शिवं सर्वगतं सूक्ष्मं परं ब्रह्मा सनातनम्
वायुर्बलवतां देवि योगिनां त्वं कुमारकः
सांख्यानां कपिलो देवो रुद्राणामसि शङ्करः
वेदानां सामवेदस्त्वं गायत्री छन्दसामसि
माया त्वं सर्वशक्तीनां कालः कलयतामसि
आश्रमाणां च गार्हस्थ्यमीश्वराणां महेश्वरः
सर्वोपनिषदां देवि गुह्योपनिषदुच्यते
आदित्यः सर्वमार्गाणां वाचां देवि सरस्वती
अरुन्धती सतीनां त्वं सुपर्णः पततामसि
सावित्री चासि जप्यानां यजुषां शतरुद्रियम्
सर्वेषां त्वं परं ब्रह्म त्वन्मयं सर्वमेव हि
नमामि सत्यं तमसः परस्तात्
तदेव रूपं शरणं प्रपद्ये
प्राणाभिधानं प्रणतो ऽस्मि रूपम्
नमामि रूपं पुरुषाभिधानम्
नतो ऽस्मि ते रूपमलुप्तभेदम्
समन्वितं देवि नतो ऽस्मि रूपम्
नतो ऽस्मि रूपं जगदण्डसंज्ञम्
नमामि रूपं रविमण्डलस्थम्
नारायणाख्यं प्रणतो ऽस्मि रूपम्
नमामि रूपं तव कालसंज्ञम्
नतो ऽस्मि रूपं तव शेषसंज्ञम्
नतो ऽस्मि रूपं तव रुद्रसंज्ञम्
नमामि ते रूपमिदं नमासि
नमो भगवतीशानि शिवायै ते नमो नमः
त्वामेव शरणं यास्ये प्रसीद परमेश्वरि
जगन्मातैव मत्पुत्री संभूता तपसा यतः
मेनाशेषजगन्मातुरहो वुण्यस्य गौरवम्
नमामि तव पादाब्जं व्रजामि शरणं शिवाम्
आज्ञापय महादेवि किं करिष्यामि शङ्करि