नर्दते कूर्दते चैव नमः प्रमुदितात्मने नमो मृडाय श्वसते धावते ऽधिष्ठिते नमः
ध्यायते जृम्भते चैव रुदते द्रवते नमः वल्गते क्रीडते चैव लम्बोदरशरीरिणे
नमो ऽकृत्याय कृत्याय मुण्डाय कीकटाय च नम उन्मत्तदेहाय किङ्किणीकाय वै नमः
नमो विकृतवेषाय क्रूरायामर्षणाय च अप्रमेयाय गोप्त्रे च दीप्तायानिर्गुणाय च
वामप्रियाय वामाय चूडामणिधराय च नमस्तोकाय तनवे गुणैरप्रमिताय च
नमो गुण्याय गुह्याय अगम्यगमनाय च लोकधात्री त्वियं भूमिः पादौ सज्जनसेवितौ
सर्वेषां सिद्धियोगानाम् अधिष्ठानं तवोदरम् मध्ये ऽन्तरिक्षं विस्तीर्णं तारागणविभूषितम्
स्वातेः पथ इवाभाति श्रीमान् हारस्तवोरसि दिशो दशभुजास्तुभ्यं केयूराङ्गदभूषिताः
विस्तीर्णपरिणाहश् च नीलाञ्जनचयोपमः कण्ठस्ते शोभते श्रीमान् हेमसूत्रविभूषितः
दंष्ट्राकरालं दुर्धर्षम् अनौपम्यं मुखं तथा पद्ममालाकृतोष्णीषं शिरो द्यौः शोभते ऽधिकम्
दीप्तिः सूर्ये वपुश्चन्द्रे स्थैर्यं शैले ऽनिले बलम् औष्ण्यमग्नौ तथा शैत्यम् अप्सु शब्दो ऽम्बरे तथा
अक्षरान्तरनिष्पन्दाद् गुणानेतान्विदुर्बुधाः जपो जप्यो महादेवो महायोगोमहेश्वरः
पुरेशयो गुहावासी खेचरो रजनीचरः तपोनिधिर्गुहगुरुर् नन्दनो नन्दवर्धनः
हयशीर्षा पयोधाता विधाता भूतभावनः बोद्धव्यो बोधिता नेता दुर्धर्षो दुष्प्रकम्पनः
बृहद्रथो भीमकर्मा बृहत्कीर्तिर् धनञ्जयः घण्टाप्रियो ध्वजी छत्त्री पिनाकी ध्वजिनीपतिः
कवची पट्टिशी खड्गी धनुर्हस्तः परश्वधी अघस्मरो ऽनघः शूरो देवराजो ऽरिमर्दनः
त्वां प्रसाद्य पुरास्माभिर् द्विषन्तो निहता युधि अग्निः सदार्णवांभस्त्वं पिबन्नपि न तृप्यसे
क्रोधाकारः प्रसन्नात्मा कामदः कामगः प्रियः ब्रह्मचारि चागाधश् च ब्रह्मण्यः शिष्टपूजितः
देवानाम् अक्षयः कोशस् त्वया यज्ञः प्रकल्पितः हव्यं तवेदं वहति वेदोक्तं हव्यवाहनः प्रीते त्वयि महादेव वयं प्रीता भवामहे
भवानीशो ऽनादिमांस्त्वं च सर्वलोकानां त्वं ब्रह्मकर्तादिसर्गः सांख्याः प्रकृतेः परमं त्वां विदित्वा क्षीणध्यानास्त्वाममृत्युं विशन्ति
योगाश् च त्वां ध्यायिनो नित्यसिद्धं ज्ञात्वा योगान् संत्यजन्ते पुनस्तान् ये चाप्यन्ये त्वां प्रसन्ना विशुद्धाः स्वकर्मभिस्ते दिव्यभोगा भवन्ति
अप्रसंख्येयतत्त्वस्य यथा विद्मः स्वशक्तितः कीर्तितं तव माहात्म्यम् अपारस्य महात्मनः
शिवो नो भव सर्वत्र यो ऽसि सो ऽसि नमो ऽस्तु ते य इदं कीर्तयेद्भक्त्या ब्रह्मनारायणस्तवम्
श्रावयेद्वा द्विजान् विद्वान् शृणुयाद्वा समाहितः अश्वमेधायुतं कृत्वा यत्फलं तदवाप्नुयात्
पापाचारो ऽपि यो मर्त्यः शृणुयाच्छिवसन्निधौ जपेद्वापि विनिर्मुक्तो ब्रह्मलोकं स गच्छति
श्राद्धे वा दैविके कार्ये यज्ञे वावभृथान्तिके कीर्तयेद्वा सतां मध्ये स याति ब्रह्मणो ऽन्तिकम्
अत्यन्तावनतौ दृष्ट्वा मधुपिङ्गायतेक्षणः प्रहृष्टवदनो ऽत्यर्थम् अभवत्सत्यकीर्तनात्
उमापतिर्विरूपाक्षो दक्षयज्ञविनाशनः पिनाकी खण्डपरशुः सुप्रीतस्तु त्रिलोचनः
ततः स भगवान्देवः श्रुत्वा वागमृतं तयोः जानन्नपि महादेवः क्रीडापूर्वमथाब्रवीत्
कौ भवन्तौ महात्मानौ परस्परहितैषिणौ समेतावंबुजाभक्षाव् अस्मिन् घोरे महाप्लवे