याश् च सर्वेषु द्वीपेषु देवलोकेषु निम्नगाः ताश् च स्त्रीविग्रहाः सर्वाः संजग्मुर्हृष्टमानसाः
All the rivers in every island and in the realms of the gods, all took on feminine forms and came forth, their hearts filled with joy.
गणपाश् च महाभागाः सर्वलोकनमस्कृताः उद्वाहः शङ्करस्येति तत्राजग्मुर्मुदान्विताः
The exalted hosts of attendants, revered by all worlds, arrived there, delighted, for the wedding of Śaṅkara.
अभ्ययुः शङ्खवर्णाश् च गणकोट्यो गणेश्वराः दशभिः केकराक्षश् च विद्युतो ऽष्टाभिर् एव च
Hosts of attendants with conch-colored forms, and the lords of hosts, numbering in the millions, came; Kekarākṣa with ten, Vidyut with eight.
चतुःषष्ट्या विशाखाश् च नवभिः पारयात्रिकः षड्भिः सर्वान्तकः श्रीमान् तथैव विकृताननः
Viśākha with sixty-four, Pārayātrika with nine, Sarvāntaka the illustrious with six, and likewise Vikṛtānana.
ज्वालाकेशो द्वादशभिः कोटिभिर् गणपुङ्गवः सप्तभिः समदः श्रीमान् दुन्दुभो ऽष्टाभिर् एव च
Jvālākeśa, leader of hosts, with twelve million, Samada the illustrious with seven, Dundubha with eight.
पञ्चभिश् च कपालीशः षड्भिः संदारकः शुभः कोटिकोटिभिर् एवेह गण्डकः कुंभकस् तथा
Kapālīśa with five, Saṃdāraka the auspicious with six, Gaṇḍaka and Kuṃbhaka each with countless millions.
विष्टम्भो ऽष्टाभिर् एवेह गणपः सर्वसत्तमः पिप्पलश् च सहस्रेण संनादश् च तथा द्विजाः
Viṣṭambha, the foremost among attendants, with eight, Pippala with a thousand, and likewise Saṃnāda, O twice-born.
आवेष्टनस् तथाष्टाभिः सप्तभिश्चन्द्रतापनः महाकेशः सहस्रेण कोटीनां गणपो वृतः
Āveṣṭana with eight, Candratāpana with seven, Mahākeśa with a thousand, surrounded by millions of attendants.
कुण्डी द्वादशभिर् वीरस् तथा पर्वतकः शुभः कालश् च कालकश्चैव महाकालः शतेन वै
Kuṇḍī with twelve, Vīra and Parvataka the auspicious, Kāla and Kālaka, and Mahākāla with a hundred.
आग्निकः शतकोट्या वै कोट्याग्निमुख एव च आदित्यमूर्धा कोट्या च तथा चैव धनावहः
Āgnika with a hundred million, Agnimukha with a million, Ādityamūrdhā with a million, and likewise Dhanāvaha.
संनामश् च शतेनैव कुमुदः कोटिभिस् तथा अमोघः कोकिलश्चैव कोटिकोट्या सुमन्त्रकः
Saṃnāma with a hundred, Kumuda with millions, Amogha and Kokila, and Sumantraka with countless millions.
काकपाटो ऽपरः षष्ट्या षष्ट्या संतानकः प्रभुः महाबलश् च नवभिर् मधुपिङ्गश् च पिङ्गलः
Kākapāṭa with sixty, Saṃtānaka the lord with sixty, Mahābala with nine, Madhupiṅga and Piṅgala.
नीलो नवत्या देवेशः पूर्णभद्रस्तथैव च कोटीनां चैव सप्तत्या चतुर्वक्त्रो महाबलः
Nīla, lord of the gods, with ninety, Pūrṇabhadra likewise, Caturvaktra the mighty with seventy million.
कोटिकोटिसहस्राणां शतैर् विंशतिभिर् वृताः तत्राजग्मुस् तथा देवास् ते सर्वे शङ्करं भवम्
Surrounded by twenty hundred thousand millions, all the gods arrived there to see Śaṅkara, the Auspicious One.
भूतकोटिसहस्रेण प्रमथः कोटिभिस्त्रिभिः वीरभद्रश्चतुःषष्ट्या रोमजाश्चैव कोटिभिः
Pramatha with a thousand million hosts, Vīrabhadra with sixty-four, and Romaja with millions.
करणश्चैव विंशत्या नवत्या केवलः शुभः पञ्चाक्षः शतमन्युश् च मेघमन्युस् तथैव च
Karaṇa with twenty, Kevala the auspicious with ninety, Pañcākṣa, Śatamanyu, and Meghamanyu likewise.
काष्ठकूटश् चतुःषष्ट्या सुकेशो वृषभस् तथा विरूपाक्षश् च भगवान् चतुःषष्ट्या सनातनः
Kāṣṭhakūṭa with sixty-four, Sukeśa, Vṛṣabha likewise, and the Blessed Virūpākṣa, the eternal one with sixty-four.
तालुकेतुः षडास्यश् च पञ्चास्यश् च सनातनः संवर्तकस् तथा चैत्रो लकुलीशः स्वयं प्रभुः
Tāluketu, Ṣaḍāsya, and Pañcāsya, the eternal one, Saṃvartaka, Caitra, Lakulīśa, the Lord himself.
लोकान्तकश् च दीप्तास्यस् तथा दैत्यान्तकः प्रभुः मृत्युहृत् कालहा कालो मृत्युञ्जयकरस् तथा
Lokāntaka, Dīptāsya, and likewise Daityāntaka, the Lord, Mṛtyuhṛt, Kālahā, Kāla, and the bestower of victory over death.
विषादो विषदश्चैव विद्युतः कान्तकः प्रभुः देवो भृङ्गी रिटिः श्रीमान् देवदेवप्रियस् तथा
Viṣāda, Viṣada, Vidyutaḥ, Kāntaka, the Lord, Deva, Bhṛṅgī, Riṭi, the illustrious one, and the beloved of the Lord of gods.
अशनिर् भासकश् चैव चतुःषष्ट्या सहस्रपात् एते चान्ये च गणपा असंख्याता महाबलाः
Aśani, Bhāsaka, and with sixty-four Sahasrapāt—these and other Gaṇas, countless and of great might.
सर्वे सहस्रहस्ताश् च जटामुकुटधारिणः चन्द्ररेखावतंसाश् च नीलकण्ठास् त्रिलोचनाः
All with a thousand arms, bearing matted hair as crowns, adorned with crescent moons, blue-throated, and three-eyed.
हारकुण्डलकेयूरमुकुटाद्यैर् अलंकृताः ब्रह्मेन्द्रविष्णुसंकाशा अणिमादिगुणैर्वृताः
Adorned with necklaces, earrings, armlets, crowns, and the like, resembling Brahmā, Indra, and Viṣṇu, endowed with the powers beginning with aṇimā.
सूर्यकोटिप्रतीकाशास् तत्राजग्मुर्गणेश्वराः पातालचारिणश्चैव सर्वलोकनिवासिनः
The lords of the Gaṇas, shining like ten million suns, arrived there—those who move in the netherworlds and dwell in all the worlds.
तुंबरुर्नारदो हाहा हूहूश्चैव तु सामगाः रत्नान्यादाय वाद्यांश् च तत्राजग्मुस्तदा पुरम्
Tuṃbaru, Nārada, Hāhā, Hūhū, and the singers of Sāma, bringing jewels and musical instruments, then came to that city.
ऋषयः कृत्स्नशस्तत्र देवगीतास्तपोधनाः पुण्यान् वैवाहिकान् मन्त्रान् अजपुर् हृष्टमानसाः
The sages, all present there, rich in ascetic merit, recited auspicious marriage mantras with joyful hearts.
तत एवं प्रवृत्ते तु सर्वतश् च समागमे गिरिजां ताम् अलंकृत्य स्वयमेव शुचिस्मिताम्
Then, as all had assembled everywhere, Girijā, the pure-smiling one, was adorned by her own hand.
पुरं प्रवेशयामास स्वयम् आदाय केशवः सदस्याह च देवेशं नारायणमजो हरिम्
Keśava himself led her into the city, and the assembly addressed the Lord of gods, Nārāyaṇa, the unborn Hari.
भवानग्रे समुत्पन्नो भवान्या सह दैवतैः वामाङ्गादस्य रुद्रस्य दक्षिणाङ्गादहं प्रभो
You were born at the beginning along with Bhavānī and the gods; from the left side of Rudra, and I, O Lord, from the right.
मन्मूर्तिस्तुहिनाद्रीशो यज्ञार्थं सृष्ट एव हि एषा हैमवती जज्ञे मायया परमेष्ठिनः
My form is the Lord of the snowy mountain, created for the sake of sacrifice; this daughter of Himavat was born by the Māyā of the Supreme Lord.