भवम्
आचम्य त्रिस्तदा तीर्थे ह्य् अवगाह्य भवं स्मरन् पुनराचम्य विधिवद् अभिमन्त्र्य महाजलम्
अवगाह्य पुनस्तस्मिन् जपेद्वै चाघमर्षणम् तत्तोये भानुसोमाग्निमण्डलं च स्मरेद्वशी
आचम्य च पुनस्तस्माज् जलादुत्तीर्य मन्त्रवित् प्रविश्य तीर्थमध्ये तु पुनः पुण्यविवृद्धये
शृङ्गेण पर्णपुटकैः पालाशैः क्षालितैस् तथा सकुशेन सपुष्पेण जलेनैवाभिषेचयेत्
रुद्रेण पवमानेन त्वरिताख्येन मन्त्रवित् तरत्समन्दीवर्गाद्यैस् तथा शान्तिद्वयेन च
शान्तिधर्मेण चैकेन पञ्चब्रह्मपवित्रकैः तत्तन्मन्त्राधिदेवानां स्वरूपं च ऋषीन् स्मरन्
एवं हि चाभिषिच्याथ स्वमूर्ध्नि पयसा द्विजाः ध्यायेच्च त्र्यम्बकं देवं हृदि पञ्चास्यम् ईश्वरम्