संप्रेक्षणमाणो गिरिजां प्राञ्जलिः पार्श्वतो ऽभवत्
सस्मितं प्राह पितरं स्मृत्वा पशुपतिं पतिम्
उपदेशं गिरिश्रेष्ठ सेवितं ब्रह्मवादिभिः
सर्वशक्तिसमायुक्तमनन्तं प्रेरकं परम्
तन्निष्ठस्तत्परो भूत्वा तदेव शरणं व्रज
सर्वयज्ञतपोदानैस्तदेवार्चय सर्वदा
ममोपदेशात् संसारं नाशयामि तवानघ
संसारसागरादस्मादुद्धराम्यचिरेण तु
प्राप्याहं ते गिरिश्रेष्ठ नान्यथा कर्मकोटिभिः
अध्यात्मज्ञानसहितं मुक्तये सततं कुरु
श्रुतिस्मृतिभ्यामुदितो धर्मो यज्ञादिको मतः
तस्मान्मुमुक्षुर्धर्मार्थो मद्रूपं वेदमाश्रयेत्
ऋग्यजुः सामरूपेण सर्गादौ संप्रवर्तते
ब्राह्मणादीन् ससर्जाथ स्वे स्वे कर्मण्ययोजयत्
तेषामधस्ताद् नरकांस्तामिस्त्रादीनकल्पयत्
यो ऽन्यत्ररमतेसो ऽसौनसंभाष्यो द्विजातिभिः
श्रुतिस्मृतिविरुद्धानि निष्ठा तेषां हि तामसी
एवंविधानि चान्यानि मोहनार्थानि तानि तु
मया सृष्टानि शास्त्राणि मोहायैषां भवान्तरे
तत् प्रयत्नेन कुर्वन्ति मत्प्रियास्ते हि ये नराः
स्वायंभुवो मनुर्धार्मान् मुनीनां पूर्वमुक्तवाना
चक्रुर्धर्मप्रतिष्ठार्थं धर्मशास्त्राणि चैव हि
ब्रह्मणो वचनात् तानि करिष्यन्ति युगे युगे
नियोगाद् ब्रह्मणो राजंस्तेषु धर्मः प्रतिष्ठितः
युगे युगे ऽत्र सर्वेषां कर्ता वै धर्मशास्त्रवित्
ज्योतिः शास्त्रं न्यायविद्या मीमांसा चोपबृंहणम्
चतुर्वेदैः सहोक्तानि धर्मो नान्यत्र विद्यते
स्थापयन्ति ममादेशाद् यावदाभूतसंप्लवम्
परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम्
धर्मेण सहितं ज्ञानं परं ब्रह्म प्रकाशयेत्