नमो रुद्राय हरये ब्रह्मणे परमात्मने प्रधानपुरुषेशाय सर्गस्थित्यन्तकारिणे
नारदो ऽभ्यर्च्य शैलेशे शङ्करं सङ्गमेश्वरे हिरण्यगर्भे स्वर्लीने ह्य् अविमुक्ते महालये
रौद्रे गोप्रेक्षके चैव श्रेष्ठे पाशुपते तथा विघ्नेश्वरे च केदारे तथा गोमायुकेश्वरे
हिरण्यगर्भे चन्द्रेशे ईशान्ये च त्रिविष्टपे शुक्रेश्वरे यथान्यायं नैमिषं प्रययौ मुनिः
नैमिषेयास्तदा दृष्ट्वा नारदं हृष्टमानसाः समभ्यर्च्यासनं तस्मै तद्योग्यं समकल्पयन्
सो ऽपि हृष्टो मुनिवरैर् दत्तं भेजे तदासनम् सम्पूज्यमानो मुनिभिः सुखासीनो वरासने
चक्रे कथां विचित्रार्थां लिङ्गमाहात्म्यमाश्रिताम् एतस्मिन्नेवकाले तु सूतः पौराणिकः स्वयम्
जगाम नैमिषं धीमान् प्रणामार्थं तपस्विनाम् तस्मै साम च पूजां च यथावच्चक्रिरे तदा
नैमिषेयास्तु शिष्याय कृष्णद्वैपायनस्य तु अथ तेषां पुराणस्य शुश्रूषा समपद्यत
दृष्ट्वा तम् अतिविश्वस्तं विद्वांसं रोमहर्षणम् अपृच्छंश्च ततः सूतम् ऋषिं सर्वे तपोधनाः
पुराणसंहितां पुण्यां लिङ्गमाहात्म्यसंयुताम् त्वया सूत महाबुद्धे कृष्णद्वैपायनो मुनिः
उपासितः पुराणार्थं लब्धा तस्माच्च संहिता तस्माद्भवन्तं पृच्छामः सूत पौराणिकोत्तमम्
पुराणसंहितां दिव्यां लिङ्गमाहात्म्यसंयुताम् नारदो ऽप्यस्य देवस्य रुद्रस्य परमात्मनः
क्षेत्राण्यासाद्य चाभ्यर्च्य लिङ्गानि मुनिपुङ्गवः इह संनिहितः श्रीमान् नारदो ब्रह्मणः सुतः
भवभक्तो भवांश्चैव वयं वै नारदस्तथा अस्याग्रतो मुनेः पुण्यं पुराणं वक्तुमर्हसि
सफलं साधितं सर्वं भवता विदितं भवेत् एवमुक्तः स हृष्टात्मा सूतः पौराणिकोत्तमः
अभिवाद्याग्रतो धीमान् नारदं ब्रह्मणः सुतम् नैमिषेयांश्च पुण्यात्मा पुराणं व्याजहार सः
नमस्कृत्य महादेवं ब्रह्माणं च जनार्दनम् मुनीश्वरं तथा व्यासं वक्तुं लिङ्गं स्मराम्यहम्
शब्दं ब्रह्मतनुं साक्षाच् छब्दब्रह्मप्रकाशकम् वर्णावयवम् अव्यक्तलक्षणं बहुधा स्थितम्
अकारोकारमकारं स्थूलं सूक्ष्मं परात्परम् ओङ्काररूपम् ऋग्वक्त्रं समजिह्वासमन्वितम्
यजुर्वेदमहाग्रीवम् अथर्वहृदयं विभुम् प्रधानपुरुषातीतं प्रलयोत्पत्तिवर्जितम्
तमसा कालरुद्राख्यं रजसा कनकाण्डजम् सत्त्वेन सर्वगं विष्णुं निर्गुणत्वे महेश्वरम्
प्रधानावयवं व्याप्य सप्तधाधिष्ठितं क्रमात् पुनः षोडशधा चैव षड्विंशकम् अजोद्भवम्
सर्गप्रतिष्ठासंहारलीलार्थं लिङ्गरूपिणम् प्रणम्य च यथान्यायं वक्ष्ये लिङ्गोद्भवं शुभम्
ईशानकल्पवृत्तान्तम् अधिकृत्य महात्मना ब्रह्मणा कल्पितं पूर्वं पुराणं लैङ्गम् उत्तमम्
ग्रन्थकोटिप्रमाणं तु शतकोटिप्रविस्तरे चतुर्लक्षेण संक्षिप्ते व्यासैः सर्वान्तरेषु वै
व्यस्तेष्टा दशधा चैव ब्रह्मादौ द्वापरादिषु लिङ्गमेकादशं प्रोक्तं मया व्यासाच्छ्रुतं च तत्
अस्यैकादशसाहस्रे ग्रन्थमानमिह द्विजाः तस्मात्संक्षेपतो वक्ष्ये न श्रुतं विस्तरेण यत्
चतुर्लक्षेण संक्षिप्ते कृष्णद्वैपायनेन तु अत्रैकादशसाहस्रैः कथितो लिङ्गसम्भवः
सर्गः प्राधानिकः पश्चात् प्राकृतो वैकृतानि च अण्डस्यास्य च सम्भूतिर् अण्डस्यावरणाष्टकम्