वेदबाहुं तथा कन्यां सन्नतिं नाम नामतः
ते चोर्ध्वरेतसः सर्वे बालखिल्या इति स्मृताः
कन्यां च पुण्डरीकाक्षां सर्वेशोभासमन्विताम्
सुतपाः शुक्र इत्येते सप्त पुत्रा महौजसः
स्वाहा तस्मात् सुतान् लेभे त्रीनुदारान् महौजसः
निर्मथ्यः पवमानः स्याद् वैद्युतः पावकः स्मृतः
तेषां तु संततावन्ये चत्वारिंश्च पञ्च च
एते चैकोनपञ्चाशद् वह्नयः परिकीर्तितः
रुद्रात्मकाः स्मृताः सर्वे त्रिपुण्ड्राङ्कितमस्तकाः
अग्निष्वात्ता बर्हिषदो द्विधा तेषां व्यवस्थितिः
ते उभे ब्रह्मवादिन्यौ योगिन्यौ मुनिसत्तमाः
गङ्गा हिमवतो जज्ञे सर्वलोकैकपावनी
यथावत् कथितं पूर्वं देव्या माहात्म्यमुत्तमम्
व्याख्याता भवतामद्य मनोः सृष्टिं निबोधत
धर्मज्ञौ सुमहावीर्यौ शतरूपा व्यजीजनत्
भक्तो नारायणे देवे प्राप्तवान् स्थानमुत्तमम्
श्लिष्टेराधत्त सुच्छाया पञ्च पुत्रानकल्पषान्
आराध्य पुरुषं विष्णुं शालग्रामे जनार्दनम्
नारायणपरान् शुद्धान् स्वधर्मपरिपालकान्
प्रजापतेरात्मजायां वीरणस्य महात्मनः
कन्यायां सुमहावीर्या वैराजस्य प्रजापतेः
अग्निष्टुदतिरात्रश्च सुद्युम्नश्चाभिमन्युकः
अङ्गं सुमनसं स्वातिं क्रतुमङ्गिरसं शिवम्
यो ऽसौ पृथुरिति ख्यातः प्रजापालो महाबलः
नियोगाद् ब्रह्मणः सार्धं देवेन्द्रेण महौजसा
सूतः पौराणिको जज्ञे मायारूपः स्वयं हरिः
तं मां नित्त मुनिश्रेष्ठाः पूर्वोद्भूतं सनातनम्
श्रावयामास मां प्रीत्या पुराणं पुरुषो हरिः
तेषां पुराणवक्तृत्वं वृत्तिरासीदजाज्ञया
सार्वभौमो महातेजाः स्वधर्मपरिपालकः