यदोर्वंशं प्रवक्ष्यामि ज्येष्ठस्योत्तमतेजसः संक्षेपेणानुपूर्व्याच्च गदतो मे निबोधत
I shall now recount the lineage of Yadu, the eldest and most radiant; listen to me narrate it briefly and in order.
यदोः पुत्रा बभूवुर् हि पञ्च देवसुतोपमाः सहस्रजित्सुतो ज्येष्ठः क्रोष्टुर् नीलो ऽजको लघुः
Yadu had five sons, comparable to sons of the gods: the eldest was Sahasrajit, then Kroṣṭu, Nīla, Ajaka, and Laghu.
सहस्रजित्सुतस्तद्वच् छतजिन्नाम पार्थिवः सुताः शतजितः ख्यातास् त्रयः परमकीर्तयः
From Sahasrajit came a king named Śatajita; Śatajita had three sons, famed above all.
हैहयश् च हयश्चैव राजा वेणुहयश् च यः हैहयस्य तु दायादो धर्म इत्यभिविश्रुतः
Haihaya, Haya, and King Veṇuhaya—these were his sons; Haihaya's heir, renowned as Dharma, became famous.
तस्य पुत्रो ऽभवद्विप्रा धर्मनेत्र इति श्रुतः धर्मनेत्रस्य कीर्तिस् तु संजयस् तस्य चात्मजः
O Brahmins, his son was known as Dharmanetra; Dharmanetra's son was Kīrti, and Saṃjaya was his son.
संजयस्य तु दायादो महिष्मान्नाम धार्मिकः आसीन् महिष्मतः पुत्रो भद्रश्रेण्यः प्रतापवान्
Saṃjaya's heir was the righteous Mahiṣmān; Mahiṣmān's son was the mighty Bhadraśreṇya.
भद्रश्रेण्यस्य दायादो दुर्दमो नाम पार्थिवः दुर्दमस्य सुतो धीमान् धनको नाम विश्रुतः
Bhadraśreṇya's heir was the king named Durdama; Durdama's wise son, renowned, was called Dhanaka.
धनकस्य तु दायादाश् चत्वारो लोकसंमताः कृतवीर्यः कृताग्निश् च कृतवर्मा तथैव च
Dhanaka had four sons, esteemed by the world: Kṛtavīrya, Kṛtāgni, Kṛtavarmā, and Kṛtaujā.
कृतौजाश् च चतुर्थो ऽभूत् कार्तवीर्यस्ततो ऽर्जुनः जज्ञे बाहुसहस्रेण सप्तद्वीपेश्वरोत्तमः
The fourth was Kṛtaujā; from him was born Kārtavīrya Arjuna, the supreme lord of the seven continents, possessing a thousand arms.
तस्य रामस् तदा त्वासीन् मृत्युर्नारायणात्मकः तस्य पुत्रशतान्यासन् पञ्च तत्र महारथाः
For him, Rāma became death, having the nature of Nārāyaṇa; he had a hundred sons, among whom five were great warriors.
कृतास्त्रा बलिनः शूरा धर्मात्मानो मनस्विनः शूरश् च शूरसेनश् च धृष्टः कृष्णस्तथैव च
They were accomplished in weapons, strong, heroic, righteous, and wise: Śūra, Śūrasena, Dhṛṣṭa, and Kṛṣṇa as well.
जयध्वजश् च राजासीद् आवन्तीनां विशां पतिः जयध्वजस्य पुत्रो ऽभूत् तालजङ्घो महाबलः
King Jayadhvaja was lord of the Avanti people; Jayadhvaja's son was Tāla-jaṅgha, of great might.
शतं पुत्रास्तु तस्येह तालजङ्घाः प्रकीर्तिताः तेषां ज्येष्ठो महावीर्यो वीतिहोत्रो ऽभवन्नृपः
He had a hundred sons here, called Tāla-jaṅghas; their eldest, of great valor, was the king Vītihotra.
वृषप्रभृतयश्चान्ये तत्सुताः पुण्यकर्मणः वृषो वंशकरस्तेषां तस्य पुत्रो ऽभवन्मधुः
Others, beginning with Vṛṣa, were the virtuous sons of Vītihotra; among them, Vṛṣa was the progenitor of the line, and his son was Madhu.
मधोः पुत्रशतं चासीद् वृष्णिस्तस्य तु वंशभाक् वृष्णेस्तु वृष्णयः सर्वे मधोर्वै माधवाः स्मृताः यादवा यदुवंशेन निरुच्यन्ते तु हैहयाः
Madhu had a hundred sons, and among them, Vṛṣṇi became the heir of his lineage. All the descendants of Vṛṣṇi are called Vṛṣṇis, and those of Madhu are known as Mādhavas. The Haihayas are also referred to as Yādavas, being of the lineage of Yadu.
तेषां पञ्च गणा ह्येते हैहयानां महात्मनाम्
There are five clans among these great-souled Haihayas.
वीतिहोत्राश् च हर्याता भोजाश्चावन्तयस् तथा शूरसेनास्तु विख्यातास् तालजङ्घास्तथैव च
They are the Vītihotras, Haryatas, Bhojas, Avantis, and the renowned Śūrasenas, as well as the Tāla-jaṅghas.
शूरश् च शूरसेनश् च वृषः कृष्णस्तथैव च जयध्वजः पञ्चमस्तु विख्याता हैहयोत्तमाः
Śūra, Śūrasena, Vṛṣa, Kṛṣṇa, and Jayadhvaja—these five are celebrated as the foremost among the Haihayas.
शूरश् च शूरवीरश् च शूरसेनस्य चानघाः शूरसेना इति ख्याता देशास्तेषां महात्मनाम्
Śūra and Śūravīra, as well as the illustrious sons of Śūrasena, are known as the Śūrasenas; these are the lands of those great souls.
वीतिहोत्रसुतश्चापि विश्रुतो नर्त इत्युत दुर्जयः कृष्णपुत्रस्तु बभूवामित्रकर्शनः
The renowned son of Vītihotra was Narta, and Durjaya, the son of Kṛṣṇa, became known as Amitrakarshana.
क्रोष्टुश् च शृणु राजर्षेर् वंशमुत्तमपौरुषम् यस्यान्वये तु सम्भूतो विष्णुर् वृष्णिकुलोद्वहः
Now hear of the lineage of the royal sage Kroṣṭu, of supreme manliness, in whose line was born Viṣṇu, the foremost of the Vṛṣṇi clan.
क्रोष्टोरेको ऽभवत्पुत्रो वृजिनीवान्महायशाः तस्य पुत्रो ऽभवत् स्वाती कुशङ्कुस् तत्सुतो ऽभवत्
Kroṣṭu had a single son, the illustrious Vṛjinīvān. His son was Svātī, and Kuśaṅku was born as his son.
अथ प्रसूतिमिच्छन्वै कुशङ्कुः सुमहाबलः महाक्रतुभिर् ईजे ऽसौ विविधैराप्तदक्षिणैः
Then Kuśaṅku, of great strength, desiring progeny, performed many great sacrifices, bestowing abundant gifts.
जज्ञे चित्ररथस्तस्य पुत्रः कर्मभिर् अन्वितः अथ चैत्ररथो वीरो यज्वा विपुलदक्षिणः
To him was born a son, Citraratha, accomplished in deeds. Then Citraratha, a heroic sacrificer, gave generous gifts.
शशबिन्दुस् तु वै राजा अन्वयाद् व्रतम् उत्तमम् चक्रवर्ती महासत्त्वो महावीर्यो बहुप्रजाः
Śaśabindu, a king of supreme vow, was born in this line—a universal monarch of great strength, valor, and many offspring.
शशबिन्दोस्तु पुत्राणां सहस्राणामभूच्छतम् शंसन्ति तस्य पुत्राणाम् अनन्तकम् अनुत्तमम्
Of Śaśabindu's sons, there were a hundred thousand. It is said that among his sons, Anantaka was the foremost and unsurpassed.
अनन्तकात् सुतो यज्ञो यज्ञस्य तनयो धृतिः उशनास्तस्य तनयः सम्प्राप्य तु महीमिमाम्
Anantaka's son was Yajña, and Yajña's son was Dhṛti. Uśanas was his son, who attained this earth.
आजहाराश्वमेधानां शतमुत्तमधार्मिकः स्मृतश्चोशनसः पुत्रः सितेषुर् नाम पार्थिवः
That most righteous Uśanas performed a hundred Aśvamedha sacrifices. His son, remembered as Siteṣu, was a king.
मरुतस्तस्य तनयो राजर्षिर्वंशवर्धनः वीरः कम्बलबर्हिस्तु मरुस्तस्यात्मजः स्मृतः
Maruta was his son, a royal sage who increased the lineage. The valiant Kambalabarhi was known as the son of Maruta.
पुत्रस्तु रुक्मकवचो विद्वान् कम्बलबर्हिषः निहत्य रुक्मकवचो वीरान् कवचिनो रणे
The learned Rukmakavaca was the son of Kambalabarhi. Rukmakavaca slew the armored heroes in battle.