तत्रापि मम ते पुत्रा भविष्यन्ति तपोधनाः छगलः कुण्डकर्णश् च कुभाण्डश् च प्रवाहकः
प्राप्य माहेश्वरं योगम् अमृतत्वाय ते गताः षड्विंशे परिवर्ते तु यदा व्यासः पराशरः
तदाप्यहं भविष्यामि सहिष्णुर्नाम नामतः पुरं भद्रवटं प्राप्य कलौ तस्मिन् युगान्तिके
तत्रापि मम ते पुत्रा भविष्यन्ति सुधार्मिकाः उलूको विद्युतश्चैव शंबूको ह्याश्वलायनः
प्राप्य माहेश्वरं योगं रुद्रलोकाय ते गताः सप्तविंशे पुनः प्राप्ते परिवर्ते क्रमागते
जातूकर्ण्यो यदा व्यासो भविष्यति तपोधनः तदाप्यहं भविष्यामि सोमशर्मा द्विजोत्तमः
प्रभासतीर्थमासाद्य योगात्मा योगविश्रुतः तत्रापि मम ते शिष्या भविष्यन्ति तपोधनाः
अक्षपादः कुमारश् च उलूको वत्स एव च योगात्मानो महात्मानो विमलाः शुद्धबुद्धयः
प्राप्य माहेश्वरं योगं रुद्रलोकं ततो गताः अष्टाविंशे पुनः प्राप्ते परिवर्ते क्रमागते
पराशरसुतः श्रीमान् विष्णुर्लोकपितामहः यदा भविष्यति व्यासो नाम्ना द्वैपायनः प्रभुः
तदा षष्ठेन चांशेन कृष्णः पुरुषसत्तमः वसुदेवाद्यदुश्रेष्ठो वासुदेवो भविष्यति
तदाप्यहं भविष्यामि योगात्मा योगमायया लोकविस्मयनार्थाय ब्रह्मचारिशरीरकः
श्मशाने मृतम् उत्सृष्टं दृष्ट्वा कायम् अनाथकम् ब्राह्मणानां हितार्थाय प्रविष्टो योगमायया
दिव्यां मेरुगुहां पुण्यां त्वया सार्धं च विष्णुना भविष्यामि तदा ब्रह्मंल् लकुली नाम नामतः
कायावतार इत्येवं सिद्धक्षेत्रं च वै तदा भविष्यति सुविख्यातं यावद् भूमिर् धरिष्यति
तत्रापि मम ते पुत्रा भविष्यन्ति तपस्विनः कुशिकश् चैव गर्गश् च मित्रः कौरुष्य एव च
योगात्मानो महात्मानो ब्राह्मणा वेदपारगाः प्राप्य माहेश्वरं योगं विमला ह्यूर्ध्वरेतसः
रुद्रलोकं गमिष्यन्ति पुनरावृत्तिदुर्लभम् एते पाशुपताः सिद्धा भस्मोद्धूलितविग्रहाः
लिङ्गार्चनरता नित्यं बाह्याभ्यन्तरतः स्थिताः भक्त्या मयि च योगेन ध्याननिष्ठा जितेन्द्रियाः
संसारबन्धच्छेदार्थं ज्ञानमार्गप्रकाशकम् स्वरूपज्ञानसिद्ध्यर्थं योगं पाशुपतं महत्
योगमार्गा अनेकाश् च ज्ञानमार्गास् त्व् अनेकशः न निवृत्तिमुपायान्ति विना पञ्चाक्षरीं क्वचित्
यदाचरेत्तपश्चायं सर्वद्वन्द्वविवर्जितम् तदा स मुक्तो मन्तव्यः पक्वं फलमिव स्थितः
एकाहं यः पुमान्सम्यक् चरेत्पाशुपतव्रतम् न सांख्ये पञ्चरात्रे वा न प्राप्नोति गतिं कदा
इत्येतद्वै मया प्रोक्तम् अवतारेषु लक्षणम् मन्वादिकृष्णपर्यन्तम् अष्टाविंशद् युगक्रमात्
तत्र श्रुतिसमूहानां विभागो धर्मलक्षणः भविष्यति तदा कल्पे कृष्णद्वैपायनो यदा
निशम्यैवं महातेजा महादेवेन कीर्तितम् रुद्रावतारं भगवान् प्रणिपत्य महेश्वरम्
तुष्टाव वाग्भिर् इष्टाभिः पुनः प्राह च शङ्करम् सर्वे विष्णुमया देवाः सर्वे विष्णुमया गणाः
न हि विष्णुसमा काचिद् गतिरन्या विधीयते इत्येवं सततं वेदा गायन्ति नात्र संशयः
स देवदेवो भगवांस् तव लिङ्गार्चने रतः तव प्रणामपरमः कथं देवो ह्यभूत्प्रभुः
निशम्य वचनं तस्य ब्रह्मणः परमेष्ठिनः प्रपिबन्निव चक्षुर्भ्यां प्रीतस्तत्प्रश्नगौरवात्