स्मयन्प्राह महादेव ऋग्यजुःसामसंभवः तपसा नैव वृत्तेन दानधर्मफलेन च
न तीर्थफलयोगेन क्रतुभिर् वाप्तदक्षिणैः न वेदाध्ययनैर्वापि न वित्तेन न वेदनैः
न शक्यं मानवैर्द्रष्टुम् ऋते ध्यानादहं त्विह सप्तमे चैव वाराहे ततस्तस्मिन्पितामह
कल्पेश्वरो ऽथ भगवान् सर्वलोकप्रकाशनः मनुर्वैवस्वतश्चैव तव पौत्रो भविष्यति
तदा चतुर्युगावस्थे तस्मिन्कल्पे युगान्तिके अनुग्रहार्थं लोकानां ब्राह्मणानां हिताय च
उत्पत्स्यामि तदा ब्रह्मन् पुनर् अस्मिन् युगान्तिके युगप्रवृत्त्या च तदा तस्मिंश् च प्रथमे युगे
द्वापरे प्रथमे ब्रह्मन् यदा व्यासः स्वयं प्रभुः तदाहं ब्राह्मणार्थाय कलौ तस्मिन् युगान्तिके
भविष्यामि शिखायुक्तः श्वेतो नाम महामुनिः हिमवच्छिखरे रम्ये छागले पर्वतोत्तमे
तत्र शिष्याः शिखायुक्ता भविष्यन्ति तदा मम श्वेतः श्वेतशिखश्चैव श्वेतास्यः श्वेतलोहितः
चत्वारस्तु महात्मानो ब्राह्मणा वेदपारगाः ततस्ते ब्रह्मभूयिष्ठा दृष्ट्वा ब्रह्मगतिं पराम्
मत्समीपं गमिष्यन्ति ध्यानयोगपरायणाः ततः पुनर्यदा ब्रह्मन् द्वितीये द्वापरे प्रभुः
प्रजापतिर्यदा व्यासः सद्यो नाम भविष्यति तदा लोकहितार्थाय सुतारो नाम नामतः
भविष्यामि कलौ तस्मिन् शिष्यानुग्रहकाम्यया तत्रापि मम ते शिष्या नामतः परिकीर्तिताः
दुन्दुभिः शतरूपश् च ऋचीकः केतुमांस्तदा प्राप्य योगं तथा ध्यानं स्थाप्य ब्रह्म च भूतले
रुद्रलोकं गमिष्यन्ति सहचारित्वमेव च तृतीये द्वापरे चैव यदा व्यासस्तु भार्गवः
तदाप्यहं भविष्यामि दमनस्तु युगान्तिके तत्रापि च भविष्यन्ति चत्वारो मम पुत्रकाः
विकोशश् च विकेशश् च विपाशः शापनाशनः ते ऽपि तेनैव मार्गेण योगोक्तेन महौजसः
रुद्रलोकं गमिष्यन्ति पुनरावृत्तिदुर्लभम् चतुर्थे द्वापरे चैव यदा व्यासो ऽङ्गिराः स्मृतः
तदाप्यहं भविष्यामि सुहोत्रो नाम नामतः तत्रापि मम ते पुत्राश् चत्वारो ऽपि तपोधनाः
द्विजश्रेष्ठा भविष्यन्ति योगात्मानो दृढव्रताः सुमुखो दुर्मुखश्चैव दुर्दरो दुरतिक्रमः
प्राप्य योगगतिं सूक्ष्मां विमला दग्धकिल्बिषाः ते ऽपि तेनैव मार्गेण योगयुक्ता महौजसः
रुद्रलोकं गमिष्यन्ति पुनरावृत्तिदुर्लभम् पञ्चमे द्वापरे चैव व्यासस्तु सविता यदा
तदा चापि भविष्यामि कङ्को नाम महातपाः अनुग्रहार्थं लोकानां योगात्मैककलागतिः
चत्वारस्तु महाभागा विमलाः शुद्धयोनयः शिष्या मम भविष्यन्ति योगात्मानो दृढव्रताः
सनकः सनन्दनश् चैव प्रभुर्यश् च सनातनः विभुः सनत्कुमारश् च निर्ममा निरहंकृताः
मत्समीपमुपेष्यन्ति पुनरावृत्तिदुर्लभम् परीवर्ते पुनः षष्ठे मृत्युर्व्यासो यदा विभुः
तदाप्यहं भविष्यामि लोगाक्षीर् नाम नामतः तत्रापि मम ते शिष्या योगात्मानो दृढव्रताः
भविष्यन्ति महाभागाश् चत्वारो लोकसंमताः सुधामा विरजाश्चैव शङ्खपाद्रज एव च
योगात्मानो महात्मानः सर्वे वै दग्धकिल्बिषाः ते ऽपि तेनैव मार्गेण ध्यानयोगसमन्विताः
मत्समीपं गमिष्यन्ति पुनरावृत्तिदुर्लभम् सप्तमे परिवर्ते तु यदा व्यासः शतक्रतुः