तदा ऋतञ्जयो नाम व्यासस्तु भविता मुनिः तदाप्यहं भविष्यामि शिखण्डी नाम नामतः
सिद्धक्षेत्रे महापुण्ये देवदानवपूजिते हिमवच्छिखरे रम्ये शिखण्डी नाम पर्वतः
शिखण्डिनो वनं चापि यत्र सिद्धनिषेवितम् तत्रापि मम ते पुत्रा भविष्यन्ति तपोधनाः
वाचश्रवा ऋचीकश् च श्यावाश्वश् च यतीश्वरः योगात्मानो महात्मानः सर्वे ते वेदपारगाः
प्राप्य माहेश्वरं योगं रुद्रलोकाय संवृताः अथ एकोनविंशे तु परिवर्ते क्रमागते
व्यासस्तु भविता नाम्ना भरद्वाजो महामुनिः तदाप्यहं भविष्यामि जटामाली च नामतः
हिमवच्छिखरे रम्ये जटायुर्यत्र पर्वतः तत्रापि मम ते पुत्रा भविष्यन्ति महौजसः
हिरण्यनाभः कौशल्यो लोकाक्षी कुथुमिस् तथा ईश्वरा योगधर्माणः सर्वे ते ह्यूर्ध्वरेतसः
प्राप्य माहेश्वरं योगं रुद्रलोकाय संस्थिताः ततो विंशतिमश्चैव परिवर्तो यदा तदा
गौतमस्तु तदा व्यासो भविष्यति महामुनिः तदाप्यहं भविष्यामि अट्टहासस्तु नामतः
अट्टहासप्रियाश्चैव भविष्यन्ति तदा नराः तत्रैव हिमवत्पृष्ठे अट्टहासो महागिरिः
देवदानवयक्षेन्द्रसिद्धचारणसेवितः तत्रापि मम ते पुत्रा भविष्यन्ति महौजसः
योगात्मानो महात्मानो ध्यायिनो नियतव्रताः सुमन्तुर्बर्बरी विद्वान् कबन्धः कुशिकंधरः
प्राप्य माहेश्वरं योगं रुद्रलोकाय ते गताः एकविंशे पुनः प्राप्ते परिवर्ते क्रमागते
वाचश्रवाः स्मृतो व्यासो यदा स ऋषिसत्तमः तदाप्यहं भविष्यामि दारुको नाम नामतः
तस्माद्भविष्यते पुण्यं देवदारुवनं शुभम् तत्रापि मम ते पुत्रा भविष्यन्ति महौजसः
प्लक्षो दार्भायणिश्चैव केतुमान् गौतमस् तथा योगात्मानो महात्मानो नियता ऊर्ध्वरेतसः
नैष्ठिकं व्रतमास्थाय रुद्रलोकाय ते गताः द्वाविंशे परिवर्ते तु व्यासः शुष्मायणो यदा
तदाप्यहं भविष्यामि वाराणस्यां महामुनिः नाम्ना वै लाङ्गली भीमो यत्र देवाः सवासवाः
द्रक्ष्यन्ति मां कलौ तस्मिन् भवं चैव हलायुधम् तत्रापि मम ते पुत्रा भविष्यन्ति सुधार्मिकाः
भल्लवी मधुपिङ्गश् च श्वेतकेतुः कुशस् तथा प्राप्य माहेश्वरं योगं ते ऽपि ध्यानपरायणाः
विमला ब्रह्मभूयिष्ठा रुद्रलोकाय संस्थिताः परिवर्ते त्रयोविंशे तृणबिन्दुर्यदा मुनिः
व्यासो हि भविता ब्रह्मंस् तदाहं भविता पुनः श्वेतो नाम महाकायो मुनिपुत्रस्तु धार्मिकः
तत्र कालं जरिष्यामि तदा गिरिवरोत्तमे तेन कालञ्जरो नाम भविष्यति स पर्वतः
तत्रापि मम ते शिष्या भविष्यन्ति तपस्विनः उशिको बृहदश्वश् च देवलः कविरेव च
प्राप्य माहेश्वरं योगं रुद्रलोकाय ते गतः परिवर्ते चतुर्विंशे व्यास ऋक्षो यदा विभो
तदाप्यहं भविष्यामि कलौ तस्मिन् युगान्तिके शूली नाम महायोगी नैमिषे देववन्दिते
तत्रापि मम ते शिष्या भविष्यन्ति तपोधनाः शालिहोत्रो ऽग्निवेशश् च युवनाश्वः शरद्वसुः
ते ऽपि तेनैव मार्गेण रुद्रलोकाय संस्थिताः पञ्चविंशे पुनः प्राप्ते परिवर्ते क्रमागते
वासिष्ठस्तु यदा व्यासः शक्तिर्नाम्ना भविष्यति तदाप्यहं भविष्यामि दण्डी मुण्डीश्वरः प्रभुः