मत्समीपं गमिष्यन्ति पुनरावृत्तिदुर्लभम् यदा चैव पुनस्त्वासील् लोहितो नाम नामतः
मत्कृतेन च वर्णेन कल्पो वै लोहितः स्मृतः तदा लोहितमांसास्थिलोहितक्षीरसंभवा
लोहिताक्षी स्तनवती गायत्री गौः प्रकीर्तिता ततो ऽस्या लोहितत्वेन वर्णस्य च विपर्ययात्
वामत्वाच्चैव देवस्य वामदेवत्वमागतः तत्रापि च महासत्त्व त्वयाहं नियतात्मना
विज्ञातः स्वेन योगेन तस्मिन्वर्णान्तरे स्थितः ततश् च वामदेवेति ख्यातिं यातो ऽस्मि भूतले
ये चापि वामदेव त्वां ज्ञास्यन्तीह द्विजातयः रुद्रलोकं गमिष्यन्ति पुनरावृत्तिदुर्लभम्
यदाहं पुनरेवेह पीतवर्णो युगक्रमात् मत्कृतेन च नाम्ना वै पीतकल्पो ऽभवत्तदा
मत्प्रसूता च देवेशी पीताङ्गी पीतलोहिता पीतवर्णा तदा ह्यासीद् गायत्री ब्रह्मसंज्ञिता
तत्रापि च महासत्त्व योगयुक्तेन चेतसा यस्मादहं तैर्विज्ञातो योगतत्परमानसैः
तत्र तत्पुरुषत्वेन विज्ञातो ऽहं त्वया पुनः तस्मात्तत्पुरुषत्वं वै ममैतत्कनकाण्डज
ये मां रुद्रं च रुद्राणीं गायत्रीं वेदमातरम् वेत्स्यन्ति तपसा युक्ता विमला ब्रह्मसंगताः
रुद्रलोकं गमिष्यन्ति पुनरावृत्तिदुर्लभम् यदाहं पुनरेवासं कृष्णवर्णो भयानकः
मत्कृतेन च वर्णेन संकल्पः कृष्ण उच्यते तत्राहं कालसंकाशः कालो लोकप्रकालकः
विज्ञातो ऽहं त्वया ब्रह्मन् घोरो घोरपराक्रमः मत्प्रसूता च गायत्री कृष्णाङ्गी कृष्णलोहिता
कृष्णरूपा च देवेश तदासीद्ब्रह्मसंज्ञिता तस्माद् घोरत्वमापन्नं ये मां वेत्स्यन्ति भूतले
तेषामघोरः शान्तश् च भविष्याम्यहमव्ययः पुनश् च विश्वरूपत्वं यदा ब्रह्मन्ममाभवत्
तदाप्यहं त्वया ज्ञातः परमेण समाधिना विश्वरूपा च संवृत्ता गायत्री लोकधारिणी
तस्मिन् विश्वत्वम् आपन्नं ये मां वेत्स्यन्ति भूतले तेषां शिवश् च सौम्यश् च भविष्यामि सदैव हि
यस्माच्च विश्वरूपो वै कल्पो ऽयं समुदाहृतः विश्वरूपा तथा चेयं सावित्री समुदाहृता
सर्वरूपा तथा चेमे संवृत्ता मम पुत्रकाः चत्वारस्ते मया ख्याताः पुत्र वै लोकसंमताः
यस्माच्च सर्ववर्णत्वं प्रजानां च भविष्यति सर्वभक्षा च मेध्या च वर्णतश् च भविष्यति
मोक्षो धर्मस्तथार्थश् च कामश्चेति चतुष्टयम् यस्माद्वेदाश् च वेद्यं च चतुर्धा वै भविष्यति
भूतग्रामाश् च चत्वार आश्रमाश् च तथैव च धर्मस्य पादाश्चत्वारश् चत्वारो मम पुत्रकाः
तस्माच्चतुर्युगावस्थं जगद्वै सचराचरम् चतुर्धावस्थितश्चैव चतुष्पादो भविष्यति
भूर्लोको ऽथ भुवर्लोकः स्वर्लोकश् च महस् तथा जनस्तपश् च सत्यं च विष्णुलोकस्ततः परम्
अष्टाक्षरस्थितो लोकः स्थाने स्थाने तदक्षरम् भूर्भुवः स्वर्महश्चैव पादाश्चत्वार एव च
भूर्लोकः प्रथमः पादो भुवर्लोकस्ततः परम् स्वर्लोको वै तृतीयश् च चतुर्थस्तु महस् तथा
पञ्चमस्तु जनस्तत्र षष्ठश् च तप उच्यते सत्यं तु सप्तमो लोको ह्य् अपुनर्भवगामिनाम्
विष्णुलोकः स्मृतं स्थानं पुनरावृत्तिदुर्लभम् स्कान्दमौमं तथा स्थानं सर्वसिद्धिसमन्वितम्
रुद्रलोकः स्मृतस्तस्मात् पदं तद्योगिनां शुभम् निर्ममा निरहङ्काराः कामक्रोधविवर्जिताः