प्रिदास्यसे मां रुद्राय स्वयंवरसमागमे
त्वां नमस्यन्ति वै तात प्रसीदति च शङ्करः
संपूज्य देवमीशानं शरण्यं शरणं व्रज
प्रणम्य शिरसा देवीं प्राञ्जलिः पुनरब्रवीत्
ज्ञानं चैवात्मनो योगं साधनानि प्रचक्ष्व मे
यथावद् व्याजहारेशासाधनानिच विस्तरात्
लोकमातुः परं ज्ञानं योगासक्तो ऽभवत्पुनः
नियोगाद् ब्रह्मणः साध्वीं देवानां चैव संनिधौ
शिवस्य संनिधौ भक्त्या सुचिस्तद्भावभावितः
उल्लङ्घ्य ब्रह्मणो लोकन्देव्याः स्थानमवाप्नुयात्
देव्याः समाहितमनाः सर्वपापैः प्रमुच्यते
ज्ञात्वार्ऽकमण्डलगतां संभाव्य परमेश्वरीम्
संस्मरन् परमं भावं देव्या माहेश्वरं परम्
सो ऽन्तकाले स्मृतिं लब्ध्वापरं ब्रह्माधिगच्छति
पूर्वसंस्कारमाहात्म्याद् ब्रह्मविद्यामवाप्य सः
शान्तः सर्वगातो भूत्वा शिवसायुज्यमानप्नुयात्
पूतनादिकृतैर्देषैर्ग्रहदोषैश्च मुच्यते
श्रीकामः पार्वतीं देवीं पूजयित्वा विधानतः
लभते महतीं लक्ष्मीं महादेवप्रसादतः
सर्वपापानोदार्थं देव्या नाम सहस्त्रकम्
अतः परं प्रजासर्गं भृग्वादीनां निबोधत
देवौ धाताविधातारौ मेरोर्जामातरौ तथा
धाताविधात्रोस्ते भार्ये तयोर्जातौ सुतावुभौ
तथा वेदशिरा नाम प्राणस्य द्युतिमान् सुतः
कन्याचतुष्टयं चैव सर्वलक्षणसंयुतम्
विरजाः पर्वश्चैव पौर्णमासस्य तौ सुतौ
कर्दमं च वरीयांसं सहिष्णुं मुनिसत्तमम्
अनसूया तथैवात्रेर्जज्ञे पुत्रानकल्पषान्
स्मृतिश्चाङ्गिरसः पुत्रीर्जज्ञे लक्षणसंयुताः
प्रीत्यां पुलस्त्यो भगवान् दत्तात्रिमसृजत् प्रभुः