तावूचतुर्महात्मानौ संनिरीक्ष्य परस्परम् भगवान् किं तु यत्ते ऽद्य न विज्ञानं त्वया विभो
विभो रुद्र महामाय इच्छया वां कृतौ त्वया तयोस्तद्वचनं श्रुत्वा अभिनन्द्याभिमान्य च
उवाच भगवान्देवो मधुरं श्लक्ष्णया गिरा भो भो हिरण्यगर्भ त्वां त्वां च कृष्ण ब्रवीम्यहम्
प्रीतो ऽहमनया भक्त्या शाश्वताक्षरयुक्तया भवन्तौ हृदयस्यास्य मम हृद्यतरावुभौ
युवाभ्यां किं ददाम्यद्य वराणां वरमीप्सितम् अथोवाच महाभागो विष्णुर्भवमिदं वचः
सर्वं मम कृतं देव परितुष्टो ऽसि मे यदि त्वयि मे सुप्रतिष्ठा तु भक्तिर्भवतु शङ्करः
एवमुक्तस्तु विज्ञाय संभावयत केशवम् प्रददौ च महादेवो भक्तिं निजपदांबुजे
भवान्सर्वस्य लोकस्य कर्ता त्वमधिदैवतम् तदेवं स्वस्ति ते वत्स गमिष्याम्यंबुजेक्षण
एवमुक्त्वा तु भगवान् ब्रह्माणं चापि शङ्करः अनुगृह्यास्पृशद्देवो ब्रह्माणं परमेश्वरः
कराभ्यां सुशुभाभ्यां च प्राह हृष्टतरः स्वयम् मत्समस्त्वं न संदेहो वत्स भक्तश् च मे भवान्
स्वस्त्यस्तु ते गमिष्यामि संज्ञा भवतु सुव्रत एवमुक्त्वा तु भगवांस् ततो ऽन्तर्धानमीश्वरः
गतवान् गणपो देवः सर्वदेवनमस्कृतः अवाप्य संज्ञां गोविन्दात् पद्मयोनिः पितामहः
प्रजाः स्रष्टुमनाश्चक्रे तप उग्रं पितामहः तस्यैवं तप्यमानस्य न किंचित् समवर्तत
ततो दीर्घेण कालेन दुःखात्क्रोधो ह्यजायत क्रोधाविष्टस्य नेत्राभ्यां प्रापतन्नश्रुबिन्दवः
ततस्तेभ्यो ऽश्रुबिन्दुभ्यो वातपित्तकफात्मकाः महाभागा महासत्त्वाः स्वस्तिकैरप्यलंकृताः
प्रकीर्णकेशाः सर्पास्ते प्रादुर्भूता महाविषाः सर्पांस्तानग्रजान्दृष्ट्वा ब्रह्मात्मानम् अनिन्दयत्
अहो धिक् तपसो मह्यं फलमीदृशकं यदि लोकवैनाशिकी जज्ञे आदावेव प्रजा मम
तस्य तीव्राभवन्मूर्च्छा क्रोधामर्षसमुद्भवा मूर्च्छाभिपरितापेन जहौ प्राणान्प्रजापतिः
तस्याप्रतिमवीर्यस्य देहात्कारुण्यपूर्वकम् अथैकादश ते रुद्रा रुदन्तो ऽभ्यक्रमंस् तथा
रोदनात्खलु रुद्रत्वं तेषु वै समजायत ये रुद्रास्ते खलु प्राणा ये प्राणास्ते तदात्मकाः
प्राणाः प्राणवतां ज्ञेयाः सर्वभूतेष्ववस्थिताः अत्युग्रस्य महत्त्वस्य साधुराचरितस्य च
प्राणांस्तस्य ददौ भूयस् त्रिशूली नीललोहितः लब्ध्वासून् भगवान्ब्रह्म देवदेवमुमापतिम्
प्रणम्य संस्थितो ऽपश्यद् गायत्र्या विश्वमीश्वरम् सर्वलोकमयं देवं दृष्ट्वा स्तुत्वा पितामहः
ततो विस्मयमापन्नः प्रणिपत्य मुहुर्मुहुः उवाच वचनं शर्वं सद्यादित्वं कथं विभो
तस्य तद्वचनं श्रुत्वा ब्रह्मणो भगवान् भवः ब्रह्मरूपी प्रबोधार्थं ब्रह्माणं प्राह सस्मितम्
श्वेतकल्पो यदा ह्यासीद् अहमेव तदाभवम् श्वेतोष्णीषः श्वेतमाल्यः श्वेतांबरधरः सितः
श्वेतास्थिः श्वेतरोमा च श्वेतासृक् श्वेतलोहितः तेन नाम्ना च विख्यातः श्वेतकल्पस्तदा ह्यसौ
मत्प्रसूता च देवेशी श्वेताङ्गा श्वेतलोहिता श्वेतवर्णा तदा ह्यासीद् गायत्री ब्रह्मसंज्ञिता
तस्मादहं च देवेश त्वया गुह्येन वै पुनः विज्ञातः स्वेन तपसा सद्योजातत्वमागतः
सद्योजातेति ब्रह्मैतद् गुह्यं चैतत्प्रकीर्तितम् तस्माद्गुह्यत्वमापन्नं ये वेत्स्यन्ति द्विजातयः