श्रुतिस्मृतिभ्यामुदितो धर्मो यज्ञादिको मतः
तस्मान्मुमुक्षुर्धर्मार्थो मद्रूपं वेदमाश्रयेत्
ऋग्यजुः सामरूपेण सर्गादौ संप्रवर्तते
ब्राह्मणादीन् ससर्जाथ स्वे स्वे कर्मण्ययोजयत्
तेषामधस्ताद् नरकांस्तामिस्त्रादीनकल्पयत्
यो ऽन्यत्ररमतेसो ऽसौनसंभाष्यो द्विजातिभिः
श्रुतिस्मृतिविरुद्धानि निष्ठा तेषां हि तामसी
एवंविधानि चान्यानि मोहनार्थानि तानि तु
मया सृष्टानि शास्त्राणि मोहायैषां भवान्तरे
तत् प्रयत्नेन कुर्वन्ति मत्प्रियास्ते हि ये नराः
स्वायंभुवो मनुर्धार्मान् मुनीनां पूर्वमुक्तवाना
चक्रुर्धर्मप्रतिष्ठार्थं धर्मशास्त्राणि चैव हि
ब्रह्मणो वचनात् तानि करिष्यन्ति युगे युगे
नियोगाद् ब्रह्मणो राजंस्तेषु धर्मः प्रतिष्ठितः
युगे युगे ऽत्र सर्वेषां कर्ता वै धर्मशास्त्रवित्
ज्योतिः शास्त्रं न्यायविद्या मीमांसा चोपबृंहणम्
चतुर्वेदैः सहोक्तानि धर्मो नान्यत्र विद्यते
स्थापयन्ति ममादेशाद् यावदाभूतसंप्लवम्
परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम्
धर्मेण सहितं ज्ञानं परं ब्रह्म प्रकाशयेत्
उपासते सदा भक्त्या योगमैश्वरमास्थिताः
अमानिनो बुद्धिमन्तस्तापसाः शंसितव्रताः
संन्यासिनो गृहस्थाश्च वनस्था ब्रह्मचारिणः
नाशयामि तमः कृत्स्नं ज्ञानदीपने मा चिरात्
सदानन्दास्तु संसारे न जायन्ते पुनः पुनः
मामेवार्चय सर्वत्र मेनया सह संगतः
ततो मे सकलं रूपं कालाद्यं शरणं व्रज
तन्निष्ठस्तत्परो भूत्वा तदर्चनपरो भव
सर्वोपाधिविनिर्मुक्तमनन्तममृतं परम्
ज्ञानमेव प्रपश्यन्तो मामेव प्रविशन्ति ते