तदाप्यहं भविष्यामि कलाविह युगान्तिके हैतुकं वनमासाद्य अत्रिर्नाम्ना परिश्रुतः
तत्रापि मम ते पुत्रा भस्मस्नानानुलेपनाः भविष्यन्ति महायोगा रुद्रलोकपरायणाः
सर्वज्ञः समबुद्धिश् च साध्यः सर्वस्तथैव च प्राप्य माहेश्वरं योगं रुद्रलोकं गता हि ते
त्रयोदशे पुनः प्राप्ते परिवर्ते क्रमेण तु धर्मो नारायणो नाम व्यासस्तु भविता यदा
तदाप्यहं भविष्यामि वालिर्नाम महामुनिः वालखिल्याश्रमे पुण्ये पर्वते गन्धमादने
तत्रापि मम ते पुत्रा भविष्यन्ति तपोधनाः सुधामा काश्यपश्चैव वासिष्ठो विरजास्तथा
महायोगबलोपेता विमला ऊर्ध्वरेतसः प्राप्य माहेश्वरं योगं रुद्रलोकं गता हि ते
यदा व्यासस्तरक्षुस्तु पर्याये तु चतुर्दशे तत्रापि पुनरेवाहं भविष्यामि युगान्तिके
वंशे त्वङ्गिरसां श्रेष्ठे गौतमो नाम नामतः भविष्यति महापुण्यं गौतमं नाम तद्वनम्
तत्रापि मम ते पुत्रा भविष्यन्ति कलौ तदा अत्रिर्देवसदश्चैव श्रवणो ऽथ श्रविष्ठकः
योगात्मानो महात्मानः सर्वे योगसमन्विताः प्राप्य माहेश्वरं योगं रुद्रलोकाय ते गताः
ततः पञ्चदशे प्राप्ते परिवर्ते क्रमागते त्रैय्यारुणिर्यदा व्यासो द्वापरे समपद्यत
तदाप्यहं भविष्यामि नाम्ना वेदशिरा द्विजः तत्र वेदशिरो नाम अस्त्रं तत्पारमेश्वरम्
भविष्यति महावीर्यं वेदशीर्षश् च पर्वतः हिमवत्पृष्ठमासाद्य सरस्वत्यां नगोत्तमे
तत्रापि मम ते पुत्रा भविष्यन्ति तपोधनाः कुणिश् च कुणिबाहुश् च कुशरीरः कुनेत्रकः
योगात्मानो महात्मानः सर्वे ते ह्यूर्ध्वरेतसः प्राप्य माहेश्वरं योगं रुद्रलोकाय ते गताः
व्यासो युगे षोडशे तु यदा देवो भविष्यति तत्र योगप्रदानाय भक्तानां च यतात्मनाम्
तदाप्यहं भविष्यामि गोकर्णो नाम नामतः भविष्यति सुपुण्यं च गोकर्णं नाम तद्वनम्
तत्रापि मम ते पुत्रा भविष्यन्ति च योगिनः काश्यपो ह्युशनाश्चैव च्यवनो ऽथ बृहस्पतिः
ते ऽपि तेनैव मार्गेण ध्यानयोगसमन्विताः प्राप्य माहेश्वरं योगं गन्तारो रुद्रमेव हि
ततः सप्तदशे चैव परिवर्ते क्रमागते यदा भविष्यति व्यासो नाम्ना देवकृतञ्जयः
तदाप्यहं भविष्यामि गुहावासीति नामतः हिमवच्छिखरे रम्ये महोत्तुङ्गे महालये
सिद्धक्षेत्रं महापुण्यं भविष्यति महालयम् तत्रापि मम ते पुत्रा योगज्ञा ब्रह्मवादिनः
भविष्यन्ति महात्मानो निर्ममा निरहंकृताः उतथ्यो वामदेवश् च महायोगो महाबलः
तेषां शतसहस्रं तु शिष्याणां ध्यानयोगिनाम् भविष्यन्ति तदा काले सर्वे ते ध्यानयुञ्जकाः
योगाभ्यासरताश्चैव हृदि कृत्वा महेश्वरम् महालये पदं न्यस्तं दृष्ट्वा यान्ति शिवं पदम्
ये चान्ये ऽपि महात्मानः कलौ तस्मिन् युगान्तिके ध्याने मनः समाधाय विमलाः शुद्धबुद्धयः
मम प्रसादाद्यास्यन्ति रुद्रलोकं गतज्वराः गत्वा महालयं पुण्यं दृष्ट्वा माहेश्वरं पदम्
तीर्णस्तारयते जन्तुर् दश पूर्वान्दशोत्तरान् आत्मानमेकविंशं तु तारयित्वा महालये
मम प्रसादाद्यास्यन्ति रुद्रलोकं गतज्वराः ततो ऽष्टादशमे चैव परिवर्ते यदा विभो