दीप्तिः सूर्ये वपुश्चन्द्रे स्थैर्यं शैले ऽनिले बलम् औष्ण्यमग्नौ तथा शैत्यम् अप्सु शब्दो ऽम्बरे तथा
अक्षरान्तरनिष्पन्दाद् गुणानेतान्विदुर्बुधाः जपो जप्यो महादेवो महायोगोमहेश्वरः
पुरेशयो गुहावासी खेचरो रजनीचरः तपोनिधिर्गुहगुरुर् नन्दनो नन्दवर्धनः
हयशीर्षा पयोधाता विधाता भूतभावनः बोद्धव्यो बोधिता नेता दुर्धर्षो दुष्प्रकम्पनः
बृहद्रथो भीमकर्मा बृहत्कीर्तिर् धनञ्जयः घण्टाप्रियो ध्वजी छत्त्री पिनाकी ध्वजिनीपतिः
कवची पट्टिशी खड्गी धनुर्हस्तः परश्वधी अघस्मरो ऽनघः शूरो देवराजो ऽरिमर्दनः
त्वां प्रसाद्य पुरास्माभिर् द्विषन्तो निहता युधि अग्निः सदार्णवांभस्त्वं पिबन्नपि न तृप्यसे
क्रोधाकारः प्रसन्नात्मा कामदः कामगः प्रियः ब्रह्मचारि चागाधश् च ब्रह्मण्यः शिष्टपूजितः
देवानाम् अक्षयः कोशस् त्वया यज्ञः प्रकल्पितः हव्यं तवेदं वहति वेदोक्तं हव्यवाहनः प्रीते त्वयि महादेव वयं प्रीता भवामहे
भवानीशो ऽनादिमांस्त्वं च सर्वलोकानां त्वं ब्रह्मकर्तादिसर्गः सांख्याः प्रकृतेः परमं त्वां विदित्वा क्षीणध्यानास्त्वाममृत्युं विशन्ति
योगाश् च त्वां ध्यायिनो नित्यसिद्धं ज्ञात्वा योगान् संत्यजन्ते पुनस्तान् ये चाप्यन्ये त्वां प्रसन्ना विशुद्धाः स्वकर्मभिस्ते दिव्यभोगा भवन्ति
अप्रसंख्येयतत्त्वस्य यथा विद्मः स्वशक्तितः कीर्तितं तव माहात्म्यम् अपारस्य महात्मनः
शिवो नो भव सर्वत्र यो ऽसि सो ऽसि नमो ऽस्तु ते य इदं कीर्तयेद्भक्त्या ब्रह्मनारायणस्तवम्
श्रावयेद्वा द्विजान् विद्वान् शृणुयाद्वा समाहितः अश्वमेधायुतं कृत्वा यत्फलं तदवाप्नुयात्
पापाचारो ऽपि यो मर्त्यः शृणुयाच्छिवसन्निधौ जपेद्वापि विनिर्मुक्तो ब्रह्मलोकं स गच्छति
श्राद्धे वा दैविके कार्ये यज्ञे वावभृथान्तिके कीर्तयेद्वा सतां मध्ये स याति ब्रह्मणो ऽन्तिकम्
अत्यन्तावनतौ दृष्ट्वा मधुपिङ्गायतेक्षणः प्रहृष्टवदनो ऽत्यर्थम् अभवत्सत्यकीर्तनात्
उमापतिर्विरूपाक्षो दक्षयज्ञविनाशनः पिनाकी खण्डपरशुः सुप्रीतस्तु त्रिलोचनः
ततः स भगवान्देवः श्रुत्वा वागमृतं तयोः जानन्नपि महादेवः क्रीडापूर्वमथाब्रवीत्
कौ भवन्तौ महात्मानौ परस्परहितैषिणौ समेतावंबुजाभक्षाव् अस्मिन् घोरे महाप्लवे
तावूचतुर्महात्मानौ संनिरीक्ष्य परस्परम् भगवान् किं तु यत्ते ऽद्य न विज्ञानं त्वया विभो
विभो रुद्र महामाय इच्छया वां कृतौ त्वया तयोस्तद्वचनं श्रुत्वा अभिनन्द्याभिमान्य च
उवाच भगवान्देवो मधुरं श्लक्ष्णया गिरा भो भो हिरण्यगर्भ त्वां त्वां च कृष्ण ब्रवीम्यहम्
प्रीतो ऽहमनया भक्त्या शाश्वताक्षरयुक्तया भवन्तौ हृदयस्यास्य मम हृद्यतरावुभौ
युवाभ्यां किं ददाम्यद्य वराणां वरमीप्सितम् अथोवाच महाभागो विष्णुर्भवमिदं वचः
सर्वं मम कृतं देव परितुष्टो ऽसि मे यदि त्वयि मे सुप्रतिष्ठा तु भक्तिर्भवतु शङ्करः
एवमुक्तस्तु विज्ञाय संभावयत केशवम् प्रददौ च महादेवो भक्तिं निजपदांबुजे
भवान्सर्वस्य लोकस्य कर्ता त्वमधिदैवतम् तदेवं स्वस्ति ते वत्स गमिष्याम्यंबुजेक्षण
एवमुक्त्वा तु भगवान् ब्रह्माणं चापि शङ्करः अनुगृह्यास्पृशद्देवो ब्रह्माणं परमेश्वरः
कराभ्यां सुशुभाभ्यां च प्राह हृष्टतरः स्वयम् मत्समस्त्वं न संदेहो वत्स भक्तश् च मे भवान्