गच्छन्त्यपुनरावृत्तिं ज्ञाननिर्धूतकल्मषाः
प्राप्यते न हि राजेन्द्र ततो मां शरणं व्रज
मामुपास्य महाराज ततो यास्यासि तत्पदम्
ज्ञायते न हि राजेन्द्र ततो मां शरणं व्रज
आराधय प्रयत्नेन ततो बन्धं प्रहास्यसि
समाराधय भावेन ततो यास्यसि तत्पदम्
अनाद्यनन्तं परमं महेश्वरमजं शिवम्
नित्यानन्दं निराभासं निर्गुणं तमसः परम्
स्वसंवेद्यमवेद्यं तत् परे व्योम्नि व्यवस्थितम्
संसारसागरे घोरे जायन्ते च पुनः पुनः
अन्वेष्टव्यं हि तद् ब्रह्म जन्मबन्धनिवृत्तये
अधर्माभिनिवेशं च त्यक्त्वा वैराग्यमास्थितः
अन्वीक्ष्य चात्मनात्मानं ब्रह्मभूयाय कल्पते
ऐश्वरीं परमां भक्तिं विन्देतानन्यगामिनीम्
सर्वसंसारनिर्मुक्तो ब्रह्मणेयवावतिष्ठते
अनन्तस्याव्ययस्यैकः स्वात्माधारो महेश्वरः
सर्वसंसारमुक्त्यर्थमीश्वरं सततं श्रय
अन्वीक्ष्य चैतदखिलं यथेष्टं कर्तुमर्हसि
विनिन्द्य दक्षं पितरं महेश्वरविनिन्दकम्
मेनादेहसमुत्पन्ना त्वामेव पितरं श्रिता
प्रिदास्यसे मां रुद्राय स्वयंवरसमागमे
त्वां नमस्यन्ति वै तात प्रसीदति च शङ्करः
संपूज्य देवमीशानं शरण्यं शरणं व्रज
प्रणम्य शिरसा देवीं प्राञ्जलिः पुनरब्रवीत्
ज्ञानं चैवात्मनो योगं साधनानि प्रचक्ष्व मे
यथावद् व्याजहारेशासाधनानिच विस्तरात्
लोकमातुः परं ज्ञानं योगासक्तो ऽभवत्पुनः
नियोगाद् ब्रह्मणः साध्वीं देवानां चैव संनिधौ
शिवस्य संनिधौ भक्त्या सुचिस्तद्भावभावितः
उल्लङ्घ्य ब्रह्मणो लोकन्देव्याः स्थानमवाप्नुयात्