कर्मणा मनसा वाचा ब्रह्म सम्पद्यते तदा यदा परान्न बिभेति परे चास्मान्न बिभ्यति
When, by deed, mind, and speech, one attains Brahman—when one does not fear others, nor do others fear him.
यदा न निन्देन्न द्वेष्टि ब्रह्म सम्पद्यते तदा या दुस्त्यजा दुर्मतिभिर् यानजीर्यति जीर्यतः
When one neither reviles nor hates, then one attains Brahman; that craving which is hard to abandon by the foolish, withers as the body withers.
यो ऽसौ प्राणान्तिको रोगस् तां तृष्णां त्यजतः सुखम् जीर्यन्ति जीर्यतः केशा दन्ता जीर्यन्ति जीर्यतः
That disease which ends life—craving—brings happiness to him who abandons it; as hair and teeth wither with age, so too does craving wither.
चक्षुःश्रोत्रे च जीर्येते तृष्णैका निरुपद्रवा जीर्यन्ति देहिनः सर्वे स्वभावादेव नान्यथा
The eyes and ears grow old, but craving alone is untroubled; all the bodily faculties age naturally, there is no other way.
जीविताशा धनाशा च जीर्यतो ऽपि न जीर्यते यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम्
The hope for life and wealth does not age, even as the body ages; whatever pleasure of desire exists in this world, and whatever great pleasure in heaven—
तृष्णाक्षयसुखस्यैतत् कलां नार्हति षोडशीम् एवमुक्त्वा स राजर्षिः सदारः प्राविशद्वनम्
—does not equal even a sixteenth part of the happiness from the extinction of craving. Having spoken thus, the royal sage, with his wife, entered the forest.
भृगुतुङ्गे तपस्तप्त्वा तत्रैव च महायशाः साधयित्वा त्वनशनं सदारः स्वर्गमाप्तवान्
There at the peak of Bhrigu, the illustrious one performed austerities, accomplished the vow of fasting, and, together with his wife, attained heaven.
तस्य वंशास्तु पञ्चैते पुण्या देवर्षिसत्कृताः यैर्व्याप्ता पृथिवी कृत्स्ना सूर्यस्येव मरीचिभिः
His five lineages, virtuous and honored by divine sages, spread across the entire earth like the rays of the sun.
धनी प्रजावान् आयुष्मान् कीर्तिमांश् च भवेन्नरः ययातिचरितं पुण्यं पठञ्छृण्वंश् च बुद्धिमान्
A person who reads or listens to the sacred deeds of Yayāti becomes wealthy, prosperous in offspring, long-lived, and renowned, and gains wisdom.
सर्वपापविनिर्मुक्तः शिवलोके महीयते
Freed from all sins, he is honored in the realm of Śiva.
यदोर्वंशं प्रवक्ष्यामि ज्येष्ठस्योत्तमतेजसः संक्षेपेणानुपूर्व्याच्च गदतो मे निबोधत
I shall now recount the lineage of Yadu, the eldest and most radiant; listen to me narrate it briefly and in order.
यदोः पुत्रा बभूवुर् हि पञ्च देवसुतोपमाः सहस्रजित्सुतो ज्येष्ठः क्रोष्टुर् नीलो ऽजको लघुः
Yadu had five sons, comparable to sons of the gods: the eldest was Sahasrajit, then Kroṣṭu, Nīla, Ajaka, and Laghu.
सहस्रजित्सुतस्तद्वच् छतजिन्नाम पार्थिवः सुताः शतजितः ख्यातास् त्रयः परमकीर्तयः
From Sahasrajit came a king named Śatajita; Śatajita had three sons, famed above all.
हैहयश् च हयश्चैव राजा वेणुहयश् च यः हैहयस्य तु दायादो धर्म इत्यभिविश्रुतः
Haihaya, Haya, and King Veṇuhaya—these were his sons; Haihaya's heir, renowned as Dharma, became famous.
तस्य पुत्रो ऽभवद्विप्रा धर्मनेत्र इति श्रुतः धर्मनेत्रस्य कीर्तिस् तु संजयस् तस्य चात्मजः
O Brahmins, his son was known as Dharmanetra; Dharmanetra's son was Kīrti, and Saṃjaya was his son.
संजयस्य तु दायादो महिष्मान्नाम धार्मिकः आसीन् महिष्मतः पुत्रो भद्रश्रेण्यः प्रतापवान्
Saṃjaya's heir was the righteous Mahiṣmān; Mahiṣmān's son was the mighty Bhadraśreṇya.
भद्रश्रेण्यस्य दायादो दुर्दमो नाम पार्थिवः दुर्दमस्य सुतो धीमान् धनको नाम विश्रुतः
Bhadraśreṇya's heir was the king named Durdama; Durdama's wise son, renowned, was called Dhanaka.
धनकस्य तु दायादाश् चत्वारो लोकसंमताः कृतवीर्यः कृताग्निश् च कृतवर्मा तथैव च
Dhanaka had four sons, esteemed by the world: Kṛtavīrya, Kṛtāgni, Kṛtavarmā, and Kṛtaujā.
कृतौजाश् च चतुर्थो ऽभूत् कार्तवीर्यस्ततो ऽर्जुनः जज्ञे बाहुसहस्रेण सप्तद्वीपेश्वरोत्तमः
The fourth was Kṛtaujā; from him was born Kārtavīrya Arjuna, the supreme lord of the seven continents, possessing a thousand arms.
तस्य रामस् तदा त्वासीन् मृत्युर्नारायणात्मकः तस्य पुत्रशतान्यासन् पञ्च तत्र महारथाः
For him, Rāma became death, having the nature of Nārāyaṇa; he had a hundred sons, among whom five were great warriors.
कृतास्त्रा बलिनः शूरा धर्मात्मानो मनस्विनः शूरश् च शूरसेनश् च धृष्टः कृष्णस्तथैव च
They were accomplished in weapons, strong, heroic, righteous, and wise: Śūra, Śūrasena, Dhṛṣṭa, and Kṛṣṇa as well.
जयध्वजश् च राजासीद् आवन्तीनां विशां पतिः जयध्वजस्य पुत्रो ऽभूत् तालजङ्घो महाबलः
King Jayadhvaja was lord of the Avanti people; Jayadhvaja's son was Tāla-jaṅgha, of great might.
शतं पुत्रास्तु तस्येह तालजङ्घाः प्रकीर्तिताः तेषां ज्येष्ठो महावीर्यो वीतिहोत्रो ऽभवन्नृपः
He had a hundred sons here, called Tāla-jaṅghas; their eldest, of great valor, was the king Vītihotra.
वृषप्रभृतयश्चान्ये तत्सुताः पुण्यकर्मणः वृषो वंशकरस्तेषां तस्य पुत्रो ऽभवन्मधुः
Others, beginning with Vṛṣa, were the virtuous sons of Vītihotra; among them, Vṛṣa was the progenitor of the line, and his son was Madhu.
मधोः पुत्रशतं चासीद् वृष्णिस्तस्य तु वंशभाक् वृष्णेस्तु वृष्णयः सर्वे मधोर्वै माधवाः स्मृताः यादवा यदुवंशेन निरुच्यन्ते तु हैहयाः
Madhu had a hundred sons, and among them, Vṛṣṇi became the heir of his lineage. All the descendants of Vṛṣṇi are called Vṛṣṇis, and those of Madhu are known as Mādhavas. The Haihayas are also referred to as Yādavas, being of the lineage of Yadu.
तेषां पञ्च गणा ह्येते हैहयानां महात्मनाम्
There are five clans among these great-souled Haihayas.
वीतिहोत्राश् च हर्याता भोजाश्चावन्तयस् तथा शूरसेनास्तु विख्यातास् तालजङ्घास्तथैव च
They are the Vītihotras, Haryatas, Bhojas, Avantis, and the renowned Śūrasenas, as well as the Tāla-jaṅghas.
शूरश् च शूरसेनश् च वृषः कृष्णस्तथैव च जयध्वजः पञ्चमस्तु विख्याता हैहयोत्तमाः
Śūra, Śūrasena, Vṛṣa, Kṛṣṇa, and Jayadhvaja—these five are celebrated as the foremost among the Haihayas.
शूरश् च शूरवीरश् च शूरसेनस्य चानघाः शूरसेना इति ख्याता देशास्तेषां महात्मनाम्
Śūra and Śūravīra, as well as the illustrious sons of Śūrasena, are known as the Śūrasenas; these are the lands of those great souls.
वीतिहोत्रसुतश्चापि विश्रुतो नर्त इत्युत दुर्जयः कृष्णपुत्रस्तु बभूवामित्रकर्शनः
The renowned son of Vītihotra was Narta, and Durjaya, the son of Kṛṣṇa, became known as Amitrakarshana.