धाराधरा वरारोहा वरावरसहस्त्रदा
श्रीधरा श्रीकरी कल्या श्रीधरार्धशरीरिणी
निहन्त्री दैत्यसङ्घानां सिहिका सिहवाहना
रसज्ञा रसदा रामा लेलिहानामृतस्त्रवा
वज्रदण्डा वज्रजिह्वा वैदेवी वज्रविग्रहा
गान्धर्वो गारुडी चान्द्री कम्बलाश्वतरप्रिया
कर्णिकारकरा कक्ष्या कंसप्राणापहारिणी
प्रत्यक्षदेवता दिव्या दिव्यगन्धा दिवापरा
इष्टा विशिष्टा शिष्टेष्टा शिष्टाशिष्टप्रपूजिता
सुरेन्द्रमाता सुद्युम्ना सुषुम्ना सूर्यसंस्थिता
धर्मशास्त्रार्थकुशला धर्मज्ञा धर्मवाहना
धर्मशक्तिर्धर्ममयी विधर्मा विश्वधर्मिणी
धर्मोपदेष्ट्री धर्मत्मा धर्मगम्या धराधरा
सर्वशक्तिविनिर्मुक्ता सर्वशक्त्याश्रयाश्रया
सदाशिवा वियन्मूर्तिर्विश्वमूर्तिरमूर्तिका
भूयः प्रणम्य भीतात्मा प्रोवाचेदं कृताञ्जलिः
भीतो ऽस्मि साम्प्रतं दृष्ट्वा रूपमन्यत् प्रदर्शय
संहृत्य दर्शयामास स्वरूपमपरं पुनः
द्विनेत्रं द्विभुजं सौम्यं नीलालकविभूषितम्
श्रीमद् विशालसंवृत्तललाटतिलकोज्ज्वलम्
दधानमुरसा मालां विशालां हेमनिर्मिताम्
प्रसन्नवदनं दिव्यमनन्तमहिमास्पदम्
भीतिं संत्यज्य हृष्टात्मा बभाषे परमेश्वरीम्
यन्मे साक्षात् त्वमव्यक्ताप्रसन्ना दृष्टिगोचरा
त्वय्येव लीयते देवि त्वमेव च परा गतिः
अपरे परमार्थज्ञाः शिवेति शिवसंश्रये
अविद्या नियतिर्माया कलाद्याः शतशो ऽभवन्
सर्वभेदविनिर्मुक्ता सर्वेभेदाश्रया निजा
प्रधानाद्यं जगत् कृत्स्नं करोति विकरोति च
त्वमेव परमानन्दस्त्वमेवानन्ददायिनी