तस्माच्च रूपमात्रं तु ततो ऽग्निश्च रसस्ततः रसादापः शुभास्ताभ्यो गन्धमात्रं धरा ततः
आवृणोद्धि तथाकाशं स्पर्शमात्रं द्विजोत्तमाः आवृणोद्रूपमात्रं तु वायुर्वाति क्रियात्मकः
आवृणोद्रसमात्रं वै देवः साक्षाद्विभावसुः आवृण्वाना गन्धमात्रम् आपः सर्वरसात्मिकाः
क्ष्मा सा पञ्चगुणा तस्माद् एकोना रससम्भवाः त्रिगुणो भगवान्वह्निर् द्विगुणः स्पर्शसम्भवः
अवकाशस्ततो देव एकमात्रस्तु निष्कलः तन्मात्राद्भूतसर्गश् च विज्ञेयश् च परस्परम्
वैकारिकः सात्त्विको वै युगपत्सम्प्रवर्तते सर्गस् तथाप्यहंकाराद् एवमत्र प्रकीर्तितः
पञ्च बुद्धीन्द्रियाण्यस्य पञ्च कर्मेन्द्रियाणि तु शब्दादीनामवाप्त्यर्थं मनश्चैवोभयात्मकम्
महदादिविशेषान्ता ह्य् अण्डमुत्पादयन्ति च जलबुद्बुदवत्तस्माद् अवतीर्णः पितामहः
स एव भगवान् रुद्रो विष्णुर्विश्वगतः प्रभुः तस्मिन्नण्डे त्विमे लोका अन्तर्विश्वमिदं जगत्
अण्डं दशगुणेनैव वारिणा प्रावृतं बहिः आपो दशगुणेनैव तद्बाह्यस्तेजसा वृताः
तेजो दशगुणेनैव बाह्यतो वायुना वृतम् वायुर्दशगुणेनैव बाह्यतो नभसा वृतः
आकाशेनावृतो वायुर् अहंकारेण शब्दजः महता शब्दहेतुर्वै प्रधानेनावृतः स्वयम्
सप्ताण्डावरणान्याहुस् तस्यात्मा कमलासनः कोटिकोटियुतान्यत्र चाण्डानि कथितानि तु
तत्रतत्र चतुर्वक्त्रा ब्रह्माणो हरयो भवाः सृष्टाः प्रधानेन तदा लब्ध्वा शम्भोस्तु संनिधिम्
लयश्चैव तथान्योन्यम् आन्द्यन्तम् इति कीर्तितम् सर्गस्य प्रतिसर्गस्य स्थितेः कर्ता महेश्वरः
सर्गे च रजसा युक्तः सत्त्वस्थः प्रतिपालने प्रतिसर्गे तमोद्रिक्तः स एव त्रिविधः क्रमात्
आदिकर्ता च भूतानां संहर्ता परिपालकः तस्मान्महेश्वरो देवो ब्रह्मणो ऽधिपतिः शिवः
सदाशिवो भवो विष्णुर् ब्रह्मा सर्वात्मको यतः एकदण्डे तथा लोका इमे कर्ता पितामहः
प्राकृतः कथितस्त्वेष पुरुषाधिष्ठितो मया सर्गश् चाबुद्धिपूर्वस्तु द्विजाः प्राथमिकः शुभः
अथ प्राथमिकस्येह यः कालस्तदहः स्मृतम् सर्गस्य तादृशी रात्रिः प्राकृतस्य समासतः
दिवा सृष्टिं विकुरुते रजन्यां प्रलयं विभुः औपचारिकमस्यैतद् अहोरात्रं न विद्यते
दिवा विकृतयः सर्वे विकारा विश्वदेवताः प्रजानां पतयः सर्वे तिष्ठन्त्यन्ये महर्षयः
रात्रौ सर्वे प्रलीयन्ते निशान्ते सम्भवन्ति च अहस्तु तस्य वैकल्पो रात्रिस्तादृग्विधा स्मृता
चतुर्युगसहस्रान्ते मनवस्तु चतुर्दश चत्वारि तु सहस्राणि वत्सराणां कृतं द्विजाः
तावच्छती च वै संध्या संध्यांशश् च कृतस्य तु त्रिशती द्विशती संध्या तथा चैकशती क्रमात्
अंशकः षट्शतं तस्मात् कृतसंध्यांशकं विना त्रिद्व्येकसाहस्रमितो विना संध्यांशकेन तु
त्रेताद्वापरतिष्याणां कृतस्य कथयामि वः निमेषपञ्चदशका काष्ठा स्वस्थस्य सुव्रताः
मर्त्यस्य चाक्ष्णोस्तस्याश् च ततस् त्रिंशतिका कला कलात्रिंशतिको विप्रा मुहूर्त इति कल्पितः
मुहूर्तपञ्चदशिका रजनी तादृशं त्वहः पित्र्ये रात्र्यहनी मासः प्रविभागस्तयोः पुनः
कृष्णपक्षस्त्वहस्तेषां शुक्लः स्वप्नाय शर्वरी त्रिंशद्ये मानुषा मासाः पित्र्यो मासस्तु स स्मृतः